संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमद्भगवद्गीतामाहात्म्यम्| श्रीवराहपुराणे श्रीगीतामाहात्म्यं श्रीमद्भगवद्गीतामाहात्म्यम् श्रीवराहपुराणे श्रीगीतामाहात्म्यं विषादयोगो नाम प्रथमोऽध्याय: सांख्ययोगो नाम द्वितीयोऽध्याय: श्रीवराहपुराणे श्रीगीतामाहात्म्यं श्रीवराहपुराणे श्रीगीतामाहात्म्यं Tags : gitaगीता श्रीवराहपुराणे श्रीगीतामाहात्म्यं Translation - भाषांतर श्रीगनेशाय नम: ॥ ॥ श्रीराधारमणाय नम: ॥ धरोवाच ॥ भगवन्परमेशान भक्तिरव्यभिचारिणी । प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो ॥१॥विष्णुरुवाच । प्रारब्धं भुज्यमानो हि गीताभ्यासरत: सदा । स मुक्त: स सुखी लोके कर्मणा नोपलिप्यते ॥२॥महापापादिपापानि गीताध्यानं करोति चेत् । क्वचित्स्पर्श न कुर्वंति नलिनिदलमंबुवत् ॥३॥गीताया: पुस्तकं यत्र यत्र पाठ: प्रवर्तते । तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै ॥४॥ सर्वे देवाश्च ऋषयो योगिन: पन्नगाश्च ये । गोपाला गोपिका वापि नारदोद्धवपार्षदै: ॥५॥सहायो जायते शीघ्रं यत्र गीता प्रवर्तते । यत्र गीताविचारश्च पठनं पाठनं श्रुतम् । तत्राहं निश्चितं पृथ्वि निवसामि सदैव हि ॥६॥गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् । गीताज्ञानमुपाश्रित्य त्रींल्लोकान् पालयाम्यहम् ॥७॥गीता मे परमा विद्या ब्रह्मरुपा न संशय: । अर्धमात्राक्षरा नित्या स्वानिर्वाच्यपदात्मिका ॥८॥चिदानंदेन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् । वेदत्रयी परानंदा तत्त्वार्थज्ञानसंय़ुता ॥९॥योऽष्टादशजपो नित्यं नरो निश्चलमानस: । ज्ञानसिद्धिं स लभते ततो याति परं पदम् ॥१०॥पाठेऽसमर्थ: संपूर्णे ततोऽर्धं पाठमाचरेत् । तदा गोदानजं पुण्य़ं लभते नात्र संशय: ॥११॥त्रिभागं पठमानस्तु गंगास्नानफलं लभेत् । षडंशं जपमानस्तु सोमयागफलं लभेत् ॥१२॥एकाध्यायं तु यो नित्यं पठते भक्तिसंयुत: । रुद्रलोकमवाप्नोति गणो भूत्वा वसेच्चिरम् ॥१३॥अध्यायं श्लोकपादं वा नित्यं य: पठते नर: । स याति नरता यावन्मन्वंतरं वसुधरे ॥१४॥गीताया: श्लोकदशकं सप्त पंच चतुष्टयम् । द्वौ त्रीनेकं तदर्धं वा श्लोकानां य: पठेन्नर: ॥१५॥चंद्रलोकमवाप्नोति वर्षाणामयुतं ध्रुवम् । गीतापाठसमायुक्तो मृतो मानुषतां व्रजेत् ॥१६॥गीताभ्यासं पुन: कृत्वा लभते मुक्तिमुत्तमाम् । गीत्येत्युच्चारसंयुक्तो म्रियमाणो गतिं लभेत् ॥१७॥गीताश्रवणासक्तो महापापयुतोऽपि वा । वैकुंठं समवाप्नोति विष्णुना सह मोदते ॥१८॥गीतार्थं ध्यायते नित्यं क्रुत्वा कर्माणि भूरिश: । जीवन्मुक्त: स विज्ञेयो देहांते परमं पदम् ॥१९॥गीतामाश्रित्य बहवो भूभुजो जनकादय: । निर्धूतकल्मषा लोके गीता याता: परं पदम् ॥२०॥गीताया: पठनं कृत्वा माहात्म्यं नैव य: पठेत् । वृथा पाठो भवेत्तस्य श्रम एव ह्युदाहृत: ॥२१॥एतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति य: । स तत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात् ॥२२॥सूत उवाच । माहात्म्यमेतद्गीताया मया प्रोक्तं सनातनम् । गीतांते च पठेद्यस्तु यदुक्तं तत्फलं लभेत् ॥२३॥इति श्रीवराहपुराणे श्रीगीतामाहात्म्यं संपूर्णम् ॥ N/A References : N/A Last Updated : April 08, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP