संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|द्वितीयपरिच्छेदः| पञ्चमोऽध्यायः द्वितीयपरिच्छेदः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः द्वितीयपरिच्छेदः - पञ्चमोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता पञ्चमोऽध्यायः Translation - भाषांतर श्रीभगवानुवाचरसातलेधस्थाद्दानवाः शतकोटिशः ।दैत्याश्च यातुधानाश्च पौलोमाः कालकेयकाः ॥१॥निवाताकवचाधीराः राक्षसाश्च सुराणकाः ।पिशाचा अन्त्यजासृक्याः महाकुमति(मुदि)नो जराः ॥२॥वसन्ति चक्रभयतो हरेः सर्वभयादपि ।ये केचित्तात्विकास्तत्र संवसन्ति सुरर्षभाः ॥३॥प्रतिमन्वन्तरेष्वेते वर्षेस्मिन्भारतेखिलाः ।हरीरसुरसद्विप्रगोयोषिदपराश्रमान् ॥४॥दूषयित्वा पातयित्वा केचित्पूर्णान्यथाधियः ।नित्ये वसन्ति नरके हता हर्यादि दैःद्वग्द्ध ॥५॥नित्यदुःसाधनाभूयो रसातलमुपाश्रिताः ।भूमौ भूत्वा ब्रह्मरुद्रवरैर्लोको(का)पकारिणः ॥६॥सर्वावतारै रामेण कृष्णेनापि हताः खिलाः ।वसन्ति नित्यनरके कालाद्यास्यन्ति वै तमः ॥७॥तस्मिन्हि सरमानाम्नी शुनी ब्रह्मवरोद्भवा ।सदार्तान्भीषयन्ति दैत्यान्यमस्य वशवर्तिनी ॥८॥क्षीणायुषस्तत्रदैत्याः स्वप्ने दृष्ट्वा सुदर्शनं ।मृतायास्यन्ति नरकं तद्वंश्या(स्या)नां स आश्रयः(मः) ॥९॥तदधस्तात्तु पाताले उत्तरे दिशि भासुरे ।सहस्रवदनः शेषः सर्वैस्तात्विकपन्नगैः ॥१०॥समस्त नागकन्याभिः पूजितो रत्नमण्डपे ।ध्यायन्नारायणं देवं सदावसति सामरः ॥११॥सहस्रभानुभादीप्यत्किरीटावलिमण्डितः ।सम्पूर्णशारदशशिछविकोट्यधिकद्युतिः ॥१२॥नित्यामृतस्रवच्छुभ्रफणामण्डलमण्डितः ।सदैककुण्डलो भास्वन्मुसलः सहलः प्रभुः ॥१३॥भानुप्रभामुण्मूर्धन्यमणिश्रीहृतसर्वरुक् ।हारनूपुरवलयकङ्कणाङ्गुलिकादिभिः ॥१४॥अनेकमणिसद्भास्व(त्कटि)त्किरीटसूत्रादिकः प्रभुः ।सुरासुरकिरीटस्थरत्नाछादितपादुकः ॥१५॥गन्धमाल्यादिसुरभिध्यायन्नास्ते विराट्स्वयं ।पातालदक्षिणे भागे संय(म्य)मिन्यां पुरः प्रभुः ॥१६॥श्यामलावल्लभो दण्डधरो महिषवाहनः ।समवर्ती यमः प्रेतपतिः नीलाञ्जनाद्रिरुक् ॥१७॥सर्वाभरणसम्पन्नः धर्मराट्रामचिन्तकः ।भानुपुत्रोश्चात्रचित्रचित्रगुप्तौ सुलेखकौ ॥१८॥यस्याज्ञाया भारतोत्थपुण्यपापचयस्य तु ।तत्र धर्मः प्रवक्तारः तत्तन्मन्वन्तरस्थिताः ॥१९॥ऋषयः सर्वदेवोपदेवास्तत्परिचारकाः ।ऊर्ध्वकेशा विरूपाक्षाः नीलवर्णभयङ्कराः ॥२०॥तदाज्ञाकारिणास्तस्य किङ्कराः पाशपाणयः ।निष्ठुराः निर्घृणाः क्रूराः महापरिघपाणयः ॥२१॥भारतात्पापिनो बध्वाह्यानीयन्ते यमान्तिकं ।दशलक्षमतास्ते तु घोरास्ताडनभर्जनैः ॥२२॥घोराध्वाने कृषन्त्येते नितरां कृतपापिनः ।स तानभ्यगतान्दृष्ट्वा यमदण्डं परेतराठ् ॥२३॥तेषां मूर्ध्नि स्थापयति यातना देहिनां तदा ।पुण्यपापानि ते सर्वे कीर्तयन्ति कृतानि च ॥२४॥तत्र तत्वात्मिकाःसर्वे सत्यमित्यवदन्स्थिताः ।पत्रेषु तानि(ळःइ) लिखितान्यपि ते प्रपठन्ति च ॥२५॥सुखदुःखात्मकफलं वदन्ति ऋषिसत्तमाः ।दशलक्षमितास्तेषां यमदूतास्तु नारके ॥२६॥पातयित्वा ताडयन्ति यथा पापानुसारतः ।विंशल्लक्षमितास्तत्र(स्य) सदा रोगाभिमानिनः ॥२७॥ते वातपित्तश्लेष्माद्याः सन्निपातज्वरादयः ।भगन्दरातिसाराश्च वमनारुचिदुर्व्रणाः ॥२८॥हेमपीनसबाधर्यद्धृ(हृ)द्रोगाद्यास्तदन्तिके ।वसन्ति पापफलदाः क्वचिद्देहक्षयङ्कराः ॥२९॥श्वाहिवृश्चिकदंशांशी विषदुर्वृकरूपकाः ।विंशल्लक्षास्तु नरके पतितानां प्रबाधकाः ॥३०॥पाताले संवसन्त्येते नरका बहुरूपकाः ।दुर्गतिर्निरयश्चैव महारौरवरौरवौ ॥३१॥संघातकालसूत्राख्योवर्चाख्यामनिरोधनं ।तैलयन्त्रस्तप्ततैलो गिरिपातायसालयौ ॥३२॥सूच्यग्निभूरिनिर्घातौ वक्रकण्टकदानवौ ।श्वभोजनव्रतपनौ कर्कशालिमुखोल्बणौ ॥३३॥पूयासृङ्मूत्रविष्टाशाः तप्तास्त्रोपरिरम्भणाः ।कालकूटाग्निशकलौ सर्वशस्त्रास्त्रपातनौ ॥३४॥प्राणरोधमहाभारौ क्रूराशीविषवृश्चिकौ ।सर्वाङ्गछेदात्ममांसौ तप्तवृक्षाभिपातनौ ॥३५॥शूलारोहापकर्षा द्वौ दुर्गन्धा राक्षसादनः ।बाणाघातो वैतरणी शङ्कमूलकरालकौ ॥३६॥पिपीलिका जलूकादौ गृध्रकङ्कादि भोजने ।आवर्तनास्फालनौ द्वौ शिलायन्त्रशिलादनौ ॥३७॥कर्णवस्तु पुपूर्णार्(णो) च द्वार(प्रक्षे)क्षेपणबन्धनौ ।शृङ्कला तप्तसिकता स्फुलिङ्गाश्चावधूलयः ॥३८॥शिरमर्मग्रन्थिकूटजलनीरोधनादयः ।सन्त्येवाष्टोत्तरशतनरकाः पातकालयाः ॥३९॥अनित्यनरका एते तामिश्रन्धतामिश्रकौ ।नित्यौ द्वौ नरकौ तत्र गतायान्ति तमः क्रमाथ् ॥४०॥अधो लोकेषु ये देवाः सर्वमन्वन्तरेष्वपि ।प्रोक्तव्यापारनिरताः नामान्तरविवर्जिताः ॥४१॥अयोग्यानामिहप्रोक्तनामरूपाणि सर्वशः ।इहैव पूर्वमनुषु(ष्टु) दत एवाज्ञ(म्य)नामकाः ॥४२॥एते मनुलये सर्वेत्यक्त्वा स्थूलानि सूक्ष्मतः ।स्वप्राज्ञवशगा यान्ति महर्लोकं तदत्यये ॥४३॥प्राप्यस्थूलानि ऋषिभिः स्वपूर्वं पातिके(प्रान्तिके) क्रमाथ् ॥४४॥इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे पञ्चमोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP