संस्कृत सूची|संस्कृत साहित्य|काव्यालङ्कारः| द्वितीयः परिच्छेदः काव्यालङ्कारः प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः काव्यालङ्कारः - द्वितीयः परिच्छेदः काव्यालङ्कारः Tags : poemsanskritकाव्यसंस्कृत द्वितीयः परिच्छेदः Translation - भाषांतर माधुर्यमभिवाञ्छन्तः प्रसादं च सुमेधसः ।समासवन्ति भूयांसि न पदानि प्रयुञ्जते ॥१॥केचिदोजोऽभिधित्सन्तः समस्यन्ति बहून्यपि ।यथा मन्दारकुसुम- रेणुपिञ्जरितालका ॥२॥श्रव्यं नातिसमस्तार्थं काव्यं मधुरमिष्यते ।आविद्वदङ्गनाबाल- प्रतीतार्थं प्रसादवत् ॥३॥अनुप्रासः सयमको रूपकं दीपकोपमे ।इति वाचामलंकाराः पञ्चैवान्यैरुदाहृताः ॥४॥सरूपवर्णविन्यासं अनुप्रासं प्रचक्षते ।किं तया चिन्तया कान्ते नितान्तेति यथोदितम् ॥५॥ग्राम्यानुप्रासमन्यत्तु मन्यन्ते सुधियोऽपरे ।स लोलमालानीलालि- कुलाकुलगलो बलः ॥६॥नानार्थवन्तोऽनुप्रासा न चाप्यसदृशाक्षराः ।युक्त्यानया मध्यमया जायन्ते चारवो गिरः ॥७॥लाटीयमप्यनुप्रासं इहेच्छन्त्यपरे यथा ।दृष्टिं दृष्टिसुखां धेहि चन्द्रश्चन्द्रमुखोदितः ॥८॥आदिमध्यान्तयमकं पादाभ्यासं तथावली ।समस्तपादयमकं इत्येतत्पञ्चधोच्यते ॥९॥सन्दष्टकसमुद्गादेरत्रैवान्तर्गतिर्मता ।आदौ मध्यान्तयोर्वा स्यादिति पञ्चैव तद्यथा ॥१०॥साधुना साधुना तेन राजता राजता भृता ।सहितं सहितं कर्तुं संगतं संगतं जनम् ॥११॥साधुः संसाराद्बिभ्यदस्मादसारात्कृत्वा क्लेशान्तं याति वर्त्म प्रशान्तम् ।जातिं व्याधीनां दुर्दमानामधीनां वाञ्छञ्ज्यायस्त्वं छिन्धि मुक्तानयस्त्वम् ॥१२॥न ते धिर्धीर भोगेषु रमणीयेषु संगता ।मुनीनपि हरन्त्येते रमणी येषु संगता ॥१३॥सितासिताक्षीं सुपयोधराधरां सुसंमदां व्यक्तमदां ललामदाम् ।घनाघना नीलघना घनालकां प्रियामिमामुत्सुकयन्ति यन्ति च ॥१४॥अमी नृपा दत्तसमग्रशासनाः कदाचिदप्यप्रतिबद्धशासनाः ।कृतागसां मार्गभिदां च शासनाः पितृक्रमाध्यासिततादृशासनाः ॥१५॥अनन्तरैकान्तरयोरेवं पादान्तयोरपि ।कृत्स्नं च सर्वपादेषु दुष्करं साधु तादृशम् ॥१६॥तुल्यश्रुतीनां भिन्नानां अभिधेयैः परस्परम् ।वर्णानां यः पुनर्वादो यमकं तन्निगद्यते ॥१७॥प्रतीतशब्दमोजस्वि सुश्लिष्टपदसन्धि च ।प्रसादि स्वभिधानं च यमकं कृतिनां मतम् ॥१८॥नानाधात्वर्थगम्भीरा यमकव्यपदेशिनी ।प्रहेलिका सा ह्युदिता रामशर्माच्युतोत्तरे ॥१९॥काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत् ।उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ॥२०॥उपमानेन यत्तत्त्वं उपमेयस्य रूप्यते ।गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥२१॥समस्तवस्तुविषयं एकदेशविवर्ति च ।द्विधा रूपकमुद्दिष्टं एतत्तच्चोच्यते यथा ॥२२॥शीकराम्भोमदसृजस्तुङ्गा जलददन्तिनः ।निर्यान्तो मदयन्तीमे शक्रकार्मुकवारणाः ॥२३॥तडिद्वलयकक्ष्याणां बलाकामालभारिणाम् ।पयोमुचां ध्वनिर्धीरो दुनोति मम तां प्रियाम् ॥२४॥आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते ।एकस्यैव त्र्यवस्थत्वादिति तद्भिद्यते त्रिधा ॥२५॥अमूनि कुर्वतेऽन्वर्थां अस्याख्यामर्थदीपनात् ।त्रिभिर्निदर्शनैश्चेदं त्रिधा निर्दिश्यते यथा ॥२६॥मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम् ।स प्रियासंगमोत्कण्ठां सासह्यां मनसः शुचम् ॥२७॥मालिनीरंशुकभृतः स्त्रियोऽलंकुरुते मधुः ।हारीतशुकवाचश्च भूधराणामुपत्यकाः ॥२८॥चीरीमवतीररण्यानीः सरितः शुष्यदम्भसः ।प्रवासिनां च चेतांसि शुचिरन्तं निनीषति ॥२९॥विरुद्धेनोपमानेन देशकालक्रियादिभिः ।उपमेयस्य यत्साम्यं गुणलेशेन सोपमा ॥३०॥यथेवशब्दौ सादृश्यं आहतुर्व्यतिरेकिणोः ।दूर्वाकाण्डमिव श्यामं तन्वी श्यामालता यथा ॥३१॥विना यथेवशब्दाभ्यां समासाभिहिता परा ।यथा कमलपत्राक्षी शशाङ्कवदनेति च ॥३२॥वतिनापि क्रियासाम्यं तद्वदेवाभिधीयते ।द्विजातिवदधीतेऽसौ गुरुवच्चानुशास्ति नः ॥३३॥समानवस्तुन्यासेन प्रतिवस्तूपमोच्यते ।यथेवानभिधानेऽपि गुणसाम्यप्रतीतितः ॥३४॥साधुसाधारणत्वादिर्गुणोऽत्र व्यतिरिच्यते ।स साम्यमापादयति विरोधेऽपि तयोर्यथा ॥३५॥कियन्तः सन्ति गुणिनः साधुसाधारणश्रियः ।स्वादुपाकफलानम्राः कियन्तो वाध्वशाखिनः ॥३६॥यदुक्तं त्रिप्रकारत्वं तस्याः कैश्चिन्महात्मभिः ।निन्दाप्रशंसाचिख्यासा- भेदादत्राभिधीयते ॥३७॥सामान्यगुणनिर्देशात्त्रयमप्युदितं ननु ।मालोपमादिः सर्वोऽपि न ज्यायान्विस्तरो मुधा ॥३८॥हीनतासम्भवो लिङ्ग- वचोभेदो विपर्ययः ।उपमानाधिकत्वं च तेनासदृशतापि च ॥३९॥त एत उपमादोषाः सप्त मेधाविनोदिताः ।सोदाहरणलक्ष्माणो वर्ण्यन्तेऽत्र च ते पृथक् ॥४०॥स मारुताकम्पितपीतवासा बिभ्रत्सलीलं शशिभासमब्जम् ।यदुप्रवीरः प्रगृहीतशार्ङ्गः सेन्द्रायुधो मेघ इवाबभासे ॥४१॥शक्रचापग्रहादत्र दर्शितं किल कार्मुकम् ।वासःशङ्खानुपादानाद्धीनमित्यभिधीयते ॥४२॥सर्वं सर्वेण सारूप्यं नास्ति भावस्य कस्यचित् ।यथोपपत्ति कृतिभिरुपमासु प्रयुज्यते ॥४३॥अखण्डमण्डलः क्वेन्दुः क्व कान्ताननमद्युति ।यत्किंचित्कान्तिसामान्याच्छशिनैवोपमीयते ॥४४॥किं च काव्यानि नेयानि लक्षणेन महात्मनाम् ।दृष्टं वा सर्वसारूप्यं राजमित्रे यथोदितम् ॥४५॥सूर्यांशसंमीलितलोचनेषु दीनेषु पद्मानिलनिर्मदेषु ।साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ॥४६॥निष्पेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः ।जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात् ॥४७॥शाकवर्धनस्यकथं पातोऽम्बुधाराणां ज्वलन्तीनां विवस्वतः ।असम्भवादयं युक्त्या तेनासम्भव उच्यते ॥४८॥तत्रासम्भविनार्थेन कः कुर्यादुपमां कृती ।को नाम वह्निनौपम्यं कुर्वीत शशलक्ष्मणः ॥४९॥यस्यातिशयवानर्थः कथं सोऽसम्भवो मतः ।इष्टं चातिशयार्थत्वं उपमोत्प्रेक्षयोर्यथा ॥५०॥पुञ्जीभूतमिव ध्वान्तं एष भाति मतङ्गजः ।सरः शरत्प्रसन्नाम्भो नभःखण्डमिवोज्झितम् ॥५१॥अथ लिङ्गवचोभेदावुच्येते सविपर्ययौ ।हीनाधिकत्वात्स द्वेधा त्रयमप्युच्यते यथा ॥५२॥अविगाह्योऽसि नारीणां अनन्यमनसामपि ।विषमोपलभिन्नोर्मिरापगेवोत्तितीर्षतः ॥५३॥क्वचिदग्रे प्रसरता क्वचिदापत्य निघ्नता ।शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥५४॥अयं पद्मासनासीनश्चक्रवाको विराजते ।युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥५५॥ननूपमीयते पाणिः कमलेन विकासिना ।अधरो विद्रुमच्छेद- भासा बिम्बफलेन च ॥५६॥उच्यते काममस्तीदं किं तु स्त्रीपुंसयोरयम् ।विधिर्नाभिमतोऽन्यैस्तु त्रयाणामपि नेष्यते ॥५७॥स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः ।शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥५८॥रामशर्मणःशशिनो ग्रहणादेतदाधिक्यं किल न ह्ययम् ।निर्दिष्ट उपमेयेऽर्थे वाच्यो वा जलजोऽत्र तु ॥५९॥न सर्वसारूप्यमिति विस्तरेणोदितो विधिः ।अभिप्रायात्कवेर्नात्र विधेया जलजे मतिः ॥६०॥आधिक्यमुपमानानां न्याय्यं नाधिकता भवेत् ।गोक्षीरकुन्दहलिनां विशुद्ध्या सदृशं यशः ॥६१॥एकेनैवोपमानेन ननु सादृश्यमुच्यते ।उक्तार्थस्य प्रयोगो हि गुरुमर्थं न पुष्यति ॥६२॥वनेऽथ तस्मिन्वनितानुयायिनः प्रवृत्तदानार्द्रकटा मतङ्गजाः ।विचित्रबर्हाभरणाश्च बर्हिणो बभुर्दिवीवामलविग्रहा ग्रहाः ॥६३॥ग्रहैरपि गजादीनां यदि सादृश्यमुच्यते ।तथापि तेषां तैरस्ति कान्तिर्वाप्युग्रतापि वा ॥६४॥इत्युक्त उपमाभेदो वक्ष्यते चापरः पुनः ।उपमादेरलंकाराद्विशेषोऽन्योऽभिधीयते ॥६५॥आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना ।समासातिशयोक्ती च षडलंकृतयोऽपराः ॥६६॥वक्ष्यमाणोक्तविषयस्तत्राक्षेपो द्विधा मतः ।एकरूपतया शेषा निर्देक्ष्यन्ते यथाक्रमम् ॥६७॥प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।आक्षेप इति तं सन्तः शंसन्ति द्विविधं यथा ॥६८॥अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः ।इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ॥६९॥स्वविक्रमाक्रान्तभुवश्चित्रं यन्न तवोद्धतिः ।को वा हेतुरलं सिन्धोर्विकारकरणं प्रति ॥७०॥उपन्यसनमन्यस्य यदर्थस्योदितादृते ।ज्ञेयः सोऽर्थान्तरन्यासः पूर्वार्थानुगतो यथा ॥७१॥परानीकानि भीमानि विविक्षोर्न तव व्यथा ।साधु वासाधु वागामि पुंसामात्मैव शंसति ॥७२॥हिशब्देनापि हेत्वर्थ- प्रथनादुक्तसिद्धये ।अयमर्थान्तरन्यासः सुतरां व्यज्यते यथा ॥७३॥वहन्ति गिरयो मेघानभ्युपेतान्गुरूनपि ।गरीयानेव हि गुरून्बिभर्ति प्रणयागतान् ॥७४॥उपमानवतोऽर्थस्य यद्विशेषनिदर्शनम् ।व्यतिरेकं तमिच्छन्ति विशेषापादनाद्यथा ॥७५॥सितासिते पक्ष्मवती नेत्रे ते ताम्रराजिनी ।एकान्तशुभ्रश्यामे तु पुण्डरीकासितोत्पले ॥७६॥क्रियायाः प्रतिषेधे या तत्फलस्य विभावना ।ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥७७॥अपीतमत्ताः शिखिनो दिशोऽनुत्कण्ठिताकुलाः ।नीपोऽविलिप्तसुरभिरभ्रष्टकलुषं जलम् ॥७८॥यत्रोक्ते गम्यतेऽन्योऽर्थस्तत्समानविशेषणः ।सा समासोक्तिरुद्दिष्टा संक्षिप्तार्थतया यथा ॥७९॥स्कन्धवानृजुरव्यालः स्थिरोऽनेकमहाफलः ।जातस्तरुरयं चोच्चैः पातितश्च नभस्वता ॥८०॥निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरम् ।मन्यन्तेऽतिशयोक्तिं तां अलङ्कारतया यथा ॥८१॥स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः ।अन्वमीयन्त भृङ्गालि- वाचा सप्तच्छदद्रुमाः ॥८२॥अपां यदि त्वक्छिथिला च्युता स्यात्फणिनामिव ।तदा शुक्लांशुकानि स्युरङ्गेष्वम्भसि योषिताम् ॥८३॥इत्येवमादिरुदिता गुणातिशययोगतः ।सर्वैवातिशयोक्तिस्तु तर्कयेत्तां यथागमम् ॥८४॥सैष सर्वैव वक्रोक्तिरनयार्थो विभाव्यते ।यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥८५॥हेतुश्च सूक्ष्मो लेशोऽथ नालंकारतया मतः ।समुदायाभिधानस्य वक्रोक्त्यनभिधानतः ॥८६॥गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ।इत्येवमादि किं काव्यं वार्तामेनां प्रचक्षते ॥८७॥यथासंख्यमथोत्प्रेक्षां अलङ्कारद्वयं विदुः ।संख्यानमिति मेधाविन्- ओत्प्रेक्षाभिहिता क्वचित् ॥८८॥भूयसामुपदिष्टानां अर्थानामसधर्मणाम् ।क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते ॥८९॥पद्मेन्दुभृङ्गमातङ्ग- पुंस्कोकिलकलापिनः ।वक्त्रकान्तीक्षणगति- वाणीवालैस्त्वया जिताः ॥९०॥अविवक्षितसामान्या किंचिच्चोपमया सह ।अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥९१॥किंशुकव्यपदेशेन तरुमारुह्य सर्वतः ।दग्धादग्धमरण्यान्याः पश्यतीव विभावसुः ॥९२॥स्वभावोक्तिरलङ्कार इति केचित्प्रचक्षते ।अर्थस्य तदवस्थत्वं स्वभावोऽभिहितो यथा ॥९३॥आक्रोशन्नाह्वयन्नन्यानाधावन्मण्डलै रुदन् ।गा वारयति दण्डेन डिम्भः सस्यावतारणीः ॥९४॥समासेनोदितमिदं धीखेदायैव विस्तरः ।असंगृहीतमप्यन्यदभ्यूह्यमनया दिशा ॥९५॥स्वयं कृतैरेव निदर्शनैरियं मया प्रक्ल्प्ता खलु वागलङ्कृतिः ।अतः परं चारुरनेकधापरो गिरामलङ्कारविधिर्विधास्यते ॥९६॥इति भामहालङ्कारे द्वितीयः परिच्छेदः N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP