संस्कृत सूची|संस्कृत स्तोत्र साहित्य|उपनिषद|योगकुण्डल्युपनिषत्| प्रथमोऽध्यायः योगकुण्डल्युपनिषत् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः योगकुण्डल्युपनिषत् - प्रथमोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद प्रथमोऽध्यायः Translation - भाषांतर योगकुण्डल्युपनिषद्योगसिद्धिहृदासनम् ।निर्विशेषब्रह्मतत्त्वं स्वमात्रमिति चिन्तये ॥ ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ ॥हेतुद्वयं हि चित्तस्य वासना च समीरणः ।तयोर्विनष्ट एकस्मिंस्तद्द्वावपि विनश्यतः ॥१॥तयोरादौ समीरस्य जयं कुर्यानरः सदा ।मिताहारश्चासनं च शक्तिश्चालस्तृतीयकः ॥२॥एतेषां लक्षणं वक्ष्ये शृणु गौतम सादरम् ।सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः ॥३॥भुज्यते शिवसंप्रीत्यै मिताहारः स उच्यते ।आसनं द्विविधं प्रोक्तं पद्मं वज्रासनं तथा ॥४॥ऊर्वोरुपरि चेद्धत्ते उभे पादतले यथा ।पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥५॥वामाङ्घ्रिमूलकन्दाधो ह्यन्यं तदुपरि क्षिपेत् ।समग्रीवशिरःकायो वज्रासनमितीरितम् ॥६॥कुण्डल्येव भवेच्च्हक्तिस्तां तु संचालयेद्बुध ।स्वस्थानादाभ्रुवोर्मध्यं शक्तिचालनमुच्यते ॥७॥तत्साधने द्वयं मुख्यं सरस्वत्यास्तु चालनम् ।प्राणरोधमथाभ्यासादृज्वी कुण्डलिनी भवेत् ॥८॥तयोरादौ सरस्वत्याश्चालनं कथयामि ते ।अरुन्धत्येव कथिता पुराविद्भिः सरस्वती ॥९॥यस्याः संचालनेनैव स्वयं चलति कुण्डली ।इडायां वहति प्राणे बद्ध्वा पद्मासनं दृढम् ॥१०॥द्वादशाङ्गुलदैर्घ्यं च अम्बरं चतुरङ्गुलम् ।विस्तीर्य तेन तन्नाडीं वेष्टयित्वा ततः सुधीः ॥११॥अङ्गुष्ठतर्जनीभ्यां तु हस्ताभ्यां धारयेद्धृढम् ।स्वशक्त्या चालयेद्वामे दक्षिणेन पुनःपुनः ॥१२॥मुहूर्तद्वयपर्यन्तं निर्भयाच्चालयेत्सुधीः ।ऊर्ध्वमाकर्षयेत्किंचित्सुषुम्नां कुण्डलीगताम् ॥१३॥तेन कुण्डलिनी तस्याः सुषुम्नाया मुखं व्रजेत् ।जहाति तस्मात्प्राणोऽयं सुषुम्नां व्रजति स्वतः ॥१४॥तुन्दे तु ताणं कुर्याच्च कण्ठसंकोचने कृते ।सरस्वत्यां चालनेन वक्षसश्चोर्ध्वगो मरुत् ॥१५॥सूर्येण रेचयेद्वायुं सरवत्यास्तु चालने ।कण्ठसंकोचनं कृत्वा वक्षसश्चोर्ध्वगो मरुत् ॥१६॥तस्मात्संचालयेन्नित्यं शब्दगर्भां सरस्वतीम् ।यस्याः संचालनानेनैव योगी रोगैः प्रमुच्यते ॥१७॥गुल्मं जलोदरः प्लीहा ये चान्ये तुन्दमध्यगाः ।सर्वे ते शक्तिचालेन रोगा नश्यन्ति निश्चयम् ॥१८॥प्राणरोधमथेदानीं प्रवक्ष्यामि समासतः ।प्राणश्च दहनो वायुरायामः कुम्भकः स्मृतः ॥१९॥स एव द्विविधः प्रोक्तः सहितः केवलस्तथा ।यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् ॥२०॥सूर्योज्जायी शीतली च भस्त्री चैव चतुर्थिका ।भेदैरेव समं कुम्भो यः स्यात्सहितकुम्भकः ॥२१॥पवित्रे निर्जने देशे शर्करादिविवर्जिते ।धनुःप्रमाणपर्यन्ते शीताग्निजलवर्जिते ॥२२॥पवित्रे नात्युच्चनीचे ह्यासने सुखदे सुखे ।बद्धपद्मासनं कृत्वा सरस्वत्यास्तु चालनम् ॥२३॥दक्षनाड्या समाकृष्य बहिष्ठं पवनं शनैः ।यथेष्टं पूरयेद्वायुं रेचयेदिडया ततः ॥२४॥कपालशोधने वापि रेचयेत्पवनं शनैः ।चतुष्कं वातदोषं तु कृमिदोषं निहन्ति च ॥२५॥पुनः पुनरिदं कार्यं सूर्यभेदमुदाहृतम् ।मुखं संयम्य नाडिभ्यामाकृष्य पवनं शनैः ॥२६॥यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ।पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया ततः ॥२७॥शीर्षोदितानलहरं गलश्लेष्महरं परम् ।सर्वरोगहरं पुण्यं देहानलविवर्धनम् ॥२८॥नाडीजलोदरं धातुगतदोषविनाशनम् ।गच्च्हतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम् ॥२९॥जिह्वया वायुमाकृष्य पूर्ववत्कुम्भकादनु ।शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः ॥३०॥गुल्मप्लीहादिकान्दोषान्क्षयं पित्तं ज्वरं तृषाम् ।विषाणि शीतली नाम कुम्भकोऽयं निहन्ति च ॥३१॥ततः पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः ।मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥३२॥यथा लगति कण्ठात्तु कपाले सस्वनं ततः ।वेगेन पूरयेत्किंचिद्{}हृत्पद्मावधि मारुतम् ॥३३॥पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः ।यथैव लोहकाराणां भस्त्रा वेगेन चाल्यते ॥३४॥तथैव स्वशरीरस्थं चालयेत्पवनं शनैः ।यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् ॥३५॥यथोदरं भवेत्पूर्णं पवनेन तथा लघु ।धारयन्नासिकामध्यं तर्जनीभ्यां विना दृढम् ॥३६॥कुम्भकं पूर्ववत्कृत्वा रेचेयेदिडयानिलम् ।कण्ठोत्थितानलहरं शरीराग्निविवर्ध्नम् ॥३७॥कुण्डलीबोधकं पुण्यं पापघ्नं शुभदं सुखम् ।ब्रह्मनाडीमुखान्तस्थ कफाद्यर्गलनाशनम् ॥३८॥गुणत्रयसमुद्भूतग्रन्थित्रयविभेदकम् ।विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥३९॥चतुर्णामपि भेदानां कुम्भके समुपस्थिते ।बन्धत्रयमिदं कार्यं योगिभिर्वीतकल्मषैः ॥४०॥प्रथमो मूलबन्धस्तु द्वितीयोड्डीयणाभिधः ।जालन्धरस्तृतीयस्तु तेषां लक्षणमुच्यते ॥४१॥अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् ।आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते ॥४२॥अपाने चोर्ध्वगे याते संप्राप्ते वह्निमण्डले ।ततोऽनलशिखा दीर्घा वर्धते वायुनाहता ॥४३॥ततो यातौ वह्न्यमानौ प्राणमुष्णस्वरूपकम् ।तेनात्यन्तप्रदीप्तेन ज्वलनो देहजस्तथा ॥४४॥तेन कुण्डलिनी सुप्ता संतप्ता संप्रबुध्यते ।दण्डाहतभुजङ्गीव निःश्वस्य ऋजुतां व्रजेत् ॥४५॥बिलप्रवेशतो यत्र ब्रह्मनाड्यन्तरं व्रजेत् ।तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा ॥४६॥कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः ।बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥४७॥तस्मादुड्डीयणाख्योऽयं योगिभिः समुदाहृतः ।सति वज्रासने पादौ कराभ्यां धारये{}धृढम् ॥४८॥गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् ।पश्चिमं ताणमुदरे धारयेद्{}हृदये गले ॥४९॥शनैः शनैर्यदा प्राणस्तुन्दसन्धिं निगच्च्हति ।तुन्ददोषं विनिर्धूय कर्तव्यं सततं शनैः ॥५०॥पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ।कण्ठसंकोचरूपोऽसौ वायुमार्गनिरोधकः ॥५१॥अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते ।मध्ये पश्चिमताणेन स्यात्प्राणो ब्रह्मनाडिगः ॥५२॥पूर्वोक्तेन क्रमेणैव सम्यगासनमास्थितः ।चालनं तु सरस्वत्याः कृत्वा प्राणं निरोधयेत् ॥५३॥प्रथमे दिवसे कार्यं कुम्भकानां चतुष्टयम् ।प्रत्येकं दशसंख्यांकं द्वितीये पञ्चभिस्तथा ॥५४॥विशत्यलं तृतीयेह्नि पञ्चवृद्ध्या दिनेदिने ।कर्तव्यः कुम्भको नित्यं बन्धत्रयसमन्वितः ॥५५॥दिवा सुप्तिर्निशायां तु जागरादतिमैथुनात् ।बहुसंक्रमणं नित्यं रोधान्मूत्रपुरीषयोः ॥५६॥विषमाशनदोषाच्च प्रयासप्राणचिन्तनात् ।शीघ्रमुत्पद्यते रोगः स्तम्भयेद्यदि संयमी ॥५७॥योगाभ्यासेन मे रोग उत्पन्न इति कथ्यते ।ततोऽभ्यासं त्यजेदेवं प्रथमं विघ्नाच्यते ॥५८॥द्वितीयं संशयाख्यं च तृतीयं च प्रमत्तता ।आलस्याख्यं चतुर्थं च निद्रारूपं तु पञ्चमम् ॥५९॥षष्ठं तु विरतिर्भ्रान्तिः सप्तमं परिकीर्तितम् ।विषमं चाष्टमं चैव अनाख्यं नवमं स्मृतम् ॥६०॥अलब्धिर्योगतत्त्वस्य दशमं प्रोच्यते बुधैः ।इत्येतद्विघ्नदशकं विचारेण त्यजेद्बुधः ॥६१॥प्राणाभ्यासस्ततः कार्यो नित्यं सत्त्वस्थया धिया ।सुषुम्ना लीयते चित्तं तथा वायुः प्रधावति ॥६२॥शुष्के मले तु योगी च स्याद्गतिश्चलिता ततः ।अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् ॥६३॥आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते ।अपानश्चोर्ध्वगोभूत्वा वह्निना सह गच्च्हति ॥६४॥प्राणस्थानं ततो वह्निः प्राणापानौ च सत्वरम् ।मिलित्वा कुण्डलीं याति प्रसुप्ता कुण्डलाकृतिः ॥६५॥तेनाग्निना च संतप्ता पवनेनैव चालिता ।प्रसार्य स्वशरीरं तु सुषुम्ना वदनान्तरे ॥६६॥ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुणसमुद्भवम् ।सुषुम्ना वदने शीघ्रं विद्युल्लेखेव संस्फुरेत् ॥६७॥विष्णुग्रन्थिं प्रयात्युच्चैः सत्वरं हृदि संस्थिता ।ऊर्ध्वं गच्च्हति यच्चास्ते रुद्रग्रन्थिं तदुद्भवम् ॥६८॥भ्रुवोर्मध्ये तु संभिद्य याति शीतांशुमण्डलम् ।अनाहताख्यं यच्चक्रं दलैः षोडशभिर्युतम् ॥६९॥तत्र शीतांशुसंजातं द्रवं शोषयति स्वयम् ।चलिते प्राण वेगेन रक्तं पीतं रवेर्ग्रहात् ॥७०॥यातेन्दुचक्रं यत्रास्ते शुद्धश्लेष्मद्रवात्मकम् ।तत्र सिक्तं ग्रसत्युष्णं कथं शीतस्वभावकम् ॥७१॥तथैव रभसा शुक्लं चन्द्ररूपं हि तप्यते ।ऊर्ध्वं प्रवहति क्षुब्धा तदैवं भ्रमतेतराम् ॥७२॥तस्यास्वादवशाच्चित्तं बहिष्ठं विषयेषु यत् ।तदेव परमं भुक्त्वा स्वस्थः स्वात्मरतो युवा ॥७३॥प्रकृत्यष्टकरूपं च स्थानं गच्च्हति कुण्डली ।क्रोडीकृत्य शिवं याति क्रोडीकृत्य विलीयते ॥७४॥इत्यधोर्ध्वरजः शुक्लं शिवे तदनु मारुतः ।प्राणापानौ समौ याति सदा जातौ तथैव च ॥७५॥भूतेऽल्पे चाप्यनल्पे वा वाचके त्वतिवर्धते ।धवयत्यखिला वाता अग्निमूषाहिरण्यवत् ॥७६॥आधिभौतिकदेहं तु आधिदैविकविग्रहे ।देहोऽतिविमलं याति चातिवाहिकतामियात् ॥७७॥जाड्यभावविनिर्मुक्तममलं चिन्मयात्मकम् ।तस्यातिवाहिकं मुख्यं सर्वेषां तु मदात्मकम् ॥७८॥जायाभवविनिर्मुक्तिः कालरूपस्य विभ्रमः ।इति तं स्वस्वरूपा हि मती रज्जुभुजङ्गवत् ॥७९॥मृषैवोदेति सकलं मृषैव प्रविलीयते ।रौप्यबुद्धिः शुक्तिकायां स्त्रीपुंसोर्भ्रमतो यथा ॥८०॥पिण्डब्रह्माण्डयोरैक्यं लिङ्गसूत्रात्मनोरपि ।स्वापाव्याकृतयोरैक्यं स्वप्रकाशचिदात्मनोः ॥८१॥शक्तिः कुण्डलिनी नाम बिसतन्तुनिभा शुभा ।मूलकन्दं फणाग्रेण दृष्ट्वा कमलकन्दवत् ॥८२॥मुखेन पुच्च्हं संगृह्य ब्रह्मरन्ध्रसमन्विता ।पद्मासनगतः स्वस्थो गुदमाकुञ्च्य साधकः ॥८३॥वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः ।वाय्वाघातवशादग्निः स्वाधिष्ठानगतो ज्वलन् ॥८४॥ज्वलनाघातपवनाघातोरून्निद्रितोऽहिराट् ।ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः ॥८५॥रुद्रग्रन्थिं च भित्त्वैव कमलानि भिनत्ति षट् ।सहस्रकमले शक्तिः शिवेन सह मोदते ॥८६॥सैवावस्था परा ज्ञेया सैव निर्वृतिकारिणी इति ॥इति प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP