पूर्वखण्डम् - पञ्चमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


तत्र कलादिकाख्यानम् शिआ!रीरम्
कलादिकाख्यानम्
कलाः सप्ताशयाः सप्त धातवःसप्त तन्मलाः
सप्तोपधातवः सप्त त्वचः सप्त प्रकीर्त्तिताः ॥१॥

त्रयो दोषा नवशतं स्नायूनां सन्धयस्तथा
दशाधिकं च द्विशतमस्थ्नां च त्रिशतं तथा ॥२॥

सप्तोत्तरं मर्मशतं शिराः सप्तशतं तथा
चतुर्विंशतिराख्याता धमन्यो रसवाहिकाः ॥३॥

मांसपेश्यः समाख्याता नृणां पञ्चशतं बुधैः
स्त्रीणां च विंशत्यधिकाः कण्डराश्चैव षोडश ॥४॥

नृदेहे दश रन्ध्राणि नारीदेहे त्रयोदश
एतत्समासतः प्रोक्तं विस्तरेणाधुनोच्यते ॥५॥

अथ सप्त कलाः
मांसासृङ्मेदसां तिस्रो यकृत्प्लीह्नोश्चतुर्थिका
पञ्चमी च तथाऽन्त्राणां षष्ठी चाग्निधरा मता
रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः ॥६॥

अथ सप्ताशयाः
श्लेष्माशयः स्यादुरसि तस्मादामाशयस्त्वधः ॥७॥

ऊर्ध्वमग्न्याशयो नाभेर्वामभागे व्यवस्थितः
तस्योपरि तिलं ज्ञेयं तदधः पवनाशयः ॥८॥

मलाशयस्त्वधस्तस्माद् बस्तिर्मूत्राशयस्त्वधः
जीवरक्ताशयमुरो ज्ञेयाः सप्ताशयस्त्वमी ॥९॥

नारीणां विशेषाशयाः
पुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयः
धरा गर्भाशयः प्रोक्तः स्तनौ स्तन्याशयौ मतौ ॥१०॥

अथ सप्तधातूनां नामानि तदुत्पत्तिक्रमश्च
रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः
जायन्तेऽन्योऽन्यतः सर्वे पाचिताः पित्ततेजसा ॥११॥

रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
मेदसोऽस्थि ततो मज्जा मज्जायाः शुक्रसंभवः ॥१२॥

अथ सप्तधातूनां मलास्तदुत्पत्तिक्रमश्च
जिह्वानेत्रकपोलानां जलं पित्तं च रञ्जकम्
कर्णविड्रसनादन्तकक्षामेढ्रादिजं मलम् ॥१३॥

नखनेत्रमलं वक्त्रे स्निग्धत्वं पिटिकास्तथा
जायन्ते सप्तधातूनां मलान्येतान्यनुक्रमात् ॥१४॥

मतान्तरेण धातुमलाः
कफः पित्तं मलं खेषु प्रस्वेदो नखरोम च
नेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ॥१५॥

अथोपधातवः
स्तन्यं रजश्च नारीणां काले भवति गच्छति
शुद्धमांसभवः स्नेहः सा वसा परिकीर्त्तिता ॥१६॥

स्वेदो दन्तास्तथा केशास्तथैवौजश्च सप्तमम्
इति धातुभवा ज्ञेया एते सप्तोपधातवः ॥१७॥

अथौजोलक्षणम्
ओजः सर्वशरीरस्थं शीतं स्निग्धं स्थिरं मतम्
सोमात्मकं शरीरस्य बलपुष्टिकरं मतम् ॥१८॥

अथ सप्त त्वचः
ज्ञेयाऽवभासिनी पूर्वं सिध्मस्थानं च सा मता
द्वितीया लोहिता ज्ञेया तिलकालकजन्मभूः ॥१९॥

श्वेता तृतीया संख्याता स्थानं चर्मदलस्य सा
ताम्रा चतुर्थी विज्ञेया किलासश्वित्रभूमिका ॥२०॥

पञ्चमी वेदनी ख्याता सर्वकुष्ठोद्भवस्ततः
विख्याता रोहिणी षष्ठी ग्रन्थिगण्डापचीस्थितिः ॥२१॥

स्थूला त्वक्सप्तमी ख्याता विद्र ध्यादेः स्थितिश्च सा
इति सप्त त्वचः प्रोक्ताः स्थूला व्रीहिद्विमात्रया ॥२२॥

अथ दोषास्तन्नामानि च
वायुः पित्तं कफो दोषा धातवश्च मलास्तथा
तत्रापि पञ्चधा ख्याताः प्रत्येकं देहधारणात् ॥२३॥

दोषाणां नामान्तरे कारणनिर्देशः
शरीरदूषणाद्दोषा धातवो देहधारणात्
वातपित्तकफा ज्ञेया मलिनीकरणान्मलाः ॥२४॥

तत्र वायोः प्राधान्यं तत्कार्यवर्णनञ्च
पित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवः
वायुना यत्र नीयन्ते तत्र गच्छन्ति मेघवत् ॥२५॥

पवनस्तेषु बलवान्विभागकरणान्मतः
रजोगुणमयः सूक्ष्मः शीतो रूक्षो लघुश्चलः ॥२६॥

कार्यभेदेन वायोः पञ्चविधत्वम्
मलाशये चरेत्कोष्ठे वह्निस्थाने तथा हृदि
कण्ठे सर्वाङ्गदेशेषु वायुः पञ्चप्रकारतः ॥२७॥

वायोः पञ्च नामानि
अपानः स्यात्समानश्च प्राणोदानौ तथैव च
व्यानश्चेति समीरस्य नामान्युक्तान्यनुक्रमात् ॥२८॥

पित्तस्य विवरणम्
पित्तमुष्णं द्र वं पीतं नीलं सत्त्वगुणोत्तरम्
कटु तिक्तरसं ज्ञेयं विदग्धं चाम्लतां व्रजेत् ॥२९॥

तस्य स्थानानि कार्याणि नामानि च
अग्न्याशये भवेत्पित्तमग्निरूपं तिलोन्मितम्
त्वचि कान्तिकरं ज्ञेयं लेपाभ्यङ्गादिपाचकम् ॥३०॥

दृश्यं यकृति यत्पित्तं तद्र सं शोणितं नयेत्
यत्पित्तं नेत्रयुगले रूपदर्शनकारि तत्
यत्पित्तं हृदये तिष्ठेन्मेधाप्रज्ञाकरं च तत् ॥३१॥
पाचकं भ्राजकं चैव रञ्जकालोचके तथा
साधकं चेति पञ्चैव पित्तनामान्यनुक्रमात् ॥३२॥

कफस्य विवरणं कर्माणि च
कफः स्निग्धो गुरुः श्वेतः पिच्छिलः शीतलस्तथा
तमोगुणाधिकः स्वादुर्विदग्धो लवणो भवेत् ॥३३॥

कफस्य स्थाननामकथनम्
कफश्चामाशये मूर्ध्नि कण्ठे हृदि च संधिषु
तिष्ठन्करोति देहस्य स्थैर्यं सर्वाङ्गपाटवम् ॥३४॥

क्लेदनः स्नेहनश्चैव रसनश्चावलम्बनः
श्लेष्मकश्चेति नामानि कफस्योक्तान्यनुक्रमात् ॥३५॥

स्नायोर्विवरणम्
स्नायवो बन्धनं प्रोक्ता देहे मांसास्थिमेदसाम् ॥३६॥

सन्धेर्विवरणम्
सन्धयश्चाङ्गसन्धानाद्देहे प्रोक्ताः कफान्विताः ॥३७॥

अस्थ्नो विवरणम्
आधारश्च तथा सारः कायेऽस्थीनि बुधा विदुः ॥३८॥

मर्मणो विवरणम्
मर्माणि जीवाधाराणि प्रायेण मुनयो जगुः ॥३९॥

शिराविवरणम्
सन्धिबन्धनकारिण्यो दोषधातुवहाः शिराः ॥४०॥

धमनीविवरणम्
धमन्यो रसवाहिन्यो धमन्ति पवनं तनौ ॥४१॥

मांसपेशीविवरणम्
मांसपेश्यो बलाय स्युरवष्टम्भाय देहिनाम् ॥४२॥

कण्डराविवरणम्
प्रसारणाकुञ्चनयोरङ्गानां कण्डरा मताः ॥४३॥

रन्ध्रविवरणम्
नासानयनकर्णानां द्वे द्वे रन्ध्रे प्रकीर्त्तिते
मेहनापानवक्त्राणामेकैकं रन्ध्रमुच्यते
दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः
स्त्रीणां त्रीण्यधिकानि स्युः स्तनयोर्गर्भवर्त्मनः
सूक्ष्मच्छिद्रा णि चान्यानि मतानि त्वचि जन्मिनाम् ॥४४॥

फुफ्फुसप्लीहयकृतां विवरणम्
तद्वामे फुफ्फुसं प्लीहा दक्षिणे च यकृन्मतम्
उदानवायोराधारः फुफ्फुसं प्रोच्यते बुधैः
रक्तवाहिशिरामूलं प्लीहा ख्याता महर्षिभिः
यकृद्र ञ्जकपित्तस्य स्थानं रक्तस्य संश्रयः ॥४५॥

तिल क्लिओ!मइ! वर्णनम्
जलवाहिशिरामूलं तृष्णाऽच्छादनकं तिलम् ॥४६॥

वृक्कवर्णनम्
वृक्कौ तुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ॥४७॥

वृषणलिङ्गयोर्वर्णनम्
वीर्यवाहिशिराधारौ वृषणौ पौरुषावहौ
गर्भाधानकरं लिङ्गमयनं वीर्यमूत्रयोः ॥४८॥

हृदयवर्णनम्
हृदयं चेतनास्थानमोजसश्चाश्रयो मतम् ॥४९॥

शरीरपोषणव्यापारनिर्देशः
शिरा धमन्यो नाभिस्थाः सर्वा व्याप्य स्थितास्तनुम्
पुष्णन्ति चानिशं वायोः संयोगात्सर्वधातुभिः ॥५०॥

प्राणवायोः शरीरव्यापारनिर्देशः
नाभिस्थः प्राणपवनः स्पृष्ट्वा हृत्कमलान्तरम्
कण्ठाद्बहिर्विनिर्याति पातुं विष्णुपदामृतम्
पीत्वा चाम्बरपीयूषं पुनरायाति वेगतः
प्रीणयन्देहमखिलं जीवयञ्जठरानलम् ॥५१॥

आयुषो मृत्योश्च स्वरूपम्
शरीरप्राणयोरेवं संयोगादायुरुच्यते
कालेन तद्वियोगाच्च पञ्चत्वं कथ्यते बुधैः ॥५२॥

तत्र वैद्यानां कृते कर्त्तव्यकर्मोपदेशः
न जन्तुः कश्चिदमरः पृथिव्यां जायते क्वचित्
अतो मृत्युरवार्यः स्यात्किन्तु रोगान्निवारयेत् ॥५३॥

रोगनिवारणे साध्यादिभेदनिर्देशः
याप्यत्वं याति साध्यस्तु याप्यो गच्छत्यसाध्यताम्
जीवितं हन्त्यसाध्यस्तु नरस्याप्रतिकारिणः ॥५४॥

धर्मादिसाधनतनो रक्षानिर्देशः
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः
अतो रुग्भ्यस्तनुं रक्षेन्नरः कर्मविपाकवित् ॥५५॥
दोषाणां साम्यस्य वैषम्यस्य च फलम्
धातवस्तन्मला दोषा नाशयन्त्यसमास्तनुम्
समाः सुखाय विज्ञेया बलायोपचयाय च ॥५६॥

सृष्टिक्रमः
जगद्योनेरनिच्छस्य चिदानन्दैकरूपिणः
पुंसोऽस्ति प्रकृतिर्नित्या प्रतिच्छायेव भास्वतः ॥५७॥

प्रकृतिपुरुषयोगेन सृष्ट्युत्पत्तिनिर्देशः
अचेतनाऽपि चैतन्ययोगेन परमात्मनः
अकरोद्विश्वमखिलमनित्यं नाटकाकृति ॥५८॥

बुद्धिसत्त्वाहङ्कारयोरुत्पत्तिनिर्देशः
प्रकृतिर्विश्वजननी पूर्वं बुद्धिमजीजनत्
इच्छामयीं महद्रू पामहङ्कारस्ततोऽभवत्
त्रिविधः सोऽपि सञ्जातो रजः सत्त्वतमोगुणैः ॥५९॥

त्रिगुणात्मकाहङ्कारस्य कार्याणि
तस्मात्सत्त्वरजोयुक्तादिन्द्रि याणि दशाभवन्
मनश्च जातं तान्याहुः श्रोत्रत्वङ्नयनं तथा ॥६०॥

जिह्वाघ्राणवचोहस्तपादोपस्थगुदानि च
पञ्च बुद्धीन्द्रि याण्याहुः प्राक्तनानीतराणि च
कर्मेन्द्रि याणि पञ्च्व कथ्यन्ते सूक्ष्मबुद्धिभिः ॥६१॥

तन्मात्रपञ्चकोत्पत्तिनिर्देशः
तमः सत्त्वगुणोत्कृष्टादहङ्कारादथाभवत्
तन्मात्रपञ्चकं तस्य नामान्युक्तानि सूरिभिः
शब्दतन्मात्रकं स्पर्शतन्मात्रं रूपमात्रकम्
रसतन्मात्रकं गन्धतन्मात्रं चेति तद्विदुः ॥६२॥

भूतपञ्चकस्योत्पत्तिनामनिर्देशः
तन्मात्रपञ्चकात्तस्मात्संजातं भूतपञ्चकम्
व्योमानिलानलजलक्षोणीरूपं च तन्मतम् ॥६३॥

तन्मात्राणां विशेषाः
शब्दः स्पर्शश्च रूपं च रसगन्धावनुक्रमात्
तन्मात्राणां विशेषाः स्युः स्थूलभावमुपागताः ॥६४॥

इन्द्रि याणां विषयाः
बुद्धीन्द्रि याणां पञ्चैव शब्दाद्या विषया मताः ॥६५॥

कर्मेन्द्रि याणां विषया भाषादानविहारिताः
आनन्दोत्सर्गकौ चैव कथितास्तत्त्वदर्शिभिः ॥६६॥

चतुर्विंशतितत्त्ववर्णनम्
तत्र प्रथमतत्त्वस्य प्रकृतेर्नामनिर्देशः
प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथा
एतानि तस्या नामानि शिवमाश्रित्य या स्थिता ॥६७॥

प्रकृतिविकृतिसंज्ञकस्य तत्त्वसप्तकस्य निर्देशः
महानहङ्कृतिः पञ्चतन्मात्राणि पृथक्पृथक्
प्रकृतिर्विकृतिश्चैव सप्तैतानि बुधा जगुः ॥६८॥

दशेन्द्रि याणि चित्तं च महाभूतानि पञ्च च
विकाराः षोडश ज्ञेयाः सर्वं व्याप्य जगत्स्थिताः ॥६९॥

जीवस्वरूपनिर्देशः
एवं चतुर्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहे
जीवात्मा नियतो नित्यो वसति स्वान्तदूतवान् ॥७०॥

स देही कथ्यते पापपुण्यदुःखसुखादिभिः
व्याप्तो बद्धश्च मनसा कृत्रिमैः कर्मबन्धनैः ॥७१॥

देहिनो बन्धनानि
कामक्रोधौ लोभमोहावहङ्कारश्च पञ्चमः
दशेन्द्रि याणि बुद्धिश्च तस्य बन्धाय देहिनः ॥७२॥

जीवस्य बन्धमोक्षयोर्दुःखसुखयोर्निर्देशः
आप्नोति बन्धमज्ञानादात्मज्ञानाच्च मुच्यते
तद्दुःखयोगकृद्व्याधिरारोग्यं तत्सुखावहम् ॥७३॥

इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे कलादिकाख्यानं नाम पञ्चमोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP