संस्कृत सूची|संस्कृत साहित्य|उपनिषद|योगकुण्डल्युपनिषत्| तृतीयोऽध्यायः योगकुण्डल्युपनिषत् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः योगकुण्डल्युपनिषत् - तृतीयोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद तृतीयोऽध्यायः Translation - भाषांतर मेलनमनुः । ह्रीं भं सं पं फं सं क्षम् । पद्मज उवाच ।अमावास्या च प्रतिपत्पौर्णमासी च शंकर ।अस्याः का वर्ण्यते संज्ञा एतदाख्याहि तत्त्वतः ॥१॥प्रतिपद्दिनतोऽकाले अमावास्या तथैव च ।पौर्णमास्यां स्थिरीकुर्यात्स च पन्था हि नान्यथा ॥२॥कामेन विषयाकाङ्क्षी विषयात्काममोहितः ।द्वावेव संत्यजेन्नित्यं निरञ्जनमुपाश्रयेत् ॥३॥अपरं संत्यजेत्सर्वं यदिच्च्हेदात्मनो हितम् ।शक्तिमध्ये मनः कृत्वा मनः शक्तेश्च मध्यगम् ॥४॥मनसा मन आलोक्य तत्त्यजेत्परमं पदम् ।मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् ॥५॥मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् ।न च बन्धनमध्यस्थं तद्वै कारणमानसम् ॥६॥चन्द्रार्कमध्यमा शक्तिर्यत्रस्था तत्र बन्धनम् ।ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा वायुं च मध्यगम् ॥७॥स्थित्वासौ बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् ।वायुं बिन्दुं समाख्यातं सत्त्वं प्रकृतिमेव च ॥८॥षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् ।मूलाधारं स्वाधिष्ठानं मणिपूरं तृतीयकम् ॥९॥अनाहतं विशुद्धं च आज्ञाचक्रं च षष्ठकम् ।आधारं गुदमित्युक्तं स्वाधिष्ठानं तु लैङ्गिकम् ॥१०॥मणिपूरं नभिदेशं हृदयस्थमनाहतम् ।विशुद्धिः कण्ठमूले च आज्ञाचक्रं च मस्तकम् ॥११॥षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डले ।प्रविशेद्वायुमाकृष्य तयैवोर्ध्वं नियोजयेत् ॥१२॥एवं समभ्यसेद्वायुं स ब्रह्माण्डमयो भवेत् ।वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् ॥१३॥समाधिमेकेन समममृतं यान्ति योगिनः ।यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना ॥१४॥विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि ।घटमध्यगतो दीपो बाह्ये नैव प्रकाशते ॥१५॥भिन्ने तस्मिन्घटे चैव दीपज्वाला च भासते ।स्वकायं घटमित्युक्तं यथा दीपो हि तत्पदम् ॥१६॥गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं स्फुटीभवेत् ।कर्णधारं गुरुं प्राप्य कृत्वा सूक्ष्मं तरन्ति च ॥१७॥अभ्यासवासनाशक्त्या तरन्ति भवसागरम् ।परायामङ्कुरीभूय पश्यन्तां द्विदलीकृता ॥१८॥मध्यमायां मुकुलिता वैखर्यां विकसीकृता ।पूर्वं यथोदिता या वाग्विलोमेनास्तगा भवेत् ॥१९॥तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः ।सोहमस्मीति निश्चित्य यः सदा वर्तते पुमान् ॥२०॥शब्दैरुच्चावचैर्नीचैर्भाषितोऽपि न लिप्यते ।विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयः ॥२१॥विराड्ढिरण्यगर्भश्च ईश्वरश्चेति ते त्रयः ।ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥२२॥स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि ।अण्डं ज्ञानाग्निना तप्तं लीयते कारणैः सह ॥२३॥परमात्मनि लीनं तत्परं ब्रह्मैव जायते ।ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ॥२४॥अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते ।ध्यात्वा मध्यस्थमात्मानं कलशान्तरदीपवत् ॥२५॥अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् ।प्रकाशयन्तमन्तस्थं ध्यायेत्कूटस्थमव्ययम् ॥२६॥विज्ञानात्मा तथा देहे जाग्रत्स्वप्नसुषुप्तितः ।मायया मोहितः पश्चाद्बहुजन्मान्तरे पुनः ॥२७॥सत्कर्मपरिपाकात्तु स्वविकारं चिकीर्षति ।कोऽहं कथमयं दोषः संसाराख्य उपागतः ॥२८॥जाग्रत्स्वप्ने व्यवहरन्त्सुषुप्तौ क्व गतिर्मम ।इति चिन्तापरो भूत्वा स्वभासा च विशेषतः ॥२९॥अज्ञानात्तु चिदाभासो बहिस्तापेन तापितः ।दग्धं भवत्येव तदा तूलपिण्डमिवाग्निना ॥३०॥दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः परम् ।विततो व्याप्य विज्ञानं दहत्येव क्षणेन तु ॥३१॥मनोमयज्ञानमयान्त्सम्यग्दग्ध्वा क्रमेण तु ।घटस्थदीपवच्च्हश्वदन्तरेव प्रकाशते ॥३२॥ध्यायन्नास्ते मुनिश्चैवमासुप्तेरामृतेस्तु यः ।जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ॥३३॥जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥३४॥अशब्दमस्पर्शमरूपमव्ययंतथारसं नित्यमगन्धवच्च यत् ।अनाद्यनन्तं महतः परं ध्रुवंतदेव शिष्यत्यमलं निरामयम् ॥३५॥ इत्युपनिषत् ॥ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।तेजस्विनावधीतमस्तु मा विद्विषावहै ॥इति तृतीयोऽध्यायः ॥३॥ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ तत्सत् ॥इति योगकुण्डल्युपनिषत्समाप्ता ॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP