उत्तरखण्डम् - अष्टमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


तत्र नस्यस्य निरुक्तिर्नाम च

नस्यं तत्कथ्यते धीरैर्नासाग्राह्यं यदौषधम्
नावनं नस्यकर्मेति तस्य नामद्वयं मतम् ॥१॥

नस्यभेदाः
नस्यभेदो द्विधा प्रोक्तो रेचनं स्नेहनं तथा
रेचनं कर्षणं प्रोक्तं स्नेहनं बृंहणं मतम् ॥२॥

नस्यकर्मकालः
कफपित्तानिलध्वंसे पूर्वमध्यापराह्णके
दिने तु गृह्यते नस्यं रात्रावप्युत्कटे गदे ॥३॥

नस्यानर्हाः समया जनाश्च
नस्यं त्यजेद्भोजनान्ते दुर्दिने चापतर्पणे
तथा नवप्रतिश्यायी गर्भिणी गरदूषितः ॥४॥

अजीर्णीदत्तबस्तिश्च पीतस्नेहोदकासवः
क्रुद्धः शोकाभिभूतश्च तृषाऽत्तो वृद्धबालकौ
वेगावरोधी स्नातश्च स्नातुकामश्च वर्जयेत् ॥५॥

नस्यार्हानर्हा अवस्थाः
अष्टवर्षस्य बालस्य नस्यकर्म समाचरेत्
अशीतिवर्षादूर्ध्वं च नावनं नैव दीयते ॥६॥

वैरेचनं नस्यम्
अथ वैरेचनं नस्यं ग्राह्यं तैलैः सुतीक्ष्णकैः
तीक्ष्णभेषजसिद्धैर्वा स्नेहैः क्वाथै रसैस्तथा ॥७॥

शिरोविरेचननस्यमात्रा
नासिकारन्ध्रयोरष्टौ षट् चत्वारश्च बिन्दवः
प्रत्येकं रेचने योज्या मुख्यमध्यान्त्यमात्रया ॥८॥

नस्यकर्मण्यौषधप्रमाणम्
नस्यकर्मणि दातव्यं शाणैकं तीक्ष्णमौषधम्
हिङ्गु स्याद्यावमात्रं तु माषैकं सैन्धवं मतम् ॥९॥

क्षीरं चैवाष्टशाणं स्यात्पानीयं च त्रिकार्षिकम्
कार्षिकं मधुरं द्र व्यं नस्यकर्मणि योजयेत् ॥१०॥

शिरोविरेचननस्यभेदाः
अवपीडः प्रधमनं द्वौ भेदावपरौ स्मृतौ
शिरोविरेचनस्यात्र तौ तु देयौ यथायथम् ॥११

अवपीडननस्यस्वरूपम्
कल्कीकृतादौषधाद्यः पीडितो निःसृतो रसः
सोऽवपीडः समुद्दिष्टस्तीक्ष्णद्र व्यसमुद्भवः ॥१२॥

प्रधमननस्यस्वरूपम्
षडङ्गुला द्विवक्रा वा नाडी चूर्णं तया धमेत्
तीक्ष्णं कोलमितं वक्त्रवातैः प्रधमनं हि तत् ॥१३॥

रेचननस्ययोर्योग्या जनाः
ऊर्ध्वजत्रुगते रोगे कफजे स्वरसंक्षये
अरोचके प्रतिश्याये शिरःशूले च पीनसे
शोफापस्मारकुष्ठेषु नस्यं वैरेचनं हितम् ॥१४॥

स्नेहननस्ययोग्या जनाः
भीरुस्त्रीकृशबालानां नस्यं स्नेहेन दीयते ॥१५॥

अवपीडननस्ययोग्या जनाः
गलरोगे सन्निपाते निद्रा यां विषमज्वरे
मनोविकारे कृमिषु युज्यते चावपीडनम् ॥१६॥

प्रधमननस्ययोग्या जनाः
अत्यन्तोत्कटदोषेषु विसंज्ञेषु च दीयते
चूर्णं प्रधमनं धीरैस्तद्धि तीक्ष्णतरं यतः ॥१७॥

अथावपीडनप्रधमनयोः कतिपययोगाः
नस्यं स्याद् गुडशुण्ठीभ्यां पिप्पल्या सैन्धवेन च
जलपिष्टेन तेनाक्षिकर्णनासाशिरोगदाः ॥१८॥

मन्याहनुगलोद्भूता नश्यन्ति भुजपृष्ठजाः ॥१९॥

मधूकसारादिनस्यम्
मधूकसारकृष्णाभ्यां वचामरिचसैन्धवैः
नस्यं कोष्णजले पिष्टं दद्यात्सञ्ज्ञाप्रबोधनम्
अपस्मारे तथोन्मादे सन्निपातेऽपतन्त्रके ॥२०॥

तन्द्रा यां सैन्धवादि नस्यम्
सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण पिष्टानि नस्यं तन्द्रा निवारणम् ॥२१॥

तत्रैव मरिचादिप्रधमननस्यम्
रोहितमत्स्यपित्तेन भावितं सैन्धवं वचा ॥२२॥

मरिचं पिप्पली शुण्ठी कङ्कोलं लशुनं परम्
कट्फलं चेति तच्चूर्णं देयं प्रधमनं बुधैः ॥२३॥

बृंहणनस्यविधिः
अथ बृंहणनस्यस्य कल्पना कथ्यतेऽधुना
मर्शश्च प्रतिमर्शश्च द्वौ भेदौ स्नेहनौ मतौ ॥२४॥

मर्शस्य तर्पणी मात्रा मुख्या शाणैः स्मृताऽष्टभिः
मध्यमा च चतुःशाणैर्हीना शाणमिता स्मृता ॥२५॥

एकैकस्मिंस्तु मात्रेयं देया नासापुटे बुधैः
मर्शस्य द्वित्रिवेलं वा वीक्ष्य दोषबलाबलम् ॥२६॥

एकान्तरं द्व्यन्तरं वा नस्यं दद्याद्विचक्षणः
त्र्! यहं पञ्चाहमथवा सप्ताहंवा सुयन्त्रितम् ॥२७॥

मर्शे शिरोविरेके च व्यापदो विविधाः स्मृताः
दोषोत्क्लेशात्क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् ॥२८॥

दोषोत्क्लेशनिमित्तासु युञ्ज्याद्वमनशोधनम्
अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम् ॥२९॥

शिरोनासाऽक्षिरोगेषु सूर्यावर्त्तार्धभेदके
दन्तरोगे बले हीने मन्याबाह्वंसजे गदे ॥३०॥

मुखशोषे कर्णनादे वातपित्तगदे तथा
अकालपलिते चैव केशश्मश्रुप्रपातने
युज्यते बृंहणं नस्यं स्नेहैर्वा मधुरद्र वैः ॥३१॥

तत्र कुङ्कुमनस्यम्
सशर्करं पयःपिष्ठं भृष्टमाज्येन कुङ्कुमम् ॥३२॥

नस्यप्रयोगतो हन्याद्वातरक्तभवा रुजः
भ्रूशङ्खाक्षिशिरः कर्णसूर्यावर्त्तार्धभेदकान् ॥३३॥

अन्यद् बृंहणनस्यम्
नस्यं स्यादणुतैलेन तथा नारायणेन वा
माषादिना वा सर्पिर्भिस्तत्तद्भेषजसाधितैः ॥३४॥

दोषानुसारेण नस्ये स्नेहव्यस्था
तैलं कफे स्याद्वाते च केवले पवने वसा
दद्यान्नस्यं सदा पित्ते सर्पिर्मज्जानमेव च ॥३५॥

पक्षाघातादौ माषादिनस्यम्
माषात्मगुप्तारास्नाभिर्बलारुबुकरोहिषैः
कृतोऽश्वगन्धया क्वाथो हिङ्गुसैन्धवसंयुतः ॥३६॥

कोष्णो नस्यप्रयोगेण पक्षाघातं सकम्पनम्
जयेदर्दितवातं च मन्यास्तम्भापबाहुकौ ॥३७॥

प्रतिमर्शनस्यमात्रा
प्रतिमर्शस्य मात्रा तु द्विद्विबिन्दुमिता मता
प्रत्येकशो नस्तकयोः स्नेहेनेति विनिश्चितम् ॥३८॥

विन्द्वात्मकमात्रालक्षणम्
स्नेहे ग्रन्थिद्वयं यावन्निमग्ना चोद्धृता ततः
तर्जनी यं स्रवेद्विन्दुं सा मात्रा बिन्दुसञ्ज्ञिता ॥३९॥

एवं विधैर्बिन्दुसञ्ज्ञैरष्टभिः शाण उच्यते
स देयो मर्शनस्ये तु प्रतिमर्शो द्विबिन्दुकः ॥४०॥

प्रतिमर्शनस्यस्य चतुर्दशसमयः
समयाः प्रतिमर्शस्य बुधैः प्रोक्ताश्चतुर्दश
प्रभाते दन्तकाष्ठान्ते गृहान्निर्गमने तथा ॥४१॥

व्यायामाध्वव्यवायान्ते विण्मूत्रान्तेऽञ्जने कृते
कवलान्ते भोजनान्ते दिवासुप्तोत्थिते तथा
वमनान्ते तथा सायं प्रतिमर्शः प्रयुज्यते ॥४२॥

प्रतिमर्शनस्यस्य निषिक्तलक्षणम्
ईषदुच्छिक्कनात्स्नेहो यदा वक्त्रं प्रपद्यते ॥४३॥

नस्ये निषिक्तं तं विद्यात्प्रतिमर्शप्रमाणतः
उच्छिन्दन्न पिबेच्चैतन्निष्ठीवेन्मुखमागतम् ॥४४॥

प्रतिमर्शनस्ययोग्या जनाः
क्षीणे तृष्णास्यशीर्षार्त्ते बाले वृद्धे च युज्यते
प्रतिमर्शेनशाम्यन्ति रोगाश्चैवोर्ध्वजत्रुजाः
वलीपलितनाशश्च बलमिन्द्रि यजं भवेत् ॥४५॥

पलितरोगे नस्यम्
बिभीतनिम्बगम्भारी शिवा शेलुश्च काकिनी
एकैकतैलनस्येन पलितं नश्यति ध्रुवम् ॥४६॥

नस्यग्रहणविधिः
अथ नस्यविधिं वक्ष्ये नस्यग्रहणहेतवे
देशे वातरजोमुक्ते कृतदन्तनिघर्षणम् ॥४७॥

विशुद्धं धूमपानेन स्विन्नभालगलं तथा
उत्तानशायिनं किंचित्प्रलम्बशिरसं नरम् ॥४८॥

आस्तीर्णहस्तपादं च वस्त्राच्छादितलोचनम्
समुन्नमितनासाऽग्र वैद्यौ नस्येन योजयेत् ॥४९॥

कोष्णमच्छिन्नधारं च हेमतारादिशुक्तिभिः
शुक्त्या वा यत्र युक्त्या वा प्लोतैर्वा नस्यमाचरेत् ॥५०॥

नस्यप्रयोगसमये वर्ज्या विषयाः
नस्येष्वासिच्यमानेषु शिरो नैव प्रकम्पयेत्
न कुप्येन्न प्रभाषेत नोच्छिन्देन्नहसेत्तथा ॥५१॥

एतैर्हि विहितः स्नेहो नैवान्तः संप्रपद्यते ॥५२

नस्यप्रमादजा रोगाः
ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः
शृङ्गाटकमभिप्लाव्य स्थापयेन्न गिलेद् द्र वम् ॥५३॥

नस्यधारणमात्रा
पञ्च सप्त दशैव स्युर्मात्रा नस्यस्य धारणे ॥५४॥

नस्यधारणानन्तरं कर्त्तव्यकर्म
उपविश्याथ निष्ठीवेन्नासावक्त्रगतं द्र वम्
वामदक्षिणपार्श्वाभ्यां निष्ठीवेत्सम्मुखे न हि ॥५५॥

नस्यानन्तरं त्याज्यकर्माणि
नस्ये नीते मनस्तापं रजः क्रोधं च सन्त्यजेत्
शयीत निद्रा ं! त्यक्त्वा च प्रोत्तानो वाक्शतं नरः
तथा वैरेचनस्यान्ते धूमो वा कवलो हितः ॥५६॥

नस्यस्य लक्षणत्रयम्
नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः
शुद्धिहीनातियोगानि विशेषाच्छास्त्रचिन्तकैः ॥५७॥

शिरःशुद्धिलक्षणम्
लाघवं मनसः शुद्धिः स्रोतसां व्याधिसंक्षयः
चित्तेन्द्रि यप्रसादश्च शिरसः शुद्धिलक्षणम् ॥५८॥

हीनशुद्धिलक्षणम्
कण्डूपदेहोगुरुता स्रोतसां कफसंस्रवः
मूर्ध्नि हीनविशुद्धेस्तु लक्षणं परिकीर्त्तितम् ॥५९॥

अतिशयशुद्धस्य लक्षणम्
मस्तुलुङ्गागमो वातवृद्धिरिन्द्रि यविभ्रमः
शून्यता शिरसश्चापि मूर्ध्नि गाढं विरेचिते ॥६०॥

हीनातिसम्यक्शुद्धिक्रियाः
हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्
सम्यग्विशुद्धे शिरसि सर्पिर्नस्ये निषेचयेत् ॥६१॥

अतिस्निग्धस्य लक्षणं चिकित्सा च
कफप्रसेकः शिरसो गुरुतेन्द्रि यविभ्रमः
लक्षणं तदतिस्निग्धे तत्र रूक्षं प्रदापयेत्
भोजयेच्चानभिष्यन्दि नस्याचारिकमादिशेत् ॥६२॥

पञ्चकर्मणां नामानि
वमनं रेचनं नस्यं निरूहश्चानुवासनम्
एतानि पञ्च कर्माणि कथितानि मुनीश्वरैः ॥६३॥

इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे नस्यविधिर्नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP