मराठी मुख्य सूची|स्तोत्रे|
अजं निर्विकल्पं निराकारमे...

श्रीगणेशभुजंगस्तोत्रम् - अजं निर्विकल्पं निराकारमे...

गणपती स्तोत्र

अजं निर्विकल्पं निराकारमेकं
निरातंकमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं
परब्रह्मरूपं गणेशं भजेम ॥१॥
गुणातीतमाद्यं चिदानंदरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं
परब्रह्मरूपं गणेशं भजेम ॥२॥
जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं
सुरेशं परब्रह्मरूपं गणेशं भजेम ॥ ३॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं
सदाकार्यसक्तं हृदाऽचिंत्यरूपम् ।
जगत्कारणं सर्वविद्यानिधानं
परब्रह्मरूपं गणेशं भजेम ॥४॥
सदा सत्वयोगं मुदा क्रीडमानं
सुरारीन् हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं
सदा विष्णुरूपं गणेशं नमामः ॥५॥
तपोयोगिनां रुद्ररूपं त्रिणेत्रं
जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं
सदा शर्वरूपं गणेशं नमामः ॥६॥
तमस्तोमहारं जनाज्ञानहारं
त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरे विकारं
सदा ब्रह्मरूपं गणेशं नमामः ॥७॥
निजैरोषधीस्तर्पयन्तं करौघैः
सुरौघान् कलाभिः सुधास्राविणीभिः ।
दिनेशांशु संतापहारं द्विजेशं
शशांकस्वरूपं गणेशं नमामः ॥८॥
प्रकाशस्वरूपं नभोवायुरूपं
विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं
सदा शक्तिरूपं गणेशं नमामः ॥९॥
प्रधानस्वरूपं महत्तत्वरूपं
धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूतं
सदा विश्वरूपं गणेशं नमामः ॥१०॥
त्वदीये मनः स्थापयेदंघ्रिपद्मे
जनो विघ्नसंघान्न पीडां लभेत ।
लसत्सूर्यबिंबे विशाले स्थितोऽयं
जनो ध्वांतबाधां कथं वा लभेत ॥११॥
वयं भ्रामिताः सर्वथा ज्ञानयोगात्
अलब्ध्वा तवाङ्घ्रिं बहून्
वर्षपूगान् ।
इदानीमवाप्तं तवैव प्रसादात्
प्रपन्नानिमान् पाहि विश्वंभराद्य ॥१२॥
इदं यः पठेत् प्रातरुत्थाय
धीमान् त्रिसंध्यं सदा भक्तियुक्तो विशुद्धः ।
स पुत्रान् श्रियं सर्वकामान् लभेत
परब्रह्मरूपो भवेदन्तकाले ॥१३॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP