पूर्वखण्डम् - प्रथमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


मङ्गलाचरणम्

श्रियं स दद्याद्भवतां पुरारिर्यदङ्गतेजःप्रसरे भवानी
विराजते निर्मलचन्द्रि कायां महौषधीव ज्वलिता हिमाद्रौ ॥१॥

समूलं ग्रन्थप्रयोजनम्
प्रसिद्धयोगा मुनिभिः प्रयुक्ताश्चिकित्सकैर्ये बहुशोऽनुभूताः
विधीयते शार्ङ्गधरेण तेषां सुसंग्रहः सज्जनरञ्जनाय ॥२॥

रोगनिश्चयपूर्वकं चिकित्सा
हेत्वादिरूपाकृतिसात्म्यजातिभेदैः समीक्ष्यातुरसर्वरोगान्
चिकित्सितं कर्षणबृंहणाख्यं कुर्वीत वैद्यो विधिवत्सुयोगः ॥३॥

ओषधिप्रभावाः
दिव्यौषधीनां बहवः प्रभेदा वृन्दारकाणामिव विस्फुरन्ति
ज्ञात्वेति संदेहमपास्य धीरैः संभावनीया विविधप्रभावाः ॥४॥

ग्रन्थप्रयोजनम्
स्वाभाविकागन्तुककायिकान्तरा रोगा भवेयुः किल कर्मदोषजाः
तच्छेदनार्थं दुरितापहारिणः श्रेयोमयान्योगवरान्नियोजयेत् ॥५॥

ग्रन्थमाहात्म्यम्
प्रयोगानागमात्सिद्धान्प्रत्यक्षादनुमानतः
सर्वलोकहितार्थाय वक्ष्याम्यनतिविस्तरात् ॥६॥

पूर्वखण्डाध्यायानुक्रमः
प्रथमं परिभाषा स्याद्भैषज्याख्यानकं तथा
नाडीपरीक्षाऽदिविधिस्ततोदीपनपाचनम् ॥७॥

ततः कलाऽदिकाख्यानमाहारादिगतिस्तथा
रोगाणां गणना चैव पूर्वखण्डोऽयमीरितः ॥८॥

मध्यमखण्डाध्यायानुक्रमः
स्वरसः क्वाथफाण्टौ च हिमः कल्कश्च चूर्णकम्
तथैव गुटिकालेहौ स्नेहाः संधानमेव च
धातुशुद्धी रसाश्चैव खण्डोऽय मध्यमः स्मृतः ॥९॥

उत्तरखण्डाध्यायानुक्रमः
स्नेहपानं स्वेदविधिर्वमनं च विरेचनम्
ततस्तु स्नेहबस्तिः स्यात्ततश्चापि निरूहणम् ॥१०॥

ततश्चाप्युत्तरो बस्तिस्ततो नस्यविधिर्मतः
धूमपानविधिश्चैव गण्डूषादिविधिस्तथा ॥११॥

लेपादीनां विधिः ख्यातस्तथा शोणितविस्रुतिः
नेत्रकर्मप्रकारश्च खण्डः स्यादुत्तरस्त्वयम् ॥१२॥

ग्रन्थसंख्या
द्वात्रिंशत्संमिताध्याययुक्तेयं संहिता स्मृता
षड्विंशतिशतान्यत्र श्लोकानां गणितानि च ॥१३॥

मानस्यावश्यकता
न मानेन विना युक्तिर्द्र व्याणां जायते क्वचित्
अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया ॥१४॥

मागधमानपरिभाषा
त्रसरेणुर्बुधैः प्रोक्तस्त्रिंशता परमाणुभिः
त्रसरेणुस्तु पर्यायनाम्ना वंशी निगद्यते ॥१५॥

परमाणोर्वंश्याश्च लक्षणम्
जिआ!लान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः
तस्य त्रिंशत्तमो भागः परमाणुः स कथ्यते ॥१६॥

जालान्तरगतैः सूर्यकरेर्वंशी विलोक्यते ॥१७॥

मरीचिप्रभृतिसंज्ञाः
षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिस्तु राजिका
तिसृभी राजिकाभिश्च सर्षपः प्रोच्यते बुधैः ॥१८॥

यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम्
षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधान्यकौ ॥१९॥

शाणकोलसंज्ञे
माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते
टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते
क्षुद्र को वटकश्चैव द्र ङ्क्षणः स निगद्यते ॥२०॥

कर्षस्तत्पर्यायाश्च
कोलद्वयं च कर्षः स्यात्स प्रोक्तः पाणिमानिका ॥२१॥

अक्षं पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम्
विडालपदकं चैव तथा षोडशिका मता ॥२२॥

करमध्यो हंसपदं सुवर्णं कवलग्रहः
उदुम्बरं च पर्यायैः कर्ष एव निगद्यते ॥२३॥

अर्द्धपलपल संज्ञे
स्यात्कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा
शुक्तिभ्यां च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका
प्रकुञ्चः षोडशी बिल्वं पलमेवात्र कीत्तर्यते ॥२४॥

प्रसृतिकुडवादिशरावसंज्ञा
पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतश्च निगद्यते
प्रसृतिभ्यामञ्जलि स्यात्कुडवोऽद्धशरावकः ॥२५॥

अष्टमानं च स ज्ञेयः कुडवाभ्यां च मानिका
शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः ॥२६॥

प्रस्थाढकसंज्ञे
शरावाभ्यां भवेत्प्रस्थश्चतुः प्रस्थैस्तथाऽढकम्
भाजनं कंसपात्रं च चतुःषष्टिपलं च तत् ॥२७॥

द्रो णद्रो णीसंज्ञे
चतुर्भिराढकैद्रो र्णः! कलशो नल्वणार्मणौ
उन्मानश्च घटो राशिद्रो र्ण!पर्यायसंज्ञकाः ॥२८॥

द्रो णाभ्यां शूर्पकुम्भौ च चतुःषष्टिशरावकः
शूर्पाभ्यां च भवेद् द्रो णी वाही गोणी च सा स्मृता ॥२९॥

खारीसंज्ञा
द्रो णीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः
चतुःसहस्रपलिका षण्णवत्यधिका च सा ॥३०॥

भारतुलासंज्ञे
पलानां द्विसहस्त्रं च भार एकः प्रकीर्त्तितः
तुला पलशतं ज्ञेया सर्वत्रैवैष निश्चयः ॥३१॥

यथोत्तरचतुर्गुणमाषादयः
माषटङ्काक्षबिल्वानि कुडवः प्रस्थमाढकम्
राशिर्गोणीः खारिकेति यथोत्तरचतुर्गुणाः ॥३२॥

द्र वार्द्र शुष्कद्र व्याणामनुक्तमानपरिभाषा
गुज्जाऽदिमानमारभ्य यावत्स्यात्कुडवस्थितिः
द्र वार्द्र शुष्कद्र व्याणां तावन्मानं समं मतम् ॥३३॥

द्र वार्द्र योर्द्विगुणग्रहणार्थं परिभाषा
प्रस्थादिमानमारभ्य द्विगुणं तत् द्र वार्द्र योः
मानं तथा तुलायास्तु द्विगुणं न क्वचित्स्मृतम् ॥३४॥

द्र वमानार्थकुडवपात्रनिर्माणप्रकारः
मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम्
विस्तीर्णं च तथोच्चं च तन्मानं कुडवं वदेत् ॥३५॥

योगपरिभाषा
यदौषधं तु प्रथमं यस्य योगस्य कथ्यते
तन्नाम्नैव स योगो हि कथ्यतेऽत्र विनिश्चयः ॥३६॥

मात्रापरिभाषा
स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम्
प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत् ॥३७॥

कालिङ्गमानकल्पनायां हेतवः
यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः कलौ
अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसंमता ॥३८॥

कालिङ्गमानम्
यवो द्वादशभिर्गौरसर्षपैः प्रोच्यते बुधैः ॥३९॥

यवद्वयेन गुञ्जा स्यात् त्रिगुञ्जो वल्ल उच्यते
माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत्क्वचित् ॥४०॥

स्याच्चतुर्माषकः शाणः स निष्कष्टङ्क एव च
गद्याणो माषकैः षड्भिः कर्षः स्याद्दशमाषकः ॥४१॥

चतुःकर्षैः पलं प्रोक्तं दशशाणमितं बुधैः
चतुष्पलैश्च कुडवं प्रस्थाद्याः पूर्ववन्मताः ॥४२॥

मानस्य द्वैविध्यम्
कालिङ्गं मागधं चैव द्विविधं मानमुच्यते
कालिङ्गान्मागधं श्रेष्ठं मानं मानविदो विदुः ॥४३॥

औषधपरिभाषौ तत्र द्र व्याणां युक्तायुक्तविचारः
नवान्येव हि योज्यानि द्र व्याण्यखिलकर्मसु
विना विडङ्गकृष्णाभ्यां गुडधान्याज्यमाक्षिकैः ॥४४॥

सदाद्रा र्ण्य!द्विगुणानि द्र व्याणि
गुडूची कुटजो वासा कूष्माण्डश्च शतावरी
अश्वगन्धा सहचरी शतपुष्पा प्रसारिणी ॥४५॥

प्रयोक्तव्या सदैवाद्रा र्! द्विगुणा नैव कारयेत् ॥४६॥

नूतनद्र व्यस्य प्राधान्यम्
शुष्कं नवीनं यद् द्र व्यं योज्यं सकलकर्मसु
आद्र रं! च द्विगुणं युंज्यादेष सर्वत्र निश्चयः ॥४७॥

अनुक्तावस्थायां परिभाषाविधिः
कालेऽनुक्ते प्रभातं स्यादङ्गेऽनुक्ते जटा भवेत्
भागेऽनुक्ते तु साम्यं स्यात्पात्रेऽनुक्ते च मृण्मयम्
द्र वेऽनुक्ते जलं ग्राह्यं तैलेऽनुक्ते तिलोद्भवम् ॥४८॥

पुनरुक्तद्र व्यमानव्यवस्था
एकमप्यौषधं योगे यस्मिन्यत्पुनरुच्यते
मानतो द्विगुणं प्रोक्तं तद् द्र व्यं तत्त्वदर्शिभिः ॥४९॥

रक्तश्वेतचन्दनादिव्यवस्था
चूर्णस्नेहासवा लेहाः प्रायशश्चन्दनान्विताः
कषायलेपयोः प्रायो युज्यते रक्तचन्दनम् ॥५०॥

प्रसिद्धद्र व्याणां कालातिक्रमेण हीनगुणत्वम्
गुणहीनं भवेद्वर्षादूर्ध्वं तद्रू पमौषधम्
मासद्वयात्तथा चूर्णं हीनवीर्यत्वमाप्नुयात् ॥५१॥

हीनत्वं गुटिकालेहौ लभेते वत्सरात्परम्
हीनाः स्युर्घृततैलाद्याश्चतुर्मासाधिकात्तथा ॥५२॥

ओषध्यो लघुपाकाः स्युर्निर्वीर्या वत्सरात्परम्
पुराणाः स्युर्गुणैर्युक्ता आसवा धातवो रसाः ॥५३॥

रोगानुसारियुक्तायुक्तद्र व्यविचारः
व्याधेरयुक्तं यद् द्र व्यं गणोक्तमपि तत्त्यजेत्
अनुक्तमपि यद्युक्तं योजयेत्तत्र तद् बुधः ॥५४॥

द्र व्येषु स्थानभेदेन गुणभेदः
आग्नेया विन्ध्यशैलाद्याः सौम्यो हिमगिरिर्मतः
अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः
अन्येष्वपि प्ररोहन्ति वनेषूपवनेषु च ॥५५॥

द्र व्याणां ग्रहणविधिः
गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे ॥५६॥

आदित्यसंमुखो मौनी नमस्कृत्य शिवं हृदि
साधारणधराद्र व्यं गृह्णीयादुत्तराश्रितम् ॥५७॥

कुत्सितस्थानोद्भवद्र व्याणां परित्यागः
वल्मीककुत्सितानूपश्मशानोषरमार्गजाः
जन्तुवह्निहिमव्याप्ता नौषध्यः कार्यसिद्धिदाः ॥५८॥

कार्यभेदेन द्र व्यग्रहणे ऋतुविशेषः
शरद्यखिलकार्यार्थं ग्राह्यं सरसमौषधम्
विरेकवमनार्थं च वसन्तान्ते समाहरेत् ॥५९॥

अनुक्तावयवद्र व्याणां ग्रहणेऽङ्गविचारः
अतिस्थूलजटा याः स्युस्तासां ग्राह्यास्त्वचो बुधैः
गृह्णीयात्सूक्ष्ममूलानि सकलान्यपि बुद्धिमान् ॥६०॥

न्यग्रोधादेस्त्वचो ग्राह्याः सारः स्याद्वीजकादितः
तालीसादेश्च पत्राणि फलं स्यात्त्रिफलादितः
धातक्यादेश्च पुष्पाणि स्नुह्यादेः क्षीरमाहरेत् ॥६१॥

इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे परिभाषाकथनं नाम प्रथमोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP