संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|द्वितीयपरिच्छेदः| चतुर्थोऽध्यायः द्वितीयपरिच्छेदः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः द्वितीयपरिच्छेदः - चतुर्थोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता चतुर्थोऽध्यायः Translation - भाषांतर श्रीहंस उवाचसाङ्गज्ञानात्मकतनुमनन्तगुणपूरितं ।साङ्गासद्भीषयन्त्वीशं वेद्यैः शास्त्रैर्निरूपितं ॥१॥अनन्तनामरूपाढ्यं स्व स्व योग्यफलप्रदं ।विचारितमुपास्यं च रमा ब्रह्मादिभिः सदा ॥२॥स्वभिन्नस्वावरानन्तमुक्तामुक्ताणुजीवकैः ।सेवितं श्रीपतिं व्याप्तं चेतनाचेतनस्य तु ॥३॥सत्यस्य सृष्टिकर्तारं हरिं दुःखादि भोगिनं ।जानन्ति तस्य चाज्ञानं क्वचित्क्वापि न युज्यते ॥४॥मिथ्याभूताज्ञानमस्तीत्यत्र मानं न विद्यते ।अज्ञाना भवितास्तष्ठोपाधिर्निवह युज्यते ॥५॥सिद्धौ ज्ञाने तु तज्जोपाधिः सिद्धै तदन्वये ।सर्वस्याज्ञानयोगस्तदभावात्तदेवन ॥६॥अज्ञानाभावतोज्ञासी अधिकाधि न विद्यते ।अज्ञानाभावतस्तन्निवृत्तिरूपं न हि क्वचिथ् ॥७॥अज्ञानकल्पितं शास्त्रं नैवाज्ञाननिकृन्तनं ।इति हेयं तन्मतं हि बद्धस्येशो विमुक्तिदः ॥८॥विश्वं सत्यं नैव मिथ्या न बाध्यं सत्यकारणं ।प्रत्यक्षादिप्रमाण्यैस्तु सिद्धं नारोपितं जगथ् ॥९॥नार्थक्रियाकारि शुक्तौ प्रतीतं रजतं जगत् ।अर्थक्रियाकारि तेन तद्दृष्टान्तो न युज्यते ॥१०॥दृष्टान्तरहितो यत्तु जगन्मिथ्यात्वकारणं ।न भवेत्तन्मते ब्रह्म दृश्यत्वाच्च तथा भवेथ् ॥११॥मिताकाशादि वेदोक्तं विष्णुनेति नतन्मृषा ।न च न्यायोक्तमिथ्यात्वे मानं तन्मतापि न ॥१२॥श्रुतिर्नित्यापौरुषेया दुर्वाक्यैर्न च दूष्यते ।इति ज्ञात्वा विधिर्विष्णोर्माहात्म्यं ज्ञानबोधयथ् ॥१३॥सत्याशेषजगन्नाथः सत्यसत्साधनेन च ।सत्यैर्जीवैःसदोपास्यः सत्यसत्यविमुक्तिदः ॥१४॥इति मेरुस्थितो ब्रह्मा निशान्ते यज्ञमीश्वरं ।अभिषिच्य सपत्नीकं सर्गे सम्पार्थ्य योजयथ् ॥१५॥अपीपलधरिः स्वर्गं सर्वदेवगणेडितः ।ततः स्वायंभुवमनुं शतरूपा समन्वितं ॥१६॥अभिषिच्य विधिर्भूमौ बर्हिष्मत्यामवासयत् ।भावीनश्च पदस्थाश्च उपदेवाः सहस्रशः ॥१७॥मनुं पर्यचरन्प्रीत्या ते निरंशास्ततो भवन् ।विधिस्ततो मय(सू)सुतमन(त)वेधाद्वलाह्वयं ॥१८॥स तु षण्णवती (प्रा)मायाः स्वविजृम्भणतोसृजत् ।स्वैरिण्यश्चैव कामिन्यः पुंश्चल्य इति त्रिधा ॥१९॥तज्जाताभिसमुद्भूताः भोगिन्यो बहुशो मताः ।कृत्वाकाम्यं भारतेस्मिन्मर्त्याधम पुरोगमाः ॥२०॥अधो लोकेषु विहरः एताभिः सह दुर्मदाः ।अनेकाः दानवोपेताः बलस्तदधिनायकः ॥२१॥तदधस्ताच्च वितले त्रिवृद्भूतगणावृतः ।कैश्चिद्रक्षौ (गु)गणैर्युक्ताः भ(वा)वन्त्यास्ते भवः किल ॥२२॥तया सदा रमति सः तद्वीर्याधाटकादिभिः ।ः नदी तदन्तगा तत्र शुष्मत्यप्यग्निवायुभिः ॥२३॥यन्नदीवारिपानेन अधोलोकेषु संस्थिताः ।मदोद्धता नरानार्यः क्रीडन्ति सुचिरं सदा ॥२४॥तदधस्ताच्च सुतले प्रतिमन्वन्तरेष्वपि ।नामरूपविभेदेन प्रह्लादः सानुगोऽवसथ् ॥२५॥वैवस्वतान्तरे विष्णोर्वामनाय पदत्रयं ।याचमानाय पुत्राय कश्यपस्य महात्मनः ॥२६॥बलिर्विरोचनसुतो ददौ लोकत्रयं विभुः ।सोपीन्द्राय पदस्थाय तस्मादादाय दत्तवान् ॥२७॥लोकत्रयं हि देवानामनुजो वटुरूपदृक् ।पयोव्रतप्रभावेन्यैवाविर्भूतः स कश्यपाथ् ॥२८॥इन्द्र प्रवासतः खिन्नमातृतुष्ट्यै जगत्पतिः ।बलिं विरोचनसुतं महाभागवतोत्तमं ॥२९॥स्थापयामास तल्लोके स्वयं तद्वारपालकः ।बभूव वामनः सर्वे स्वरूपामरसेवितः ॥३०॥तस्य त्रिकोटिलोमभ्यो वायुस्तावत्स्वरूपकः ।वाण्या तावद्रूपवत्या वामनस्यार्चको(का) भवथ् ॥३१॥विन्ध्यावली पतिस्तत्र बलिस्तिष्ठति सानुगः ।तदधस्त(त्प्रि)न्मयो विष्णुः भक्तोप्यखिलदानवैः ॥३२॥अर्थितो दानवकुले जातस्तक्षा भवत्पुरा॥तल्लोकपः सदैत्यानां त्रिपुराणि व्यचीक्लपथ् ॥३३॥अभेदाभेद्यरूपाणि स्वर्णरौप्यायसानि च ।स निर्ममे पुरास्तिस्रः स्वर्णरौप्यायसीमयः ॥३४॥कामया तेषु तेष्वेते संस्थिता त्रिपुरौकसः ।विहारान्तरे ह्यस्मिन्सर्वान्जन्तूनपीडयन् ॥३५॥सुरास्तत्पीडया रुद्रशरणं ययुरूर्जिताः ।रुद्रः पृथ्वीरथं कृत्वा रथाङ्गं शशिभस्करौ ॥३६॥देवान्कृत्वा हयानब्जभवं कृत्वैव सारथिं ।शेषं मौर्व्यां विधायेशो पतत्रं(तं) च खगेश्वरं ॥३७॥कृत्वा विष्णुं बाणरूपं स्वयमेकक्षणे हरः ।त्रिपुराणि ददाहेशः सर्वलोकस्य शङ्करः ॥३८॥त्रिपुरासुरपुत्राद्यैः सहा वसति तत्र हि ।वैवस्वतेन्तरे दक्षपत्न्याः कश्यपभार्यकाः ॥३९॥त्रयोदशासं(शाः)स्तपसा तासु पुत्रानवाप सः ।विवस्वान्शक्रवरुणमित्राः पूषार्यमाभगः ॥४०॥सविता त्वष्ट्रृपर्जन्यो धातायां वामनो वटुः ।अदितेस्तनयादित्यां हिरण्याक्षहिरण्यकौ ॥४१॥दनौ तु दानवा गावो महिष्यः सुरभीसुताः ।तान्माया पक्षिणोरिष्टा यातुधानाश्च निरृतिः ॥४२॥इलायां भूसुरा आसन्श्वादयः परमासुताः ।पोष्टाया चैव बेतालाः कार्द्रवेया महाहयः ॥४३॥एतन्मन्वन्तरे षष्ठिसहस्राणि भुजङ्गमाः ।कर्द्रुजास्तेषु केचित्तु तात्विकाः शेषसेवकाः ॥४४॥अपरे कर्मजाजान स्तुल्यास्तत्पुत्रपौत्रकाः ।सस्त्रीका मणिभूधन्याः महातल निवासिनः ॥४५॥महाविषाः महाघो(धा)राः कामरूपधराः खलाः ।सरस्वत्यां सपत्नीकः कश्यपस्तप आचरथ् ॥४६॥तस्या विदूरे पत्नीनां भवनानि व्यचीक्ळ्पत् ।उपयुक्तनतद्युक्तं तद्भृत्यास्तेषु चावसन् ॥४७॥कदाचिद्महिमवत्पार्श्वं वियाहि(विपाहि)पति मातरौ ।गत्वा दृष्ट्वोच्चैश्रवसं नीलवालमहीप्रसूः ॥४८॥प्राहस्वच्छन्द विनताकद्रुते वचनं यदि ।सत्यं दासी तवाहंस्यामन्यथात्वं ममेति च ॥४९॥अद्या सरात्रिश्च प्रातरिति ते गृहमीयतुः ।तद्बालनैल्यवर्ण्ये तु सुतानाह च साधवः ॥५०॥नैश्चन्तानलपद्वैह्वौ कालान्ना शोभवेत्तव ।क्रूराहयास्तथाकृत्वा ता चक्रुर्मातृ किं करीं ॥५१॥शप्ताहयः शेषवाक्यात्स्वरुच्या(त्स्वस्त्र्याक्ष)क्षममात्मनः ।ज्ञात्वा ददुर्जरत्कारोः सनाम्नीं भगिनीं मुनेः ॥५२॥स विरक्तोपि सन्तप्तैः निराश्यैर्नरकास्थितैः ।पितृभिः प्रार्थितो गृह्णंस्तद्गर्भे त्वास्तिकं व्यधाथ् ॥५३॥तां त्यक्तुमूरौ सुष्टाप सा सन्ध्यार्थेव्यबोधयत् ।निद्राभङ्गकरा गच्छेत्याहु तत्याज तां मुनिः ॥५४॥साग्रजं प्राप्य सुषुवे शिखायज्ञोपवीतिनं ।स आपदि स्मृतो यामीत्युक्तोगान्मातुलं प्रति ॥५५॥नैमिशं वासुकिः प्राप्य सुधाममृतमन्थने(ते) ।शप्ता हीना तात्विकानो तेनात्यन्विप संमताः ॥५६॥तक्षकः शृङ्गिशापेन व्यदशच्च परीक्षितं ।शशास पृथिवीं तस्य सुतः स जनमेजयः ॥५७॥तदोदङ्को गालवस्य शिष्यः सेवा सुखात्मनः ।दक्षिणामपि दास्यामीत्युक्तः स कुपितोऽदिशथ् ॥५८॥असाध्य पौष्यभार्यायाः राज्ञा देहि सुकुण्डले ।इत्युक्तोगात्पुरं तस्य मार्गे गोमयभक्षणं ॥५९॥कृत्वानाचाम्य राजानं दृष्ट्वा याचत्स्व भामिनीं ।याचयेत्याह तां गेहे हेनायस्य शप्तुमारभथ् ॥६०॥नृपं न शप मां ब्रह्मन्शुद्धः पश्यसि भामिनीं ।तत आचम्य गत्वा तां दृष्ट्वा तां प्राप सङ्कुण्डले ॥६१॥साह पूर्वे तक्षकायेमादामाया च तेपि च ।पतिव्रतानसंदृश्या(धृष्या)हन्तु(न्तुं)शक्रोहमादृ(गमद्रृ)तं ॥६२॥यतो भवेति तं प्राहगुरुभक्तं न मा स्पृशेत् ।इत्युक्तौ याचितः पौष्याद्भुञ्जन्श्राद्धान्नगं कचं ॥६३॥दृष्ट्वा शत्भवान्ध(शपद्भान्ध)वस्त्वं इति सोप्यशपन्मुनिं ।अपत्नी कोसीति राज्ये लोकस्यान्धोपि पश्यसि ॥६४॥इति दत्वा वरं विप्रो ययौ मार्गेथ तक्षकः ।शिष्यो भूत्वा ग्रन्थिवाहः सोविशच्च रसातलं ॥६५॥मुनिश्च योगसामर्थ्यात्तत्रागान्नागमायया ।अधोस्तुवधि(वेश्चि)वन्तस्य गोमूत्रं नेत्रयोर्व्यधाथ् ॥६६॥ततो पश्यन्नागराजो भियादात्कुण्डलद्वयं ।तदादाय गुरोर्दत्वा क्रुद्धोगाज्जनमेजयं ॥६७॥तं प्राहत्वं वृथाजातो पितृमृत्युं न चावधीः ।अहं मन्त्रप्रवक्तास्मि सम्भारान्छटयाश्चलं ॥६८॥विना शेषं सर्वलोकान्निर्भुजङ्गान्करोम्यहं ।इत्युक्त्वा सर्पयागेन भुजङ्गान्शतकोटिशः ॥६९॥व्यहनच्छक्रमगमंस्तक्षकाद्या नचापतन् ।ततो ऋषिः सहेन्द्रोत्र तक्षकः पततामिति ॥७०॥तक्षकायसहेन्द्राय स्वाहेत्यजुहदाहुतिं ।तदाकम्पत्स्वराण्णागाः अस्मरन्नास्तिकं मुनिं ॥७१॥सोभीत्या पूजितो राज्ञा ह्युदकेनापि चास्तिकः ।स्वाभिप्रेतं तदोदकमाया च जनमेजयं ॥७२॥दास्येर्थितमिति प्रोक्ते देहि मातुलजीवनं ।इति तक्षकपूर्वान्सः कालमृत्योर्व्यमूमुचथ् ॥७३॥साचोदकं समाधा(ध्या)य तक्षकादीन्वधोर्व्यधात् ।यज्ञप्राप्य फलं राज्ञे दत्वा सर्पानथाशपथ् ॥७४॥अनागसं मादशध्वं नागसंस्मरणान्मम ।अन्यथा वः शिरः शीर्णं भवेदिति ययौ मुनिः ॥७५॥विनता सेवयाखिन्ना गर्भं गर्भिण्यताडयत् ।उरुपृष्ठेपुराजातानूरुपादविवर्जितान् ॥७६॥स्वाशक्तिं कालतो दास्य प्राज्ञांरभगर्भविपं ।प्रोक्त्वा मातुर्ययौ यान्ता सूर्यस्यासरथस्थितः ॥७७॥सौदामिन्यां सुतौ तस्य द्वौ सम्पातिजटायुषौ ।कालेन गरुडो जातो विष्णोर्वाहो बभूव ह ॥७८॥पितुर्वाक्याद्बलप्राप्त्यै बभक्ष गजकच्छपौ ।गन्धमादनगो पूर्वं गन्धर्वौ शापसम्भवौ ॥७९॥कद्रूतमाहात्मसुतान्प्रति पीयूषदोसिचेत् ।दास्यान्मोक्षे मातरं च इत्येपास्तु न चाधिकं ॥८०॥इत्युक्तोऽमृतमादाय प्रादात्तर्गाद्व्यमोचयत् ।दास्यात्स्वमातरं स्वर्गगतवच्चं सुरेश्वराः ॥८१॥प्राक्षिपतृणवतं च विधूय च सुधां पुनः ।शक्रोयदाप च स्वर्गं(शक्रायदादापसख्य) तस्य कर्द्रुमथावदथ् ॥८२॥कुतोमृतं हृतमिति पृष्टे हि विनतासुतः ।माता त्वया वञ्चिता मे मया त्वं तेन वञ्चितः ॥८३॥देहीत्युक्ता सुधां पाययेति नोक्तमतो(हृ)धृतं ।तदादि गरुडः सर्पान्वञ्चकान्हन्तुमारभथ् ॥८४॥कर्दुर्हिस्वोत्तमाद्रोहात्पुत्रशोकातुराभवत् ।वञ्चकास्ते पतन्यज्ञे तदन्ये गरुडाशिनः ॥८५॥तदुत्थितास्तस्य करं दत्वा जीवन्ति कृत्स्नशः ।कोवा निरागसानुसर्धूगृध्यजीवितुमुत्सहे ॥८६॥इहामुत्रापि दुःखं ते योग्या अपि भवन्ति हि ।किमयोग्या राक्षसास्तु विशन्ति तम ऊर्जितं ॥८७॥एवं शेषस्य सामीप्यसेवायामृतपानतः ।सख्यात्गरुत्मतः श्रीशभक्तितो गुरुभक्तितः ॥८८॥निष्कापट्यादास्तिकस्य वरतः शक्रदासतः ।मातुः शापं तृणीकृत्य सुखमापुः स पन्नगाः ॥८९॥किमलभ्यं जगत्यस्ति विष्णुवैष्णवसेवया ।महातले तु(कु) सर्पाणां स्थानं विपति बिभ्रतं ॥९०॥शिवस्य वरतोन्येषु चरन्तो यान्ति दुर्(गर्)मतिः ॥९१॥इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे चतुर्थोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP