संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|द्वितीयपरिच्छेदः| तृतीयोध्यायः द्वितीयपरिच्छेदः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः द्वितीयपरिच्छेदः - तृतीयोध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता Tतृतीयोध्यायः Translation - भाषांतर हरिः ओंतदा मेरौ तु सुज्येष्ठः कामधुक्कल्पवृक्षकौ ।चिन्तामणिं रूपभेदैः स्वर्गोपस्वर्गगान्व्यधाथ् ॥१॥तदाविधिः सर्वजीवबिम्बरूपाण्यचिन्तयत् ।स्वयं तथा तथाभूत्वा सृजत्ता(वछ)दृक्शरीरिणः ॥२॥स्वर्गस्थानां पदस्थानां सर्वमन्वन्तरेष्वपि ।भूमौ हर्यावतारे तु तदाज्ञामकरोद्विधिः ॥३॥दुष्प्रारब्धस्य भोगायागामि सत्साधनाय च ।सुराणां हरिसेवार्थं अवताराण्यनुक्रमाथ् ॥४॥पुनस्तत्तन्मूलरूपैरेकीभावं स सर्वदा ।भुवं स्पृशन्त्विति तथा ते च कुर्वन्त्यजाज्ञया ॥५॥एधमानद्विडेषां हि सर्वदा भारतास्थितिं ।नाज्ञापयधरिस्तेन तथा चक्रे सतां(तान्) विधिः ॥६॥ततो धातात्मदेहस्थतत्वान्युच्चावचानि च ।संसृष्टानि तदीशांश्च मेरुस्थः सव्यचिन्तयथ् ॥७॥देहमध्येत्वधोनाभेर्मूलाधारं स पुष्करं ।चतुर्दलं(शं) स्वर्णनिभं मायाद्यादलदेवताः ॥८॥अनिरुद्धमुदानं च सुषुम्ना (दि)हि त्रिकाश्रयं ।तन्मध्यसम्भवा नाडी सुषुम्ना सूक्ष्मरूपिणी ॥९॥एका शाखादिरहिता स्वर्णवर्णा पराश्रया ।भूम्या स्वायम्भवेनापि रक्षितेब्जे समुत्थिता ॥१०॥च्छिद्रान्विता च सा सप्तप्राणादि मरुदाश्रया ।मध्ये ज्वलन्ती तत्पार्श्वजातयोः पिङ्गलेल(ड)योः ॥११॥मूर्धां ता नाभिकञ्जादि षट्पद्मानां समाश्रया ।षट्दलं नाभिकमलं नीलाद्यास्तद्दलाधिपाः ॥१२॥इषन्नीलोपेतभागे गोरिकारक्तिमान्विते ।स्थितं प्रद्युम्ननामानं नागाख्यप्राणसेवितं ॥र्१३॥मरुतः प्रवहादींश्च सप्ततद्गान्व्यचिन्तयेत् ।ते द्वे ऊर्ध्वमुखे हृद्गकञ्जमाहरधोमुखं ॥१४॥नाभे द्व्यष्टाङ्गुलोर्ध्वस्थ सुषुम्नाष्टदिगुत्थितैः ।दलैरधोमुखैरुद्यद्भानुवर्णैस्थाष्टभिः ॥१५॥दशाङ्गुलिमितान्तर्(ग)द्गर्(भा)भावकोशावहैः शुभैः ।परस्परं दृढाश्लिष्टसंयुक्ताग्राङ्गुलं भवेथ् ॥१६॥हृत्कजं तत्रगीर्देवी भारत्या सहमानिनी ।प्राणाः कूर्मात्मकस्तत्र वसवो दलदेवताः ॥१७॥स्थानेशो हि तदन्तस्थो दशाङ्गुलमितो हरिः ।तदीय हृदयाकाशमण्टपं श्रीस्वरूपकं ॥१८॥दुर्गाभूश्रीभागभेदैर्भागत्रयसमन्विता ।दुर्गाकन्दात्मिका चैव भूर्मध्ये नालरूपिणी ॥१९॥तदूर्ध्वगे तु श्रीभागे रमाकञ्जस्वरूपिणी ।वेदिका तु त्रिभागस्था सार्धाङ्गुलि दृढा मता ॥२०॥तन्मण्टपं मणिमयं चतुर्द्वारं शुभास्पदं ।सुगन्धैर्मणिदीपैश्च रम्भास्तम्भैर्मनोरमं ॥२१॥तोरणैः पूर्णकुम्भैश्च पताकछत्रमण्डितं ।मणिस्तम्भैमौक्तहारैः नाना श्वेताङ्कुरैरपि ॥२२॥श्रीभागं कञ्जसंमानः मूलेशाख्यो हरिस्वयं ।कञ्जोपरीन्दुसूर्याग्निमण्डलान्युपरिस्फुटं ॥२३॥रम्यैव दिव्यशय्याभूत्कमनीयोपबर्हणा ।तस्मिन्स्वरूपशेषाभ हरिरूर्ध्वफणोन्नतः ॥२४॥तस्योपरि रमाचित्रासनरूपा तदूर्ध्वगा ।प्राज्ञात्मा स तु जीवेशो जीवोयद्वशगः सदा ॥२५॥चक्रशङ्खगदापद्महस्तः स तु चतुर्भुजः ।किरीटकुण्डललसन्नूपुराङ्गदभूषणः ॥२६॥हारश्रीवत्सकण्ठस्थ कौस्तुभादैरलङ्कृतः ।रत्नाङ्गुलीयकटककटिसूत्रादि सत्कृतः ॥२७॥पिताम्बरोति सर्वाङ्गसौन्दर्यसुभगोचितः ।स विश्वतोमुखोप्येकमुखवद्भाति नीलदृक् ॥२८॥स्थानेश मूलेशयुक्तः समुपास्यो निरंशकैः ।मण्टपाधः प्रदेशस्थशक्तिराधाररूपिणी ॥२९॥कूर्मशेषश्च भूः क्षौरवार्धिपाद्वीपरूपिणी ।श्वेतां रमां संविचिन्त्य निरंशैरित्यचिन्तयथ् ॥३०॥उरुस्ताल्वोर्भ्रुवोर्मध्ये शिरस्यूर्ध्वमुखानि च ।कञ्जानि श्वेतवर्णानि द्विषड्व्यष्टदलैस्तथा ॥३१॥द्वाभ्यां सहस्रदलकैर्युक्तानि दलदेवताः ।आदित्याः प्रथमे पद्मे इन्द्राद्यास्तत्रदेवताः ॥३२॥देवतास्तु त्रृतीयेब्जे भारती च सरस्वती ।मूर्ध्नैको बहुरूपेण वायुः सर्वदलाधिपः ॥३३॥नारायणो हरिः कृष्णो वासुदेवस्तदीश्वरः ।कृकलो देवदत्ताख्यः सूत्रनामा मरुत्पतिः ॥३४॥मरुतः सप्तसप्तापि पञ्चस्वपि हदारिषु ।सुषुम्ना नालजातानि पद्मान्येतानि सप्त च ॥३५॥गुणत्रयात्मिकानाडी सुषुम्ना वेदपारगैः ।स्यैका शाखादि रहिता गर्भेछिद्रान्वतापि च ॥३६॥सरस्वती तदन्तर्गा नदी वारिस्वरूपिणी ।हैरण्मयी वैध्युतीति वज्रिका भास्वतीति सा ॥३७॥नामभिः संयुतालोकाः भूराद्याः तत्रसंस्थिताः ।भूर्भुवस्वर्गलोकेशा महरादीश्वरः(श्चराः) क्रमाथ् ॥३८॥भूविघ्नेशेन्द्रानिरुद्धकामशेषाब्जजा मताः ।कट्यूरुद्वितये जानुजङ्घगुल्पो भयाङ्घ्रिषु ॥३९॥अतलाद्याश्रितादेवा देहे देवेश सेवकाः ।मित्राग्न्यस्त्रपवारीशमयमन्दयमाः क्रमाथ् ॥४०॥देहेप्येवं विराड्देहधारिणं तन्मितोवति ।सुषुम्ना मूलदेशोत्थे गङ्गायामुनवार्धरे ॥४१॥पिङ्गलेले रक्तनीलवर्णे सव्यापसव्यगे ।गर्भछिद्रान्विते षट्त्रिंशत्सहस्रप्रभेदिनी ॥४२॥पृथक्पृथक्सव्यनाड्यो महत्तत्वात्मिका मताः ।त्रिधा विभक्ताः पादान्तं द्विषट्साहस्रसंमिताः ॥४३॥दक्षिणे दक्षपादान्तं नाड्यस्तावन्मिताः क्रमात् ।पिङ्गला ऊर्ध्वदेहेषु व्याप्तास्तावन्मिताः शुभाः ॥४४॥अधोमध्योर्ध्वगास्तास्तु सप्तास्य पथमाश्रिताः ।सप्तसन्त्येव विवराः घ्राणास्य श्रुति नेत्रगाः ॥४५॥सप्तास्यपथनामानो गोलकाः सप्तकीर्तिताः ।सप्तोर्ध्वनाड्यो हृत्कञ्जाधस्थलाद्वामपार्श्वगाः ॥४६॥पुनर्हृत्कं चोर्ध्वदेशात्सव्यमावृत्य पिङ्गलाः ।सप्तास्य पथगाः तत्र(सूर्यो) वह्न्याद्या वत्सरेश्वराः ॥४७॥उत्तरायणमासेशाः दिनेशाः शुक्लपक्षपाः ।परशुक्लत्रयं ह्यस्मिन्ह्येत एवाभिमानिनः ॥४८॥सूर्यादि सर्वदेवानां नामवाच्यास्तु पिङ्गलाः ।तस्यां ब्रह्माभिमानी गी ऋजवस्त्वपरोक्षिणः ॥४९॥प्राणापाना विलायां च पिङ्गलायां च वर्ततः ।रूपैः षड्विंशत्सहस्रैस्तासु तौ भारतीयुतौ ॥५०॥तथानिरुद्धप्रद्युम्नौ दक्षिणे पुं स्वरूपतः ।स्त्रीस्वरूपेण वामे तु तावद्रूपैश्च तास्वलं ॥५१॥तादृक्पाणस्वरूपस्थौ ब्रह्मरुद्राद्युपासितौ ।दक्षिणायनमासेशाः रात्रीशाश्चैव देवताः ॥५२॥कृष्णपक्षेश्वरारुद्रविपशेषाः सभार्यकाः ।अहङ्कारात्मकेलायां देवाः सर्वेभिमानिनः ॥५३॥आनन्दविज्ञानमयौ पिङ्गलेलाधिपौ क्रमात् ।व्यानात्मा सर्वसन्धिस्थः उदानोब्रह्मनाडिगः ॥५४॥सुषुम्ना ब्रह्मनाडीति समानःसर्वदेहगः ।अधो मध्योर्ध्वगाः सप्तसप्तेलानाडिका क्रमाथ् ॥५५॥सप्ताश्वमार्गपथगाः ऊर्ध्वेलाः पिङ्गला यथा ।हृत्कञ्जाधोभागतस्ताः सव्यं प्राप्य तदूर्ध्वतः ॥५६॥अपसव्यं पुनः प्राप्यसप्ताश्वपथगाः क्रमात् ।भूम्या(धूमा)दि देवताशब्दैरिलावाच्यासमस्तशः ॥५७॥ऋग्वेदसूक्तभागेषु बृहतीःऋक्सहस्रयुक् ।सूत्रद्व्यष्टादशैकोनैः पूर्णरुक्प्रभविष्यति ॥५८॥पादस्तु नववर्णात्मा तादृक्पादचतुष्टयैः ।रुक्तत्संयुक्ताक्षरेतावर्णाद्वासप्ततीरिताः ॥५९॥द्वासप्ततिसहस्राणि वर्णाः सर्वरुगाश्रिताः ।द्वासप्ततिसहस्रेषु पिङ्गलेलाह्वयासु च ॥६०॥नाडीषु तत्तद्वर्गेषु वाच्यरूपाण्यचिन्तयेत् ।सुषुम्नायाश्चतुर्दिक्षु हृत्कञ्जाधः समाश्रितं ॥६१॥मनोबुद्धिरहङ्कारश्चित्तञ्चेति चतुर्विधं ।तत्रेन्द्रकामौ भार्यौ तौ तद्विशेषाभिमानिनौ ॥६२॥श्रोत्रे दिग्देवताश्चन्द्रस्त्वक्चाहं प्राणनामकः ।नेत्रयोर्भास्करो जिह्वामानी वरुणरिरितः ॥६३॥दश्रौ घ्राणाश्रितावेते तद्विशेषाभिमानिनः ।वक्त्रे(वाचि) वह्निः करेदक्षो जयन्तः पादयोर्ध्वयोः ॥६४॥मित्रः स्वायंभुवौ पायूपस्थयोरभिमानिनौ ।घ्रा(प्रा)णो मरुच्छब्दमानीत्वपानः स्पर्शगस्ततः ॥६५॥व्यानोरूपः रसमानी ह्युदानो गन्धसंस्थितः ।समान एते मात्रासु विशेषादभिमानिनः ॥६६॥भूदेवी मानिनी पृथ्वीः अबात्मा वरुणः स्मृतः ।अग्निस्तेजोमयो वायौ प्रवहः प्रभुरीश्वरः ॥६७॥आकाशमानी विघ्नेशः भूतेष्वेते विशेषपाः ।केशालि(स्थि)त्वङ्मांसनखरूपा भूर्देहगा मताः ॥६८॥वारिरक्तात्मकं देह जठराग्निस्तु तैजसं ।वायुः श्वासात्मकः काये ह्यवकाशो नभस्तनौ ॥६९॥प्रत्यक्षसिद्धसर्वेषां सत्वं बा(बो)ध्यं न हि क्वचित् ।सुदुर्गन्धौ घ्राणवेद्यौ देहे जिह्वेन्द्रियप्रियः ॥७०॥शुभाशुभरसो रूपं चक्षुर्वेद्यं कलेवरे ।शीतोष्णादिः त्वचावेद्यः स्पर्शः शब्दे(ब्दः) श्रुतिप्रिये(यः) ॥७१॥मात्राधृषीकविषयाः सत्याबाध्यान हीरिताः ।वचनादानगमनोत्सर्गभोगादिसाधनं ॥७२॥कर्मेन्द्रियपञ्चचार्थक्रियाकारेति(रिण) (बा)बध्यते ।सत्यं शृणोतिस्पृशतिपश्यत्यत्ति च जिघ्रति ॥७३॥श्रेत्रत्वङ्नेत्ररसनाघ्राणस्तत्वानि तान्यतः ।अर्थक्रियाकराण्येव विबोध्यानीहवेदगं ॥७४॥मनश्च श्रुतिहेतुत्वात्सप्तं(त्यं) च शरीरगाः ।अहङ्कारापादकत्वात्पिङ्गला ममतास्पदा ॥७५॥नाड्यो दौर्बल्यसमये भान्तिसव्यापसव्ययोः ।पुंसांस्त्रीणामायादिव्यञ्जकाः प्रभवन्ति हि ॥७६॥अतः सत्याच्च(श्च) बहुषु ज्ञानाज्ञानप्रवर्तकाः ।गुणाः सत्वादि देहस्थाः सत्यास्तदभिमानिनः ॥७७॥देवाः सत्याः केवलस्य जडस्यस्थित्ययोगतः ।देहानां च सदेहानां देहबन्धमतिकृतां ॥७८॥दुःखास्वदत्वाद्देहाप्तिकारणं सत्यमेव हि ।कर्माणि द्विविधं वेदेषूक्तानुक्रमसच्चसथ् ॥७९॥सुखदुःखप्रदं तेन सत्यावेदाःसमस्तशः ।देशे काले कृतङ्कर्म फलदत्त्वेन तौ वृतौ ॥८०॥तत्कर्मफलभोक्तारो जीवाः सत्याः सलिङ्गकाः ।भग्नलिङ्गा विमुक्ताश्च श्रुत्युक्ताश्च कृताः स्मृताः ॥८१॥इहान्यत्राल्प बहुलज्ञानाज्ञानादि योगिभिः ।सदसत्तारतम्यं च सप्त(त्य)मेते स्वतन्त्रकाः ॥८२॥चिच्चेत्यरूपा एतेषां देहयोगविवर्जिताः ।नियन्ता पुरुषश्रेष्ठः न च एतत्प्रयुज्यते ॥८३॥तस्माल्लक्ष्मीपतिर्व्याप्तः स्वतन्त्रः श्रुतिचोदितः ।निर्देषो नित्यसुगुणः सदा नारायणो हरिः ॥८४॥एवमाध्यात्मिकं सत्यम्(प्तम्) अधिभूतं बहिस्थितं ।सर्वाङ्कुरोत्पादकत्वात्भूःसत्वा(त्या)खिलकारणाथ् ॥८५॥अभस्मरनादि योग्यत्वात्पालकद्दाहादि साधनं ।वह्निश्च शोषको वायुरवकाशप्रदानियथ् ॥८६॥तत्कारणानि मात्राश्च तद्गतानीन्द्रियाणि च ।सत्या(प्ता)न्येवं समस्तानि संसृष्टान्यण्डगानि च ॥८७॥एतन्मूलान्यसंसृष्टान्यपि सत्यानि सर्वशः ।सङ्गृह्येतद्विनिर्माया याति सत्यः सहत्यजः ॥८८॥केचिन्निरङ्गा निर्देहा ज्ञानादि गुणवर्जिताः ।निरंशो खण्डरूपश्च सर्वादृश्योनिरूपिताः ॥८९॥अनामरूपो फलदस्त्वनुपास्यो विचारितः ।ब्रह्मैकन्तु जडं सर्वे ब्रह्मण्यारोपितं मृषा ॥९०॥शुक्तौ रजतवद्रज्जौ सर्पवत्प्रतिभाति च ।अज्ञानं कल्पितं तद्धि शुक्तिज्ञानाद्धि बाध्यते ॥९१॥विचारिते सति हि सा शुक्तिर्नरजतं भवेत् ।अतो बोध्यं मृषाभूतं मिथ्या तद्रजतं यथा ॥९२॥वस्तुस्वरूपं ज्ञानेन कल्पितत्वाच्चतत्तथा ।अज्ञानकल्पितं ब्रह्मण्येतद्विश्वं प्रकल्पितं ॥९३॥ब्रह्मण्यारोपकृज्जीवो ब्रह्मान्यो नैव वर्तते ।निरंशमपि तद्ब्रह्मत्वज्ञानावृतमञ्जसा ॥९४॥अनन्तरूपकं भुङ्क्ते नानायोनिसमुद्भवं ।तस्यज्ञानमुपाध्युत्थं सत्योपाधिर्न विद्यते ॥९५॥मिथ्या साज्ञानजतत्वान्नाज्ञानं सत्य(त्व)मुच्यते ।तदाज्ञानेन जीवस्थं जीवस्याभावतः स्वतः ॥९६॥निर्विशेषब्रह्मणि तु ज्ञानाज्ञानेन वर्ततः ।अतो न ब्रह्मनिष्टं तत्तज्ञानतदुपाधिजं ॥९७॥एवं मिथ्याभूतकालकर्मदेशागमादिभिः ।भ्रमद्ब्रह्म च कल्पान्ते ब्रह्ममूल स्वरूपकं ॥९८॥ज्ञात्वा तत्रैक्यमापन्नो न पुनर्जायते भुवि ।मुक्तस्यापि न चाज्ञानं नेन्द्रियाणि न क्वचिथ् ॥९९॥निर्विशेषे परेब्रह्मण्यैक्यमेतादृशं खलु ।तदज्ञानं न सन्नासत्सदसन्न च तर्हिकं ॥१००॥अनिर्वाच्यं तन्निवृत्तिर्मुक्तिरित्यभिधीयते ।पूर्वापरेषु कालेषु सृष्टिन्मेत्यपि ते जगुः ॥१०१॥एतद्धि दुर्मतं सन्तो नाङ्गीकुर्वन्तितात्विकाः ॥१०२॥इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे तृतीयोध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP