पूर्वखण्डम् - षष्ठोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


तत्र आहारादिगतिकथनम्
आहारस्य पाकक्रमनिर्देशः

यात्यामाशयमाहारः पूर्वं प्राणानिलेरितः
माधुर्यं फेनभावं च षड्रसोऽपि लभेत सः ॥१॥

आहारस्याम्लभाव ग्रहणीनयन कटुभावानां निर्देशः
अथ पाचकपित्तेन विदग्धश्चाम्लतां व्रजेत्
ततः समानमरुता ग्रहणीमभिनीयते
ग्रहण्यां पच्यते कोष्ठवह्विना जायते कटुः ॥२॥

आहारस्य रसामावस्थयोनिर्देशः
रसो भवति संपक्वादपक्वादामसंभवः ॥३॥

परिपक्वस्य रसस्य कार्याणि
वह्नेर्बलेन माधुर्यं स्निग्धतां याति तद्र सः
पुष्णाति धातूनखिलान्सम्यक्पक्वोऽमृतोपमः ॥४॥

आमरसस्य कार्याणि
मन्दबह्निविदग्धश्च कटुश्चाम्लो भवेद्र सः
विषभावं व्रजेद्वाऽपि कुर्याद्वा रोगसंकरम् ॥५॥

आहारस्य सारमलपदार्थयोर्निर्देशादिकम्
आहारस्य रसः सारः सारहीनो मलद्र वः
शिराभिस्तज्जलं नीतं वस्तौ मूत्रत्वमाप्नुयात् ॥६॥

तत्किट्टं च मलं ज्ञेयं तिष्ठेत्पक्वाशये च तत्
वलित्रितयमार्गेण यात्यपानेन नोदितम्
प्रवाहिणी सर्जनी च ग्राहिकेति वलित्रयम् ॥७॥

रसस्य रक्तत्वनिर्देशः
रसस्तु हृदयं याति समान मरुतेरितः
रञ्जितः पाचितस्तत्र पित्तेनायाति रक्तताम् ॥८॥

रक्तस्य प्राधान्यस्वरूपयोर्निर्देशः
रक्तं सर्वशरीरस्थं जीवस्याधारमुत्तमम्
स्निग्धं गुरु चलं स्वादु विदग्धं पित्तवद्भवेत् ॥९॥

रसादिधातूनां पाकक्रमः
पाचिताः पित्ततापेन रसाद्या धातवः क्रमात्
शुक्रत्वं यान्ति मासेन तथा स्त्रीणां रजो भवेत् ॥१०॥

गर्भोत्पत्तिनिर्देशः
कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः
गर्भःसंजायते नार्याः स जातो बाल उच्यते ॥११॥

स्त्रीपुंनपुंसकोत्पत्तौ हेतुनिर्देशः
आधिक्ये रजसः कन्या पुत्रः शुक्राधिके भवेत्
नपुंसकं समत्वेन यथेच्छा पारमेश्वरी ॥१२॥

बालस्यौषधमात्रानिर्देशः
बालस्य प्रथमे मासि देया भेषजरक्तिका ॥१३॥

अवलेहीकृतैकैव क्षीरक्षौद्र सिताघृतैः
वर्धयेत्तावदेकैका यावद्भवति वत्सरः ॥१४॥

माषैर्वृद्धिस्तदूर्ध्वं स्याद्यावत्षोडशवत्सरः
ततः स्थिरा भयेत्तावद्यावद्वर्षाणि सप्ततिः ॥१५॥

ततो बालकवन्मात्रा ह्रासनीया शनैः शनैः
मात्रेयं कल्कचूर्णानां कषायाणां चतुर्गुणा ॥१६॥

आजन्म सात्म्यकर्माणि
अञ्जनं च तथा लेपः स्नानमभ्यङ्गकर्म च
वमनं प्रतिमर्शश्च जन्मप्रभृति शस्यते ॥१७॥

वयोऽनुसारेण कवलादि योजना निर्देशः
कवलः पञ्चमाद्वर्षादष्टमान्नस्यकर्म च
विरेकः षोडशाद्वर्षाद्विंशतेश्चैव मैथुनम् ॥१८॥

बाल्यादीनां ह्राससमयनिर्देशः
बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ
बुद्धिः कर्मेन्द्रि यं चेतो जीवितं दशतो ह्र्रसेत् ॥१९॥

वातप्रकृतिलक्षणम्
अल्पकेशः कृशो रूक्षो वाचालश्चलमानसः
आकाशचारी स्वप्नेषु वातप्रकृतिको नरः ॥२०॥

पित्तप्रकृतिलक्षणम्
अकालपलितैर्व्याप्तो धीमान्स्वेदी च रोषणः
स्वप्नेषु ज्योतिषां द्र ष्टा पित्तप्रकृतिको नरः ॥२१॥

श्लेष्मप्रकृतिलक्षणम्
गम्भीरबुद्धिः स्थूलाङ्गः स्निग्धकेशो महाबलः
स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः ॥२२॥

द्विदोषत्रिदोषप्रकृतिलक्षणे
ज्ञातव्या मिश्रचिह्नैश्च द्वित्रिदोषोल्बणा नराः ॥२३॥

निद्रा मूर्च्छाभ्रान्तितन्द्रा लक्षणानि
तमः कफाभ्यां निद्रा स्यान्मूर्च्छा पित्ततमोभवा
रजः पित्तानिलैर्भ्रान्तिस्तन्द्रा श्लेष्मतमोऽनिलैः ॥२४॥

ग्लान्यालस्ययोर्लक्षणे
ग्लानिरोजःक्षयाद् दुःखादजीर्णाच्च श्रमाद्भवेत्
यः सामर्थ्येऽप्यनुत्साहस्तदालस्यमुदीर्यते ॥२५॥

जृम्भालक्षणम्
चैतन्यशिथिलत्वाद्यः पीत्वैकं श्वासमुद्वमेत्
विदीर्णवदनः श्वासं जृम्भा सा कथ्यते बुधैः ॥२६॥

छिक्कालक्षणम्
उदानप्राणयोरूर्ध्वं योगान्मौलिकफस्रवात्
शब्दः संजायते नस्तः क्षुतं तत्कथ्यते बुधैः ॥२७॥

उद्गारलक्षणम्
उदानकोपादाहारसुस्थिरत्वाच्च यद्भवेत्
पवनस्योर्द्ध्वगमनं तमुद्गारं प्रचक्षते ॥२८॥

इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे आहारादिगतिकथनं नाम षष्ठोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP