संस्कृत सूची|संस्कृत साहित्य|उपनिषद|योगकुण्डल्युपनिषत्| द्वितीयोऽध्यायः योगकुण्डल्युपनिषत् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः योगकुण्डल्युपनिषत् - द्वितीयोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद द्वितीयोऽध्यायः Translation - भाषांतर अथाहं संप्रवक्ष्यामि विद्यां खेचरिसंज्ञिकाम् ।यथा विज्ञानवानस्या लोकेऽस्मिन्नजरोऽमरः ॥१॥मृत्युव्याधिजराग्रस्तो दृष्ट्वा विद्यामिमां मुने ।बुद्धिं दृढतरां कृत्वा खेचरीं तु समभ्यसेत् ॥२॥जरामृत्युगदघ्नो यः खेचरीं वेत्ति भूतले ।ग्रन्थतश्चार्थतश्चैव तदभ्यासप्रयोगतः ॥३॥तं मुने सर्वभावेन गुरुं मत्वा समाश्रयेत् ।दुर्लभा खेचरी विद्या तदभ्यासोऽपि दुर्लभः ॥४॥अभ्यासं मेलनं चैव युगपन्नैव सिध्यति ।अभ्यासमात्रनिरता न विन्दन्ते ह मेलनम् ॥५॥अभ्यासं लभते ब्रह्मञ्जन्मजन्मान्तरे क्वचित् ।मेलनं तु जन्मनां शतान्तेऽपि न लभ्यते ॥६॥अभ्यासं बहुजन्मान्ते कृत्वा तद्भावसाधितम् ।मेलनं लभते कश्चिद्योगी जन्मान्तरे क्वचित् ॥७॥यदा तु मेलनं योगी लभते गुरुवक्त्रतः ।तदा तत्सिद्धिमाप्नोति यदुक्ता शास्त्रसन्ततौ ॥८॥ग्रन्थतश्चार्थतश्चैव मेलनं लभते यदा ।तदा शिवत्वमाप्नोति निर्मुक्तः सर्वसंसृतेः ॥९॥शास्त्रं विनापि संबोद्धुं गुरवोऽपि न शक्नयुः ।तस्मात्सुदुर्लभतरं लभ्यं शास्त्रमिदं मुने ॥१०॥यावन्न लभ्यते शास्त्रं तावद्गां पर्यटेद्यतिः ।यदा संलभ्यते शास्त्रं तदा सिद्धिः करे स्थिता ॥११॥न शास्त्रेण विना सिद्धिर्दृष्टा चैव जगत्त्रये ।तस्मान्मेलनदातारं शास्त्रदातारमच्युतम् ॥१२॥तदभ्यासप्रदातारं शिवं मत्वा समाश्रयेत् ।लब्ध्वा शास्त्रमिदं मह्यमन्येषां न प्रकाशयेत् ॥१३॥तस्मात्सर्वप्रयत्नेन गोपनीयं विजानता ।यत्रास्ते च गुरुर्ब्रह्मन्दिव्ययोगप्रदायकः ॥१४॥तत्र गत्वा च तेनोक्तविद्यां संगृह्य खेचरीम् ।तेनोक्तः सम्यगभ्यासं कुर्यादादावतन्द्रितः ॥१५॥अनया विद्यया योगी खेचरीसिद्धिभाग्भवेत् ।खेचर्या खेचरीं युञ्जन्खेचरीबीजपूरया ॥१६॥खेचराधिपतिर्भूत्वा खेचरेषु सदा वसेत् ।खेचरावसथं वह्निमम्बुमण्डलभूषितम् ॥१७॥आख्यातं खेचरीबीजं तेन योगः प्रसिध्यति ।सोमांशनवकं वर्णं प्रतिलोमेन चोद्धरेत् ॥१८॥तस्मात्त्र्यंशकमाख्यातमक्षरं चन्द्ररूपकम् ।तस्मादप्यष्टमं वर्णं विलोमेन परं मुने ॥१९॥तथा तत्परमं विद्धि तदादिरपि पञ्चमी ।इन्दोश्च बहुभिन्ने च कूटोऽयं परिकीर्तितः ॥२०॥गुरूपदेशलभ्यं च सर्वयोगप्रसिद्धिदम् ।यत्तस्य देहजा माया निरुद्धकरणाश्रया ॥२१॥स्वप्नेऽपि न लभेत्तस्य नित्यं द्वादशजप्यतः ।य इमां पञ्च लक्षाणि जपेदपि सुयन्त्रितः ॥२२॥तस्य श्रीखेचरीसिद्धिः स्वयमेव प्रवर्तते ।नश्यन्ति सर्वविघ्नानि प्रसीदन्ति च देवताः ॥२३॥वलीपलितनाशश्च भविष्यति न संशयः ।एवं लब्ध्वा महाविद्यामभ्यासं कारयेत्ततः ॥२४॥अन्यथा क्लिश्यते ब्रह्मन्न सिद्धिः खेचरीपथे ।यदभ्यासविधौ विद्यां न लभेद्यः सुधामयीम् ॥२५॥ततः संमेलकादौ च लब्ध्वा विद्यां सदा जपेत् ।नान्यथा रहितो ब्रह्मन्न किंचित्सिद्धिभाग्भवेत् ॥२६॥यदिदं लभ्यते शास्त्रं तदा विद्यां समाश्रयेत् ।ततस्तदोदितां सिद्धिमाशु तां लभते मुनिः ॥२७॥तालुमूलं समुत्कृष्य सप्तवासरमात्मवित् ।स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत् ॥२८॥स्नुहिपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् ।समादाय ततस्तेन रोममात्रं समुच्च्हिनेत् ॥२९॥हित्वा सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रकर्षयेत् ।पुनः सप्तदिने प्राप्ते रोममात्रं समुच्च्हिनेत् ॥३०॥एवं क्रमेण षण्मासं नित्योद्युक्तः समाचरेत् ।षण्मासाद्रसनामूलं सिराबद्धं प्रणश्यति ॥३१॥अथ वागीश्वरीधाम शिरो वस्त्रेण वेष्टयेत् ।शनैरुत्कर्षयेद्योगी कालवेलाविधानवित् ॥३२॥पुनः षण्मासमात्रेण नित्यं संघर्षणान्मुने ।भ्रूमध्यावधि चाप्येति तिर्यक्कणबिलावधिः ॥३३॥अधश्च चुबुकं मूलं प्रयाति क्रमचारिता ।पुनः संवत्सराणां तु तृतीयादेव लीलया ॥३४॥केशान्तमूर्ध्वं क्रमति तिर्यक् शाखावधिर्मुने ।अधस्तात्कण्ठकूपान्तं पुनर्वर्षत्रयेण तु ॥३५॥ब्रह्मरन्ध्रं समावृत्य तिष्ठेदेव न संशयः ।तिर्यक् चूलितलं याति अधः कण्ठबिलावधि ॥३६॥शनैः शनैर्मस्तकाच्च महावज्रकपाटभित् ।पूर्वं बीजयुता विद्या ह्याख्याता यतिदुर्लभा ॥३७॥तस्याः षडङ्गं कुर्वीत तया षट्स्वरभिन्नया ।कुर्यादेवं करन्यासं सर्वसिद्ध्यादिहेतवे ॥३८॥शनैरेवं प्रकर्तव्यमभ्यासं युगपन्नहि ।युगपद्वर्तते यस्य शरीरं विलयं व्रजेत् ॥३९॥तस्माच्च्हनैः शनैः कार्यमभ्यासं मुनिपुङ्गव ।यदा च बाह्यमार्गेण जिह्वा ब्रह्मबिलं व्रजेत् ॥४०॥तदा ब्रह्मार्गलं ब्रह्मन्दुर्भेद्यं त्रिदशैरपि ।अङ्गुल्यग्रेण संघृष्य जिह्वामात्रं निवेशयेत् ॥४१॥एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं प्रविश्यति ।ब्रह्मद्वारे प्रविष्टे तु सम्यङ्मथनमाचरेत् ॥४२॥मथनेन विना केचित्साधयन्ति विपश्चितः ।खेचरीमन्त्रसिद्धस्य सिध्यते मथनं विना ॥४३॥जपं च मथनं चैव कृत्वा शीघ्रं फलं लभेत् ।स्वर्णजां रौप्यजां वापि लोहजां वा शलाकिकाम् ॥४४॥नियोज्य नासिकारन्ध्रं दुग्धसिक्तेन तन्तुना ।प्राणान्निरुध्य हृदये सुखमासनमात्मनः ॥४५॥शनैः सुमथनं कुर्याद्भ्रूमध्ये न्यस्य चक्षुषी ।षण्मासं मथनावस्था भावेनैव प्रजायते ॥४६॥यथा सुषुप्तिर्बालानां यथा भावस्तथा भवेत् ।न सदा मथनं शस्तं मासे मासे समाचरेत् ॥४७॥सदा रसनया योगी मार्गं न परिसंक्रमेत् ।एवं द्वादशवर्षान्ते संसिद्धिर्भवति ध्रुवा ॥४८॥शरीरे सकलं विश्वं पश्यत्यात्माविभेदतः ।ब्रह्माण्डोऽयं महामार्गो राजदन्तोर्ध्वकुण्डली ॥४९॥इति द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP