संस्कृत सूची|संस्कृत साहित्य|संहिता|शार्ङ्गधर संहिता|उत्तरखण्डम्| नवमोऽध्यायः उत्तरखण्डम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः उत्तरखण्डम् - नवमोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : Ayurvedsamhitasanskritsharangdhar samhitaआयुर्वेदशार्ङ्गधर संहितासंस्कृतसंहिता धूमपानविधिः Translation - भाषांतर तत्र धूमसंख्याधूमस्तु षड्विधः प्रोक्तः शमनो बृंहणस्तथारेचनः कासहा चैव वामनो व्रणधूपनः ॥१॥शमनबृंहणरेचनधूमानां पर्यायाःशमनस्य तु पर्यायौ मध्यः प्रायोगिकस्तथाबृंहणस्यापि पर्यायौ स्नेहनो मृदुरेव चरेचनस्यापि पर्यायौ शोधनस्तीक्ष्ण एव च ॥२॥धूमपानानर्हा जनाःअधूमार्हाश्च खल्वेते श्रान्तो भीतश्च दुःखितः ॥३॥दत्तबस्तिर्विरिक्तश्च रात्रौ जागरितस्तथापिपासितश्च दाहार्तस्तालुशोषी तथोदरी ॥४॥शिरोऽभितापी तिमिरी छर्द्याध्मानप्रपीडितःक्षतोरस्कः प्रमेहार्तः पाण्डुरोगी च गर्भिणी ॥५॥रूक्षः क्षीणोऽभ्यवहृतक्षीरक्षौद्र घृतासवःभुक्तान्नदधिमत्स्यश्च बालो वृद्धः कृशस्तथा ॥६॥अकाले धूमपाने दोषस्तत्प्रतीकारश्चअकाले चातिपीतश्च धूमः कुर्यादुपद्र वान्तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम् ॥७॥सर्पिरिक्षुरसं द्रा क्षां पयो वा शर्कराम्बु वामधुराम्लौ रसौ वाऽपि शमनाय प्रदापयेत् ॥८॥धूमपानस्य समया गुणाश्चधूमस्तु द्वादशाद्वर्षाद् गृह्यतेऽशीतिकान्न चकासश्वासप्रतिश्यायान्मन्याहनुशिरोरुजः ॥९॥वातश्लेष्मविकारांश्च हन्याद् धूमः सुयोजितःधूमप्रयोगात्पुरुषः प्रसन्नेन्द्रि यवाङ्मनाःदृढकेशद्विजश्मश्रुः सुगन्धिवदनो भवेत् ॥१०॥धूमनलिकाविधानम्धूमनाडी भवेत्तत्र त्रिखण्डा च त्रिपर्विका ॥११॥कनिष्ठिकापरीणाहा राजमाषागमान्तराधूमनाडी भवेद्दीर्घा शमने रोगिणोऽङ्गुलैः ॥१२॥चत्वारिंशन्मितैस्तद्वद् द्वात्रिंशद्भिर्मृदौ मतातीक्ष्णे चतुर्विंशतिभिः कासघ्नी षोडशोन्मितैः ॥१३॥दशाङ्गुलैर्वामनीये तथा स्याद् व्रणनाडिकाकलायमण्डलस्थूला कुलत्थागमरन्ध्रिका ॥१४॥धूमपानार्थमीषिकाविधानम्अथेषिकां प्रलिम्पेच्च सुश्लक्ष्णां द्वादशाङ्गुलाम्धूमद्र व्यस्य कल्केन लेपश्चाष्टाङ्गुलः स्मृतः ॥१५॥कल्कं कर्षमितं लिप्त्वा छायाशुष्कं च कारयेत्ईषिकामपनीयाथ स्नेहाक्तां वर्त्तिमादरात् ॥१६॥अङ्गारैर्दीपितां कृत्वा धृत्वा नेत्रस्य रन्ध्रकेवदनेन पिबेद् धूमं वदनेनैव सन्त्यजेत् ॥१७॥नासिकाभ्यां ततः पीत्वा मुखेनैव वमेत्सुधीःशरावसम्पुटे क्षिप्त्वा कल्कमङ्गारदीपितम्छिद्रे नेत्रं निवेश्याथ व्रणं तेनैव धूपयेत् ॥१८॥शमनादिधूमानां द्र व्याणिएलादिकल्कं शमने स्निग्धं सर्जरसं मृदौरेचने तीक्ष्णकल्कं च कासघ्नं क्षुद्रि कोषणम् ॥१९॥वामने स्नायुचर्माद्यं दद्याद् धूमस्य पानकम्व्रणे निम्बवचाद्यं च धूपनं सम्प्रशस्यते ॥२०॥बालग्रहादिष्वपराजितो धूपःअन्येऽपि धूमा गेहेषु कर्तव्या रोगशान्तये ॥२१॥मयूरपिच्छं निम्बस्य पत्राणि बृहतीफलम्मरिचं हिङ्गु मांसी च बीजं कार्पाससम्भवम् ॥२२॥छागरोमाहिनिर्मोकं विष्ठा वैडालिकी तथागजदन्तश्च तच्चूर्णं किच्चिद्घृतविमिश्रितम् ॥२३॥गेहेषु धूपनं दत्तं सर्वान्बालग्रहाञ्जयेत्पिशाचान्राक्षसाञ्जित्वा सर्वज्वरहरं भवेत् ॥२४॥धूमपाने पथ्यं नेत्रद्र व्याणि चपरिहारस्तु धूमेषु कार्यो रेचननस्यवत्नेत्राणि धातुजान्याहुर्नलवंशादिजान्यपि ॥२५॥इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे धूमपानविधिर्नाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : March 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP