संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|काव्यालंकारः| षष्ठः परिच्छेदः काव्यालंकारः प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः काव्यालंकारः - षष्ठः परिच्छेदः प्रस्तुत काव्यालंकार ग्रंथ सातव्या शताब्दीत लिहीला गेला. Tags : kavyakavyalankarpoemsanskritकाव्यकाव्यालंकारसंस्कृत षष्ठः परिच्छेदः Translation - भाषांतर सूत्राम्भसं पदावर्तं पारायणरसातलम् ।धातूणादिगणग्राहं ध्यानग्रहबृहत्प्लवम् ॥१॥धीरैरालोकितप्रान्तं अमेधोभिरसूयितम् ।सदोपभुक्तं सर्वाभिरन्यविद्याकरेणुभिः ॥२॥नापारयित्वा दुर्गाधं अमुं व्याकरणार्णवम् ।शब्दरत्नं स्वयंगम्यं अलं कर्तुमयं जनम् ॥३॥तस्य चाधिगमे यत्नः कार्यं काव्यं विधित्सता ।परप्रत्ययतो यत्तु क्रियते तेन का रतिः ॥४॥नान्यप्रत्ययशब्दा वागाविभाति मुदे सताम् ।परेण घृतमुक्तेव सरसा कुसुमावली ॥५॥मुख्यस्तावदयं न्यायो यत्स्वशक्त्या प्रवर्तते ।अन्यसारस्वता नाम सन्त्यन्योक्तानुवादिनः ॥६॥प्रतीतिरर्थेषु यतस्तं शब्दं ब्रुवतेऽपरे ।धूमभासोरपि प्राप्ता शब्दताग्न्यनुमां प्रति ॥७॥नन्वकारादिवर्णानां समुदायोऽभिधेयवान् ।अर्थप्रतीतये गीतः शब्द इत्यभिधीयते ॥८॥प्रत्येकमसमर्थानां समुदायोऽर्थवान्कथम् ।वर्णानां क्रमवृत्तित्वान्न्याया नापि च संहतिः ॥९॥न चापि समुदायिभ्यः समुदायोऽतिरिच्यते ।दारुभित्तिभुवोऽतीत्य किमन्यत्सद्म कल्प्यते ॥१०॥तस्मात्कूटस्थ इत्येषा शाब्दी वः कल्पना वृथा ।प्रत्यक्षमनुमानं वा यत्र तत्परमार्थतः ॥११॥शपथैरपि चादेयं वचो न स्फोटवादिनाम् ।नमःकुसुममस्तीति श्रद्दध्यात्कः सचेतनः ॥१२॥इत्यन्त ईदृशा वर्णा ईदृगर्थाभिधायिनः ।व्यवहाराय लोकस्य प्रागित्थं समयः कृतः ॥१३॥स कूटस्थोऽनपायी च नादादन्यश्च कथ्यते ।मन्दाः साङ्केतिकानर्थान्मन्यन्ते पारमार्थिकान् ॥१४॥विनश्वरोऽस्तु नित्यो वा सम्बन्धोऽर्थेन वा सता ।नमोऽस्तु तेभ्यो विद्वद्भ्यः प्रमाणं येऽस्य निश्चितौ ॥१५॥अन्यापोहेन शब्दोऽर्थं आहेत्यन्ये प्रचक्षते ।अन्यापोहश्च नामान्य- पदार्थापाकृतिः किल ॥१६॥यदि गौरित्ययं शब्दः कृतार्थोऽन्यनिराकृतौ ।जनको गवि गोबुद्धेर्मृग्यतामपरो ध्वनिः ॥१७॥अर्थज्ञानफलाः शब्दा न चैकस्य फलद्वयम् ।अपवादविधिज्ञाने फले चैकस्य वः कथम् ॥१८॥पुरा गौरिति विज्ञानं गोशब्दश्रवणाद्भवेत् ।येनागोप्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः ॥१९॥वर्णभेदादिदं भिन्नं वर्णाः स्वांशविकल्पतः ।के शब्दाः किं च तद्वाच्यं इत्यहो वर्त्म दुस्तरम् ॥२०॥द्रव्यक्रियाजातिगुण- भेदात्ते च चतुर्विधाः ।यदृच्छाशब्दमप्यन्ये डित्थादिं प्रतिजानते ॥२१॥नानाभाषाविषयिणां अपर्यन्तार्थवर्तिनाम् ।इयत्ता केन वामीषां विशेषादवधार्यते ॥२२॥वक्रवाचां कवीनां ये प्रयोगं प्रति साधवः ।प्रयोक्तुं ये न युक्ताश्च तद्विवेकोऽयमुच्यते ॥२३॥नाप्रयुक्तं प्रयुञ्जीत चेतःसम्मोहकारिणम् ।तुल्यार्थत्वेऽपि हि ब्रूयात्को हन्तिं गतिवाचिनम् ॥२४॥श्रौत्रादिं न तु दुर्बोधं न दुष्टादिमपेशलम् ।ग्राम्यं न पिण्डीशूरादिं न डित्थादिमपार्थकम् ॥२५॥नाप्रतीतान्यथार्थत्वं धात्वनेकार्थतावशात् ।न लेशज्ञापकाकृष्टं स हन्ति ध्याति वा यथा ॥२६॥न शिष्टैरुक्तमित्येव न तन्त्रान्तरसाधितम् ।छन्दोवदिति चोत्सर्गान्न चापि च्छान्दसं वदेत् ॥२७॥क्रमागतं श्रुतिसुखं शब्दमर्थ्यमुदीरयेत् ।अतिशेते ह्यलंकारं अन्यं व्यञ्जनचारुता ॥२८॥सिद्धो यश्चोपसंख्यानादिष्ट्या यश्चोपपादितः ।तमाद्रियेत प्रायेण न तु योगविभागजम् ॥२९॥इयं चन्द्रमुखी कन्या प्रकृत्यैव मनोहरा ।अस्यां सुवर्णालंकारः पुष्णाति नितरां श्रियम् ॥३०॥वृद्धिपक्षं प्रयुञ्जीत संक्रमेऽपि मृजेर्यथा ।मार्जन्त्यधररागं ते पतन्तो बाष्पबिन्दवः ॥३१॥सरूपशेषं तु पुमान्स्त्रिया यत्र च शिष्यते ।यथाह वरुणाविन्द्रौ भवौ शर्वौ मृडाविति ॥३२॥यथा पटयतीत्यादि णिच्प्रातिपदिकात्ततः ।णाविष्ठवदितीष्ट्या च तथा क्रशयतीत्यपि ॥३३॥प्रयुञ्जीताव्ययीभावं अदन्तं नाप्यपञ्चमी ।तृतीयासप्तमीपक्षे नालुग्विषयमानयेत् ॥३४॥तिष्ठद्गुप्रभृतौ वाच्यौ नक्तंदिवसगोचरौ ।यथा विद्वानधीतेऽसौ तिष्ठद्गु च वहद्गु च ॥३५॥शिष्टप्रयोगमात्रेण न्यासकारमतेन वा ।तृचा समस्तषष्ठीकं न कथंचिदुदाहरेत् ॥३६॥सूत्रज्ञापकमात्रेण वृत्रहन्ता यथोदितः ।अकेन च न कुर्वीत वृत्तिं तद्गमको यथा ॥३७॥पञ्चराजीति च यथा प्रयुञ्जीत द्विगुं स्त्रियाम् ।नपुंसकं तत्पुरुषं पुरुहूतसभं यथा ॥३८॥सर्वेभ्यश्च भृशादिभ्यो वदेल्लुप्तहलं यथा ।प्रियोन्मनायते सा ते किं शठाभिमनायसे ॥३९॥तृतीयैकवचः षष्ठ्यां आमन्तं च वदेत्क्विपि ।यथोदितं बलभिदा सुरुचां विद्युतामिव ॥४०॥असन्तमपि यद्वाक्यं तत्तथैव प्रयोजयेत् ।यथोच्यतेऽम्भसा भासा यशसामम्भसामिति ॥४१॥पुंसि स्त्रियां च क्वस्वन्तं इच्छन्त्यच्छान्दसं किल ।उपेयुषामपि दिवं यथा न व्येति चारुता ॥४२॥इभकुम्भनिभे बाला दधुषी कञ्चुकं स्तने ।रतिखेदपरिश्रान्ता जहार हृदयं नृणाम् ॥४३॥शबलादिभ्योऽतितरां भाति णिज्विहितो यथा ।बलाकाः पश्य सुश्रेणि घनाञ्छबलयन्त्यमूः ॥४४॥शिशिरासारकणिका- सदृशः सेतुगन्धवाट् ।त्वां वीजयति सुश्रेणि रतिखेदालसेक्षणाम् ॥४५॥एवं णिचः प्रयोगस्तु सर्वत्रालंकृतिः परा ।लिङ्गत्रयोपपन्नं च ताच्छील्यविषयं णिनिम् ॥४६॥तस्य हारी स्तनाभोगो वदनं हारि सुन्दरम् ।हारिणी तनुरत्यन्तं कियन्न हरते मनः ॥४७॥ताच्छील्यादिषु चेष्यन्ते सर्व एव तृनादयः ।विशेषेण च तत्रेष्टा युच्कुरज्वरजिष्णुचः ॥४८॥क्तिन्नन्तं च प्रयुञ्जीत संगतिः संहतिर्यथा ।शाकारौ जागुरिष्टौ च जागर्या जागरा यथा ॥४९॥उपासनेति च युचं नित्यमासेः प्रयोजयेत् ।ल्युटं च कर्तृविषयं देवनो रमणो यथा ॥५०॥अणन्तादपि ङीबिष्टो लक्ष्मीः पौरन्दरी यथा ।अञ्महारजनाल्लाक्षा- रोचनाभ्यां तथा च ठक् ॥५१॥ड्मतुबिष्टं च कुमुदाद्यथेयं भूः कुमुद्वती ।ठक्चापि तेन जयतीत्याक्षिकः शास्त्रिको यथा ॥५२॥हितप्रकरणे णं च सर्वशब्दात्प्रयुञ्जते ।ततश्छमिष्ट्या च यथा सार्वः सर्वीय इत्यपि ॥५३॥वदेदिमनिजन्तं च पटिमा लघिमा यथा ।विशेषेणेयसुन्निष्टो ज्यायानाप कनीयसीम् ॥५४॥द्वयसज्दघ्नचाविष्टौ प्रमाणविषयौ यथा ।जानुदघ्नी सरिन्नारी- नितम्बद्वयसं सरः ॥५५॥मतुप्प्रकरणे ज्योत्स्ना- तमिस्राशृङ्गिणादयः ।इनच्च फलबर्हाभ्यां फलिनो बर्हिणो यथा ॥५६॥इनिः प्रयुक्तः प्रायेण तथा ठंश्च मनीषिभिः ।तत्रापि मेखालामाला- मायानां सुतरां मतौ ॥५७॥अभ्यस्ताज्झेरदादेशे दधतीत्यादयोऽपि च ।रोदिति स्वपितीत्यादि सहेटा सार्वधातुकम् ॥५८॥अभ्यस्तेषु प्रयोक्तव्यं अदन्तं घुभृञोः शतुः ।असौ दधदलंकारं स्रजं बिभ्रच्च शोभते ॥५९॥[न तवर्गं शकारेण क्वचित्सं]योगिनं वदेत् ।यथैतच्छ्याममाभाति वनं वनजलोचने ॥६०॥नैकत्रैकारभूयस्तं गतो यातो हतो यथा ।सावर्ण्यवज्झयो हस्य ब्रूयान्नान्यत्र पद्धतेः ॥६१॥सालातुरीयमतमेतदनुक्रमेण को वक्ष्यतीति विरतोऽहमतो विचारात् ।शब्दार्णवस्य यदि कश्चिदुपैति पारं भीमाम्भसश्च जलधेरिति विस्मयोऽसौ ॥६२॥विद्यानां सततमपाश्रयोऽपरासां तासूक्तान्न च विरुणद्धि कांश्चिदर्थान् ।श्रद्धेयं जगति मतं हि पाणिनीयं माध्यस्थ्याद्भवति न कस्यचित्प्रमाणम् ॥६३॥अवलोक्य मतानि सत्कवीनां अवगम्य स्वधिया च काव्यलक्ष्म ।सुजनावमयाय भामहेन ग्रथितं रक्रिलगोमिसूनुनेदम् ॥६४॥इति श्रीभामहालङ्कारे षष्ठः परिच्छेदःषष्ट्या शरीरं निर्णीतं शतषष्ट्या त्वलङ्कृतिः ।पञ्चाशता दोषदृष्टिः सप्तत्या न्यायनिर्णयः ॥६५॥षष्ट्या शब्दस्य शुद्धिः स्यादित्येवम् वस्तुपञ्चकम् ।उक्तं षड्भिः परिच्छेदैर्भामहेन क्रमेण वः ॥६६॥ N/A References : N/A Last Updated : December 05, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP