संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|द्वितीयपरिच्छेदः| प्रथमोऽध्यायः द्वितीयपरिच्छेदः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः द्वितीयपरिच्छेदः - प्रथमोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता प्रथमोऽध्यायः Translation - भाषांतर श्रीहंस उवाचकञ्जस्थितः स्वयं ब्रह्मा नापश्यत्सर्वगं हरिं ।यत्नवानपि तत्पूर्वमनसीत्थमचिन्तयथ् ॥१॥भावरूपाज्ञानमानिन्यपि दुर्गाजगद्गुरोः ।नित्यानुग्रहपात्रत्वात्पुत्र(उच्च)त्वाच्च रमा मम ॥२॥स्वोपासनारतत्वाच्च नाज्ञानं भावरूपकं ।इच्छतिस्म सलिङ्गस्यानाद्यविद्यायुतस्य च ॥३॥स्वकीयस्येन्दिरेषन्मे ह्यभिप्रायं शिवादयः ।अविदित्वान्यथाब्रूयुः दुर्गाज्ञानप्रदैव सा ॥४॥न समर्थाज्ञानदाने विधेरित्यसुराश्रयाः ।इत्यज्ञावाक्यैर्मा(तुर्मेऽयशसः कारणं वचः ॥५॥मेह्ययशः कारणं न चतत्राहं संमतो मातुः कीर्त्यर्थं प्रार्थयामि तां ।दुर्गामिति तथा चक्रे तेनादात्सस्य संशयं ॥६॥दत्वाज्ञानं क्षणार्धन्तु स्वभर्तुर्भक्तिमातनोत् ।भयशोकौ च तेनासावज्ञोभीतो बभूव हा ॥७॥तदज्ञनं भावरूपं चतुर्वारं हरेर्भयं ।शोको द्विवारं रमया प्रार्थितो जगदीश्वरः ॥८॥ददावलोचनाभाव दशायां नियमः कृतः ।वृत्यज्ञानस्य बहुशः सम्भवाद्ब्रह्मणोपि तु ॥९॥संख्याविशेषस्योक्तत्वात्भावाज्ञानं वदन्ति तत् ।ततस्त्वित्थं संशयोभूत्त्रिवारं पद्मजन्मनः ॥१०॥स्वतः पद्ममिदं जातं किंपुंसान्येन केनचित् ।इति सञ्चिन्त्य पुंस्यैव जातं नैव जडस्य तथ् ॥११॥स्वतः प्रवृत्तिर्घटते ज्ञानेच्छादेरभावतः ।अहं पद्मेन वा जातः मत्सृष्टिः पुरुषेण वा ॥१२॥इति संश्चित्य मत्सृष्टिः पुरुषेणै नो वा ।इति निश्चित्य स पुमान्स्वतन्त्रो वास्वतन्त्रकः ॥१३॥इति सञ्चिन्त्यास्वतन्त्रः कथं मां स्रष्टुमर्हति ।तस्मात्स्वतन्त्राज्जातोहं तं पस्यां पुनरुत्थितः (पश्येयं) ॥१४॥इति नालं प्रविश्यान्तः नापश्यत्पुनरुत्थितः ।कञ्जस्थ आस तज्ज्ञानं विपरीतमजस्य हि ॥१५॥बहिर्नदृष्टः स कथमन्तर्दृष्टि प(क)थं व्रजेत् ।ततः प्रचण्डवातोत्थाद्भूमिर्मज्जलकम्पिताथ् ॥१६॥पद्मात्पतन्निव महाभयग्रस्थो बभूव ह ।तदा क्षणार्धं शोकोभूद्ब्रह्मणः परमेष्ठिनः ॥१७॥सृष्ट्वा कालं महाकालं मानिनं विधिमातनोत् ।कालावासाने त्वासन्ने तङ्ग्रनिष्यति चाददथ् ॥१८॥आस्यं नृसिह्मस्तु तदा भयशोकान्वितो भवत् ।अत्रैव तत्कारणेन भावाज्ञानयुतो भवेथ् ॥१९॥नान्यत्र दुःखाज्ञानाद्यं य(म)दुक्तं तन्मृषैव हि ।ततस्तपतप इति विष्णोरेव वचो शृणोथ् ॥२०॥ततो ध्यानं जगद्धातुः कृत्वा पश्यत्ससर्वगं ।ब्रह्मा ददर्श वैकुण्ठं हरेर्लोकं महाद्भुतं ॥२१॥पूर्वोक्ताशेषसुमहाविशेषार्थगुणोन्नतं ।दृष्ट्वा तुष्टाव नत्वेशं कृतार्थोभूत्सकञ्जजः ॥२२॥सर्वाधिपत्यं तस्यादात्सर्वज्ञत्वं विकुण्ठपः ।तद्वशोभूत्स्वतन्त्रोपि भगवान्भक्तवत्सलः ॥२३॥द्विसप्तमनुभोगार्हकालं धातुरहो व्यधात् ।यथा तथा रात्रिकालं व्यभजद्भगवान्विभुः ॥२४॥तत्राद्यरात्रिभागे तु साङ्गंब्रह्माण्डमातनोत् ।तत्राण्डनामको विष्णुः प्रविश्यान्तः समेधयथ् ॥२५॥रात्रिद्वितीयभागे तु पद्मनाभस्य नाभितः ।संसृष्टस्यान्यभागेन लोकपद्मं व्यधाद्धरिः ॥२६॥पद्माग्रगं च ब्रह्माणं तदज्ञानभयादिकं ।तच्छान्तिं तस्य तद्भक्त्युद्रेकं तस्य तपस्थितिं ॥२७॥तस्मिन्पूर्णानुग्रहं च कृतवान्हरिरूर्जितं ।रात्रि तृतीयभागे तु वैकुण्ठमतिसुन्दरं ॥२८॥ससर्ज तल्लोकपतिरजस्यादर्शयद्धरिः ।स दृष्ट्वा तं विदध्यौ मुक्तामुक्तेश्वरं हरिं ॥२९॥चतुर्थांशे निशायांश्च विराट्सृष्टिं ददर्श ह ।दृष्ट्वा द्विसप्तलोकेषु विराट्देहस्थितान्सुरान् ॥३०॥सूक्ष्मदेहस्थान्पूर्वमनिरूद्धात्ससूक्ष्मकान् ।तथाजस्तत्र तत्रैव स्थूलदेहयुतान्व्यधाथ् ॥३१॥अण्डनिर्माणकाले तु ह्यसंसृष्टानि सर्वशः ।तत्वान्यादाय संयोज्य तत्रिधाव्यभजद्धरिः ॥३२॥अण्डं तदादितश्चक्रे द्वीतीयेनाब्जमातनोत् ।तृतीयं तु त्रिधाभित्वा पुनरेकैकशास्त्रिधा ॥३३॥देवोपदेवमर्त्यानां स्थूलान्यादैस्त्रिभिर्व्यधात् ।द्वितीयांशैस्त्रिभिस्थूलान्यासुराणां श्री हरीच्छया ॥३४॥इति श्री प्रकाशसंहितायां द्वतीयपरिच्छेदे प्रथमोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP