संस्कृत सूची|संस्कृत साहित्य|काव्यालङ्कारः| पञ्चमः परिच्छेदः काव्यालङ्कारः प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः काव्यालङ्कारः - पञ्चमः परिच्छेदः काव्यालङ्कारः Tags : poemsanskritकाव्यसंस्कृत काव्यालङ्कारः Translation - भाषांतर अथ प्रतिज्ञाहेत्वादि- हीनं दुष्टं च वर्ण्यते ।समासेन यथान्यायं तन्मात्रार्थप्रतीतये ॥१॥प्रायेण दुर्बोधतया शास्त्राद्बिभत्यमेधसः ।तदुपच्छन्दनायैष हेतुन्यायलवोच्चयः ॥२॥स्वादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुञ्जते ।प्रथमालीढमधवः पिबन्ति कटु भेषजम् ॥३॥न स शब्दो न तद्वाच्यं न स न्यायो न सा कला ।जायते यन्न काव्याङ्गं अहो भारो महान्कवेः ॥४॥सत्त्वादयः प्रमाणाभ्यां प्रत्यक्षमनुमा च ते ।असाधारणसामान्य- विषयत्वं तयोः किल ॥५॥प्रत्यक्षं कल्पनापोढं ततोऽर्थादिति केचन ।कल्पनां नामजात्यादि- योजनां प्रतिजानते ॥६॥समारोपः किलैतावान्सदर्थालम्बनं च तत् ।जात्याद्यपोहे वृत्तिः क्व क्व विशेषः कुतश्च सः ॥७॥तदपोहेषु च तथा सिद्धा सा बुद्धिगोचरा ।अवस्तुकं चेद्वितथं प्रत्यक्षं तत्त्ववृत्ति हि ॥८॥ग्राह्यग्राहकभेदेन विज्ञानांशो मतो यदि ।विज्ञानमात्रसादृश्याद्विशेषोऽस्य विकल्पना ॥९॥अर्थादेवेति रूपादेस्तत एवेति नान्यतः ।अन्यथा घटविज्ञानं अन्येन व्यपदिश्यते ॥१०॥त्रिरूपाल्लिङ्गतो ज्ञानं अनुमानं च केचन ।तद्विदो नान्तरीयार्थ- दर्शनं चापरे विदुः ॥११॥विवादास्पदधर्मेण धर्मी कृतविशेषणः ।पक्षस्तस्य च निर्देशः प्रतिज्ञेत्यभिधीयते ॥१२॥तदर्थहेतुसिद्धान्त- सर्वागमविरोधिनी ।प्रसिद्धधर्मा प्रत्यक्ष- बाधिनी चेति दुष्यति ॥१३॥तयैव हि तदर्थस्य विरोधकरणं यथा ।यतिर्मम पिता बाल्यात्सूनुर्यस्याहमौरसः ॥१४॥अस्त्यात्मा प्रकृतिर्वेति ज्ञेया हेत्वपवादिनी ।धर्मिणोऽस्याप्रसिद्धत्वात्तद्धर्मोऽपि न सेत्स्यति ॥१५॥शाश्वतोऽशाश्वतो वेति प्रसिद्धे धर्मिणि ध्वनौ ।जायते भेदविषयो विवादो वादिनोर्मिथः ॥१६॥स्वसिद्धान्तविरोधित्वाद्विज्ञेया तद्विरोधिनी ।कणभक्षो यथा शब्दं आचक्षीताविनश्वरम् ॥१७॥सर्वशास्त्रविरुद्धत्वात्सर्वागमविरोधिनी ।यथा शुचिस्तनुस्त्रीणि प्रमाणानि न सन्ति वा ॥१८॥आकुमारमसन्दिग्ध- धर्माहितविशेषणा ।प्रसिद्धधर्मेति मता श्रोत्रग्राह्यो ध्वनिर्यथा ॥१९॥प्रत्यक्षबाधिनी तेन प्रमाणेनैव बाध्यते ।यथा शीतोऽनलो नास्ति रूपमुष्णः क्षपाकरः ॥२०॥सन्द्वयोः सदृशे सिद्धो व्यावृत्तस्तद्विपक्षतः ।हेतुस्त्रिलक्षणो ज्ञेयो हेत्वाभासो विपर्ययात् ॥२१॥सन्द्वयोरिति यः सिद्धः स्वपक्षपरपक्षयोः ।अभिन्नलक्षणः पक्षः फलभेदादयं द्विधा ॥२२॥परपक्षानुपादाने तद्वृत्तेश्चानुदाहृतौ ।कथमन्यतरासिद्ध- हेत्वाभासव्यवस्थितिः ॥२३॥साध्यधर्मानुगमतः सदृशस्तत्र यश्च सन् ।अन्योऽप्यसावेक इव सामान्यादुपचर्यते ॥२४॥विपक्षस्तद्विसदृशो व्यावृत्तस्तत्र यो ह्यसन् ।इति द्वयैकानुगति- व्यावृत्ती लक्ष्मसाधुता ॥२५॥साध्यसाधनधर्माभ्यां सिद्धो दृष्टान्त उच्यते ।तद्विपर्ययतो वापि तदाभस्तदवृत्तितः ॥२६॥साध्येन लिङ्गानुगतिस्तदभावे च नास्तिता ।ख्याप्यते येन दृष्टान्तः स किलान्यैर्द्विधोच्यते ॥२७॥दूषणं न्यूनताद्युक्तिर्न्यूनं हेत्वादिनाथ वा ।तन्मूलत्वात्कथायाश्च न्यूनं नेष्टं प्रतिज्ञया ॥२८॥जातयो दूषणाभासास्ताः साधर्म्यसमादयः ।तासां प्रपञ्चो बहुधा भूयस्त्वादिह नोदितः ॥२९॥अपरं वक्ष्यते न्याय- लक्षणं काव्यसंश्रयम् ।इदं तु शास्त्रगर्भेषु काव्येष्वभिहितं यथा ॥३०॥अथ नित्याविनाभावि दृष्टं जगति कारणम् ।कारणं चेन्न तन्नित्यं नित्यं चेत्कारणं न तत् ॥३१॥लक्ष्म प्रयोगदोषाणां भेदेनानेन वर्त्मना ।सन्धादिसाधनासिद्ध्यै शास्त्रेषूदितमन्यथा ॥३२॥तज्ज्ञैः काव्यप्रयोगेषु तत्प्रादुष्कृतमन्यथा ।तत्र लोकाश्रयं काव्यं आगमास्तत्त्वदर्शिनः ॥३३॥असिसंकाशमाकाशं शब्दो दूरानुपात्ययम् ।सदैव वारि सिन्धूनां अहो स्थेमा महार्चिषः ॥३४॥रूपादीनां यथा द्रव्यं आश्रयो नश्यतीति च ।इष्टकार्याभ्युपगमं प्रतिज्ञां प्रतिजानते ॥३५॥धर्मार्थकामकोपानां संश्रयात्सा चतुर्विधा ।जरामेष बिभर्मीति प्रतिज्ञाय पितुर्यथा ।तथैव पुरुणाभारि सा स्याद्धर्मनिबन्धनी ॥३६॥उपलप्स्ये स्वयं सीतां इति भर्तृनिदेशतः ।हनुमता प्रतिज्ञाय सा ज्ञातेत्यर्थसंश्रया ॥३७॥आहरिष्याम्यमूमद्य महासेनात्मजामिति ।कृत्वा प्रतिज्ञां वत्सेन हृतेति मदनाश्रया ॥३८॥भ्रातुर्भ्रातृव्यमुन्मथ्य पास्याम्यस्यासृगाहवे ।प्रतिज्ञाय यथा भीमस्तच्चकारावशो रुषा ॥३९॥कार्योऽन्यत्र प्रतिज्ञायाः प्रयोगो न कथं चन ।परित्यागश्च कर्तव्यो नासां चतसृणामपि ॥४०॥प्रायोपवेशाय यथा प्रतिज्ञाय सुयोधनः ।राज्याय पुनरुत्तस्थाविति धर्मविरोधिनी ॥४१॥आहूतो न निवर्तेऽहं द्यूतायेति युधिष्ठिरः ।कृत्वा सन्धां शकुनिना दिदेवेत्यर्थबाधिनी ॥४२॥अद्यारभ्य निवत्स्यामि मुनिवद्वचनादिति ।पितुः प्रियाय यां भीष्मश्चक्रे सा कामबाधिनी ॥४३॥अत्याजयद्यथा रामः सर्वक्षत्रवधाश्रयाम् ।जामदग्न्यं युधा जित्वा सा ज्ञेया कोपबाधिनी ॥४४॥अथाभ्युपगमप्राप्तिः सन्धाभ्युपगमाद्विना ।अनुक्तमपि यत्रार्थादभ्युपैति यथोच्यते ॥४५॥किमिन्द्रियद्विषा ज्ञेयं को निराक्रियतेऽरिभिः ।को वा गत्वरमर्थिभ्यो न यच्छति धनं लघु ॥४६॥किमित्ययं तु यः क्षेपः सौकर्यं दर्शयत्यसौ ।हेतुस्त्रिलक्ष्मैव मतः काव्येष्वपि सुमेधसाम् ॥४७॥अन्वयव्यतिरेकौ हि केवलावर्थसिद्धये ।यथाभितो वनाभोगं एतदस्ति महत्सरः ।कूजनात्कुररीणां च कमलानां च सौरभात् ॥४८॥अन्यधर्मोऽपि तत्सिद्धिं सम्बन्धेन करोत्ययम् ।धूमादभ्रंकषात्साग्नेः प्रदेशस्यानुमामिव ॥४९॥अपृथक्कृतसाध्योऽपि हेतुश्चात्र प्रतीयते ।अन्वयव्यतिरेकाभ्यां विनैवार्थगतिर्यथा ॥५०॥दीप्रदीपा निशा जज्ञे व्यपवृत्तदिवाकरा ।हेतुः प्रदीप्रदीपत्वं अपवृत्तौ रवेरिह ॥५१॥तस्यापि सुधियामिष्टा दोषाः प्रागुदितास्त्रयः ।अज्ञानसंशयज्ञान- विपर्ययकृतो यथा ॥५२॥काशा हरन्ति हृदयं अमी कुसुमसौरभात् ।अपामभ्यर्णवर्तित्वादेते ज्ञेयाः शरारयः ॥५३॥असौ शुक्लान्तनेत्रत्वाच्चकोर इति गृह्यताम् ।तुल्यजातावदृष्टत्वात्साधयतचकोरताम् ॥५४॥उक्तस्यार्थस्य दृष्टान्तः प्रतिबिम्बनिदर्शनम् ।ननूपमानुमैवास्तु न हेत्वनभिधानतः ॥५५॥साध्यसाधनयोरुक्तिरुक्तादन्यत्र नेष्यते ।मुखं पद्ममिवेत्यत्र किं साध्यं किं च साधनम् ॥५६॥इति प्रयोगस्य यथा कलावपि भवानिह ।श्रेयान्वृद्धानुशिष्टत्वात्पूर्वे कृतयुगे यथा ॥५७॥यत्र दृष्टान्तमात्रेण व्यज्येते साध्यसाधने ।तमाहुः शुद्धदृष्टान्तं तन्मात्राविष्कृतेर्यथा ॥५८॥भरतस्त्वं दिलीपस्त्वं त्वमेवैलः पुरूरवाः ।त्वमेव वीर प्रद्युम्नस्त्वमेव नरवाहनः ॥५९॥कथमेकपदेनैव व्यजेरन्नस्य ते गुणाः ।इति प्रयुञ्जते सन्तः केचिद्विस्तरभीरवः ॥६०॥पदमेकं वरं साधु नार्वाचीननिबन्धनम् ।वैपरीत्याद्विपर्यासं कीर्तेरपि करोति तत् ॥६१॥अहृद्यमसुनिर्भेदं रसवत्त्वेऽप्यपेशलम् ।काव्यं कपित्थमामं यत्केषांचित्तादृशं यथा ॥६२॥प्रजाजनश्रेष्ठवरिष्ठभूभृच्- छिरोर्चितांघ्रेः पृथुकीर्तिधिष्ण्य ।अहिघ्नपद्मस्य जलारिधाम्नस्तवैव नान्यस्य सुतस्य वृत्तम् ॥६३॥अंशुमद्भिश्च मणिभिः फलनिम्नैश्च शाखिभिः ।फुल्लैश्च कुसुमैरन्ये वाचोऽलंकुर्वते यथा ॥६४॥शुभमरकतपद्मरागचित्रे सफलसपल्लवभूरिचारुवृक्षे ।बहुकुसुमविभूषिते स तस्थौ सुरमुनिसिद्धयुते सुमेरुपृष्ठे ॥६५॥तदेभिरङ्गैर्भूष्यन्ते भूषणोपवनस्रजः ।वाचां वक्रार्थशब्दोक्तिरलंकाराय कल्पते ॥६६॥विरुद्धपदमस्वर्थं बहुपूरणमाकुलम् ।कुर्वन्ति काव्यमपरे व्यायताभीप्सया यथा ॥६७॥एलातक्कोलनागस्फुटबकुललताचन्दनस्पन्दनाढ्यो मुक्ताकर्पूरचक्रागरुकमनशिलास्थासकव्याप्ततीरः ।शङ्खव्राताकुलोऽन्तस्तिमिमकरकुलाकीर्णवीचीप्रतानो दध्रे यस्याम्बुराशिः शशिकुमुदसुधाक्षीरशुद्धां सुकीर्तिम् ॥६८॥इति निगदितास्तास्ता वाचामलङ्कृतयो मया बहुविधकृतीर्दृष्ट्वान्येषां स्वयं परितर्क्य च ।प्रथितवचसः सन्तोऽभिज्ञाः प्रमाणमिहापरे गुरुतरधियामस्वाराधं मनोऽकृतबुद्धिभिः ॥६९॥इति भामहालंकारे पञ्चमः परिच्छेदः N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP