पूर्वखण्डम् - चतुर्थोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


तत्र दीपनपाचनादिकथनम्
तत्र दीपनद्र व्यलक्षणम्

पचेन्नामं वह्निकृच्च दीपनं तद्यथा मिशिः ॥१॥

पाचनदीपनपाचनद्र व्ययोर्लक्षणे
पचत्यामं न वह्निं च कुर्याद्यत्तद्धि पाचनम्
नागकेशरवद्विद्याच्चित्रो दीपनपाचनः ॥२॥

संशमनद्र व्यलक्षणम्
न शोधयति न द्वेष्टि समान्दोषांस्तथोद्धतान्
समीकरोति विषमाञ्शमनं तद्यथामृता ॥३॥

अनुलोमनद्र व्यलक्षणम्
कृत्वा पाकं मलानां यद्भित्त्वा बन्धमधो नयेत्
तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी ॥४॥

स्रंसनद्र व्यलक्षणम्
पक्तव्यं यदपक्त्वैव श्लिष्टं कोष्ठे मलादिकम्
नयत्यधः स्रंसनं तद्यथा स्यात् कृतमालकः ॥५॥

भेदनद्र व्यलक्षणम्
मलादिकमबद्धं यद्बद्धं वा पिण्डितं मलैः
भित्त्वाऽध पातयति यद् भेदनं कटुकी यथा ॥६॥

रेचनद्र व्यलक्षणम्
विपक्वं यदपक्वं वा मलादि द्र वतां नयेत्
रेचयत्यपि तज्ज्ञेयं रेचनं त्रिवृता यथा ॥७॥

वमनद्र व्यलक्षणम्
अपक्वपित्तश्लेष्माणौ बलादूर्ध्वं नयेत्तु यत्
वमनं तद्धि विज्ञेयं मदनस्य फलं यथा ॥८॥

शोधनद्र व्यलक्षणम्
स्थानाद् बहिर्नयेदूर्ध्वमधो वा मलसंचयम्
देहसंशोधनं तत्स्याद् देवदालीफलं यथा ॥९॥

छेदनद्र व्यलक्षणम्
श्लिष्टान्कफादिकान्दोषानुन्मूलयति यद्बलात्
छेदनं तद्यथा क्षारा मरिचानि शिलाजतु ॥१०॥

लेखनद्र व्यलक्षणम्
धातून्मलान्वा देहस्य विशोष्योल्लेखयेच्च यत्
लेखनं तद्यथा क्षौद्रं नीरमुष्णं वचा यवाः ॥११॥

ग्राहिद्र व्यलक्षणम्
दीपनं पाचनं यत्स्यादुष्णत्वाद् द्र वशोषकम्
ग्राहि तच्च यथा शुण्ठी जीरकं गजपिप्पली ॥१२॥

स्तम्भनद्र व्यलक्षणम्
रौक्ष्याच्छैत्यात्कषायत्वाल्लघुपाकाच्च यद्भवेत्
वातकृत्स्तम्भनं तत्स्याद्यथा वत्सकटुण्टुकौ ॥१३॥

रसायनद्र व्यलक्षणम्
रसायनं च तज्ज्ञेयं यज्जराव्याधिनाशनम्
यथाऽमृता रुदन्ती च गुग्गुलुश्च हरीतकी ॥१४॥

वाजीकरद्र व्यलक्षणम्
यस्माद् द्र व्याद्भवेत्स्त्रीषु हर्षो वाजीकरं च तत्
यथा नागबलाऽद्या स्युर्बीजं च कपिकच्छुजम् ॥१५॥

वीर्यवर्द्धकद्र व्यलक्षणम्
यस्माच्छुक्रस्य वृद्धिः स्याच्छ्रुकलं हि तदुच्यते
यथाऽश्वगन्धा मुसली शर्करा च शतावरी ॥१६॥

श्रुकस्य जनकानि रेचकानि च द्र व्याणि
दुग्धं माषाश्च भल्लातफलमज्जाऽमलानि च
प्रवर्त्तकानि कथ्यन्ते जनकानि च रेतसः ॥१७॥

वाजीकरद्र व्याणां विशेषः
प्रवर्त्तनी स्त्री शुक्रस्य रेचनं बृहतीफलम्
जातीफलं स्तम्भकं च शोषणी च हरीतकी ॥१८॥

सूक्ष्मद्र व्यलक्षणम्
देहस्य सूक्ष्मच्छिद्रे षु विशेद्यत्सूक्ष्ममुच्यते
तद्यथा सैन्धवं क्षौद्रं निम्बतैलं रुबूद्भवम् ॥१९॥

व्यवायिद्र व्यलक्षणम्
पूर्वं व्याप्याखिलं कायं ततः पाकं च गच्छति
व्यवायि तद्यथा भङ्गा फेनं चाहिसमुद्भवम् ॥२०॥

विकाशिद्र व्यलक्षणम्
सन्धिबन्धांस्तु शिथिलान्यत्करोति विकाशि तत्
विश्लेष्यौजश्च धातुभ्यो यथा क्रमुककोद्र वाः ॥२१॥

मदकारिद्र व्यलक्षणम्
बुद्धिं लुम्पति यद् द्र व्यं मदकारि तदुच्यते
तमोगुणप्रधानं च यथा मद्यसुराऽदिकम् ॥२२॥

प्राणहरद्र व्यलक्षणम्
व्यवायि च विकाशि स्यात्सूक्ष्मं छेदि मदावहम्
आग्नेयं जीवितहरं योगवाहि स्मृतं विषम् ॥२३॥

प्रमाथिद्र व्यलक्षणम्
निजवीर्येण यद् द्र व्यं स्रोतोभ्यो दोषसञ्चयम्
निरस्यति प्रमाथि स्यात्तद्यथा मरिचं वचा ॥२४॥

अभिष्यन्दिद्र व्यलक्षणम्
पैच्छिल्याद्गौरवाद् द्र व्यं रुद्ध्वा रसवहाः शिराः
धत्ते यद्गौरवं तत्स्यादभिष्यन्दि यथा दधि ॥२५॥

इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे दीपनपाचनादिकथनं नाम चतुर्थोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP