संस्कृत सूची|संस्कृत साहित्य|काव्यालङ्कारः| तृतीयः परिच्छेदः काव्यालङ्कारः प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः काव्यालङ्कारः - तृतीयः परिच्छेदः काव्यालङ्कारः Tags : poemsanskritकाव्यसंस्कृत काव्यालङ्कारः Translation - भाषांतर प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम् ।द्विप्रकारमुदात्तं च भेदैः श्लिष्टमपि त्रिभिः ॥१॥अपह्नुतिं विशेषोक्तं विरोधं तुल्ययोगिताम् ।अप्रस्तुतप्रशंसां च व्याजस्तुतिनिदर्शने ॥२॥उपमारूपकं चान्यदुपमेयोपमामपि ।सहोक्तिपरिवृत्ती च ससंदेहमनन्वयम् ॥३॥उत्प्रेक्षावयवं चान्ये संसृष्टिमपि चापरे ।भाविकत्वं च निजगुरलंकारं सुमेधसः ॥४॥प्रेयो गृहागतं कृष्णं अवादीद्विदुरो यथा ।अद्य या मम गोविन्द जाता त्वयि गृहागते ।कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥५॥रसवद्दर्शितस्पष्ट- शृङ्गारादिरसं यथा ।देवी समागमद्धर्म मस्करिण्यतिरोहिता ॥६॥ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागतः ।द्विः सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः ॥७॥पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते ।उवाच रत्नाहरणे चैद्यं शार्ङ्गधनुर्यथा ॥८॥गृहेष्वध्वसु वा नान्नं भुञ्ज्महे यदधीतिनः ।न भुञ्जते द्विजास्तच्च रसदाननिवृत्तये ॥९॥समाहितं राजमित्रे यथा क्षत्रिययोषिताम् ।रामप्रसत्त्यै यान्तीनां पुरोऽदृश्यत नारदः ॥१०॥उदात्तं शक्तिमान्रामो गुरुवाक्यानुरोधकः ।विहायोपनतं राज्यं यथा वनमुपागतम् ॥११॥एतदेवापरेऽन्येन व्याख्यानेनान्यथा विदुः ।नानारत्नादियुक्तं यत्तत्किलोदात्तमुच्यते ॥१२॥चाणक्यो नक्तमुपयान्नन्दक्रीडागृहं यथा ।शशिकान्तोपलच्छन्नं विवेद पयसां कणैः ॥१३॥उपमानेन यत्तत्त्वं उपमेयस्य साध्यते ।गुणक्रियाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ॥१४॥लक्षणं रूपकेऽपीदं लक्ष्यते काममत्र तु ।इष्टः प्रयोगो युगपदुपमानोपमेययोः ॥१५॥शीकराम्भोमदसृजस्तुङ्गा जलददन्तिनः ।इत्यत्र मेघकरिणां निर्देशः क्रियते समम् ॥१६॥श्लेषादेवार्थवचसोरस्य च क्रियते भिदा ।तत्सहोक्त्युपमाहेतु- निर्देशात्त्रिविधं यथा ॥१७॥छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥१८॥उन्नता लोकदयिता महान्तः प्राज्यवर्षिणः ।शमयन्ति क्षितेस्तापं सुराजानो घना इव ॥१९॥रत्नवत्त्वादगाधत्वात्स्वमर्यादाविलङ्घनात् ।बहुसत्त्वाश्रयत्वाच्च सदृशस्त्वमुदन्वता ॥२०॥अपह्नुतिरभीष्टा च किंचिदन्तर्गतोपमा ।भूतार्थापह्नवादस्याः क्रियते चाभिधा यथा ॥२१॥नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः ।अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥२२॥एकदेशस्य विगमे या गुणान्तरसंस्थितिः ।विशेषप्रथनायासौ विशेषोक्तिर्मता यथा ॥२३॥स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥२४॥गुणस्य वा क्रियाया वा विरुद्धान्यक्रियाभिधा ।या विशेषाभिधानाय विरोधं तं विदुर्बुधाः ॥२५॥उपान्तरूढोपवनच्- छायाशीतापि धूरसौ ।विदूरदेशानपि वः सन्तापयति विद्विषः ॥२६॥न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया ।तुल्यकार्यक्रियायोगादित्युक्ता तुल्ययोगिता ॥२७॥शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः ।यदलङ्घितमर्यादाश्चलन्तीं बिभृथ क्षितिम् ॥२८॥अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ।अप्रस्तुतप्रशंसेति सा चैवं कथ्यते यथा ॥२९॥प्रीणितप्रणयि स्वादु काले परिणतं बहु ।विना पुरुषकारेण फलं पश्यत शाखिनाम् ॥३०॥दूराधिकगुणस्तोत्र- व्यपदेशेन तुल्यताम् ।किंचिद्विधित्सोर्या निन्दा व्याजस्तुतिरसौ यथा ॥३१॥रामः सप्ताभिनत्सालान्गिरिं क्रौञ्चं भृगूत्तमः ।शतांशेनापि भवता किं तयोः सदृशं कृतम् ॥३२॥क्रिययैव विशिष्टस्य तदर्थस्योपदर्शनात् ।ज्ञेया निदर्शना नाम यथेववतिभिर्विना ॥३३॥अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥३४॥उपमानेन तद्भावं उपमेयस्य साधयन् ।यां वदत्युपमामेतदुपमारूपकं यथा ॥३५॥समग्रगगनायाम- मानदण्डो रथाङ्गिनः ।पादो जयति सिद्धस्त्री- मुखेन्दुनवदर्पणः ॥३६॥उपमानोपमेयत्वं यत्र पर्यायतो भवेत् ।उपमेयोपमां नाम ब्रुवते तां यथोदितम् ॥३७॥सुगन्धि नयनानन्दि मदिरामदपाटलम् ।अम्भोजमिव वक्त्रं ते त्वदास्यमिव पङ्कजम् ॥३८॥तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रये ।पदेनैकेन कथ्यते सहोक्तिः सा मता यथा ॥३९॥हिमपाताविलदिशो गाढालिङ्गनहेतवः ।वृद्धिमायान्ति यामिन्यः कामिनां प्रीतिभिः सह ॥४०॥विशिष्टस्य यदादानं अन्यापोहेन वस्तुनः ।अर्थान्तरन्यासवती परिवृत्तिरसौ यथा ॥४१॥प्रदाय वित्तमर्थिभ्यः स यशोधनमाअदित ।सतां विश्वजनीनानां इदमस्खलितं व्रतम् ॥४२॥उपमानेन तत्त्वं च भेदं च वदतः पुनः ।ससन्देहं वचः स्तुत्यै ससन्देहं विदुर्यथा ॥४३॥किमयं शशी न स दिवा विराजते कुसुमायुधो न धनुरस्य कौसुमम् ।इति विस्मयाद्विमृशतोऽपि मे मतिस्त्वयि वीक्षते न लभतेऽर्थनिश्चयम् ॥४४॥यत्र तेनैव तस्य स्यादुपमानोपमेयता ।असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥४५॥ताम्बूलरागवलयं स्फुरद्दशनदीधिति ।इन्दीवराभनयनं तवेव वदनं तव ॥४६॥श्लिष्टस्यार्थेन संयुक्तः किंचिदुत्प्रेक्षयान्वितः ।रूपकार्थेन च पुनरुत्प्रेक्षावयवो यथा ॥४७॥तुल्योदयावसानत्वाद्गतेऽस्तं प्रति भास्वति ।वासाय वासरः क्लान्तो विशतीव तमोगृहम् ॥४८॥वरा विभूषा संसृष्टिर्बह्वलङ्कारयोगतः ।रचिता रत्नमालेव सा चैवमुदिता यथा ॥४९॥गाम्भीर्यलावण्यवतोर्युवयोः प्राज्यरत्नयोः ।सुखसेव्यो जनानां त्वं दुष्टग्राहोऽम्भसां पतिः ॥५०॥अनलङ्कृतकान्तं ते वदनं वनजद्युति ।निशाकृतः प्रकृत्यैव चारोः का वास्त्यलङ्कृतिः ॥५१॥अन्येषामपि कर्तव्या संसृष्टिरनया दिशा ।कियदुद्घट्टितज्ञेभ्यः शक्यं कथयितुं मया ॥५२॥भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् ।प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः ॥५३॥चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिनीतता ।शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते ॥५४॥आशीरपि च केषांचिदलङ्कारतया मता ।सौहृदय्याविरोधोक्तौ प्रयोगोऽस्याश्च तद्यथा ॥५५॥अस्मिञ् जहीहि सुहृदि प्रणयाभ्यसूयां आश्लिष्य गाढममुमानतमादरेण ।विन्ध्यं महानिव घनः समयेऽभिवर्षन्नानन्दजैर्नयनवारिभिरुक्षतु त्वाम् ॥५६॥मदान्धमातङ्गविभिन्नसाला हतप्रवीरा द्रुतभीतपौराः ।त्वत्तेजसा दग्धसमस्तशोभा द्विषां पुरः पश्यतु राजलोकः ॥५७॥गिरामलङ्कारविधिः सविस्तरः स्वयं विनिश्चित्य धिया मयोदितः ।अनेन वागर्थविदामलङ्कृता विभाति नारीव विदग्धमण्डना ॥५८॥इति भामहालङ्कारे तृतीयः परिच्छेदः N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP