उत्तरखण्डम् - प्रथमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


अथ स्नेहस्य भेदास्तत्पानकालश्च

स्नेहश्चतुर्विंधः प्रोक्तो घृतं तैलं वसा तथा
मज्जा च तं पिबेन्मत्तर्याः किचिदभ्युदिते रवौ ॥१॥

योनिभेदेन स्नेहस्य द्वैविध्यम्
स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते ॥२॥

स्थावरजङ्गमयोः श्रेष्ठस्नेहनामनिर्देशः
तिलतैलं स्थावरेषु जङ्गमेषु घृतं वरम् ॥३॥

मिलितस्नेहनामानि
द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान् ॥४॥

स्नेहसात्म्ये कालावधिः
पिबेत् त्र्! यहं चतुरहं पञ्चाहं षडहं तथा
सप्तरात्रात्परं स्नेहं आत्मीभवति सेवितः ॥५॥

स्नेहपानमात्राविषयाः
दोषकालाग्निवयसां बलं दृष्ट्वा प्रयोजयेत्
हीनां च मध्यमां ज्येष्ठां मात्रां स्नेहस्य बुद्धिमान् ॥६॥

अमात्रादिसेवितस्नेहस्य दोषास्तदुपायाश्च
अमात्रया तथाऽकाले मिथ्याहारविहारतः
स्नेहः करोति शोफार्शस्तन्द्रा निद्रा विसंज्ञताः
प्रकुर्याल्लङ्घनं तत्र स्वेदं ज्ञात्वा विरेचनम् ॥७॥

स्नेहपानमात्राः
देया दीप्ताग्नये मात्रा स्नेहस्य पलसंमिता
मध्यमाय त्रिकर्षा स्याज्जघन्याय द्विकार्षिकी ॥८॥

स्नेहपानमात्राया अन्ये भेदाः
अथवा स्नेहमात्राः स्युस्तिस्रोऽन्या सर्वसम्मताः
अहोरात्रेण महती जीर्यत्यह्नि तु मध्यमा
जीर्यत्यल्पा दिनार्धेन सा विज्ञेया सुखावहा ॥९॥

मात्राभेदेन स्नेहपानगुणाः
अल्पा स्याद्दीपनी वृष्या स्वल्पदोषेषु पूजिता
मध्यमा स्नेहनी ज्ञेया बृंहणी भ्रमहारिणी ॥१०॥

ज्येष्ठा कुष्ठविषोन्मादग्रहापस्मारनाशिनी ॥११॥

दोषानुसारेण घृतपानेऽनुपानव्यवस्था
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्
पेयं बहुकफे चापि व्योषक्षारसमन्वितम् ॥१२॥

घृतपानयोग्या जनाः
रूक्षक्षतविषार्त्तानां वातपित्तविकारिणाम्
हीनमेधास्मृतीनां च सर्पिष्पानं प्रशस्यते ॥१३॥

तैलपानयोग्या जनाः
कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः
पिबेयुस्तैलसात्म्या ये तैलं दार्ढ्यार्थिनस्तु ये ॥१४॥

वसापानयोग्या जनाः
व्यायामकर्षिताः शुष्करेतोरक्ता महारुजः
महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः ॥१५॥

मञ्जापानयोग्या जनाः
क्रूराशयाः क्लेशसहा वातार्त्ता दीप्तवह्नयः
मज्जानं च पिबेयुस्ते सपिर्वा सर्वतो हितम् ॥१६॥

स्नेहपानसमयः
शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि
वातपित्ताधिके रात्रौ वातश्लेष्माधिके दिवा ॥१७॥

तैलघृतयोर्विशिष्टकर्मनिर्देशः
नस्याभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणे
तैलं घृतं वा युञ्जीत दृष्ट्वा दोषबलाबलम् ॥१८॥

स्नेहभेदेनानुपानभेदाः
घृते कोष्णजलं पेयं तैले यूषः प्रशस्यते
वसामज्ज्ञोः पिबेन्मण्डमनुपानं सुखावहम् ॥१९॥

सान्नस्नेहपानस्य विषयाः
स्नेहद्विषः शिशून्वृद्धान्सुकुमारान्कृशानपि
उष्णकामानुष्णकाले सह भक्तेन पाययेत् ॥२०॥

सद्यः स्नेहनयोगः
सर्पिष्मती बहुतिला यवागूः स्वल्पतण्डुला
सुखोष्णा सेव्यमाना तु सद्यः स्नेहनकारिणी ॥२१॥

सद्यः स्नेहनयोगान्तरम्
शर्कराचूर्णसम्भृष्टे दोहनस्थे घृते तु गाम्
दुग्ध्वा क्षीरं पिबेदुष्णं सद्यःस्नेहनमुच्यते ॥२२॥

स्नेहाजीर्णोपायः
मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति
विष्टभ्य वाऽपि जीर्येत वारिणोष्णेन वामयेत् ॥२३॥

स्नेहाजीर्णप्रतीकारः
स्नेहस्याजीर्णशङ्कायां पिबेदुष्णोदकं नरः
तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा ॥२४॥

स्नेहपानजतृष्णा चिकित्सा
स्नेहेन पैक्तिकस्याग्निर्यदा तीक्ष्णतरीकृतः
तदाऽस्योदीरयेत्तृष्णां स्नेहमुष्णाम्बुना वमेत्
शीतं जलं पाययेच्च पिपासा तेन शाम्यति ॥२५॥

स्नेहपानानर्हा नराः
अजीर्णी वर्जयेत्स्नेहमुदरी तरुणज्वरी
दुर्बलोऽरोचकी स्थूलो मूर्च्छार्त्तो मदपीडितः
दत्तवस्तिर्विरिक्तश्च वान्तस्तृष्णाश्रमान्वितः
अकालप्रसवा नारी दुर्दिने च विवर्जयेत् ॥२६॥

स्नेहपानार्हा नराः
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः
वृद्धा बालाः कृशा रूक्षाः क्षीणास्राः क्षीणरेतसः
वातार्त्तास्तिमिरार्त्ता ये तेषां स्नेहनमुत्तमम् ॥२७॥

सुस्निग्धरूक्षयोर्लक्षणनिर्देशः
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम् ॥२८॥

मृदुस्निग्धाङ्गताऽग्लानिः स्नेहावेगोऽथ लाघवम्
विमलेन्द्रि यता सम्यक् स्निग्धे रूक्षे विपर्ययः ॥२९॥

अतिस्निग्धस्य लक्षणम्
भक्तद्वेषो मुखस्रावो गुदे दाहः प्रवाहिका
तन्द्रा ऽतिसारः पाण्डुत्वं भृशं स्निग्धस्य लक्षणम् ॥३०॥

रूक्षातिस्निग्धयोरुपायः
रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्
श्यामाकचणकाद्यैश्च तक्रपिण्याकसक्तुभिः ॥३१॥

स्नेहसेवनगुणाः
दीप्ताग्निःशुद्धकोष्ठश्च पुष्टधातुर्दृढेन्द्रि यः
निर्जरो बलवर्णाढ्यः स्नेहसेवी भवेन्नरः ॥३२॥

स्नेहसेवने वर्ज्याः
स्नेहे व्यायामसंशीतवेगाघातप्रजागरान्
दिवास्वप्नमभिष्यन्दि रूक्षान्नं च विवर्जयेत् ॥३३॥

इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे स्नेहपानविधिर्नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP