अथ वाक्यारुष्ये दण्ड:

केशवपण्डितकृतम् धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम् ।


तल्लक्षणमाह नारद: -
देशजातिकुलादीनामाक्रोशन्यडंसंयुतम्‍ ।
यव्दच: प्रतिकूलार्थ वाक्पारुष्यं तदुच्यते ॥२७६॥
उच्चैर्भाषणमाक्रोश: । न्यडंमवद्यम्‍ तस्य च द्ण्डतारतत्मार्थ त्रैविध्यं तैनैवोक्तम्‍ ।
निष्टुराश्लीलतीव्रत्वात्तदापि त्रिविधं स्मृतम्‍ ।
गौरवानुक्रमात्तस्य द्ण्डोऽपि स्यात्क्रमादुरु: ॥२७७॥
साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यडंसंयुतम्‍ ।
पतनीयैरुपाक्रोशैस्तीव्रमाहुर्मनीषिण: ॥२७८॥
इति । तत्र धिड्‍ंमूर्खेत्यादि साक्षेपम्‍ । भगिनीगामिईत्यादि अश्लीलम्‍ ।
ब्रह्माहाऽसीत्यादि तीव्रम्‍ । तत्र निष्ठुराक्षेपे सवर्णविषये दण्ड: ।
सत्यासत्यान्यथास्तोत्रैर्न्युनाडेंन्द्रियरोगिणाम्‍ ।
क्षेपं करोति चेद्द्ण्डय: पणानर्धत्रयोदशान्‍ ॥२७९॥
स्त्यम्‍ ।नेत्रयुगलहीने एव अन्धोऽसीति तत्सत्यम्‍ ।
चक्षुष्मानेव अन्ध इत्युच्यते तदसत्यम्‍ ।
विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तोत्रम्‍ ।
एतैर्य: क्षेपं भर्त्सनं करोत्यसौ अर्धाधिकत्रयो दशपणान्दण्डय: ।
यदा पुन: पुत्रादयो मात्रादीन्‍ शपन्ति तेषां दण्डस्तेनैवोक्त: -
मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम्‍ ।
आक्षारयज्छतं दाप्य: पन्थानं चादददुरो: ॥२८०॥
अयं च द्ण्ड:  सापाराघेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्य: ।
अश्लीलापेक्षदण्डमाह । याज्ञवल्क्य: -
अभिगन्तासि भगिनीं मातरं वा तवेति ह ।
शपन्तं दापयेद्राजा पश्चविंशतिकं दमम्‍ ॥२८१॥
इदानीं विषमगुणेषु द्ण्डं प्रतिपादयति -
अर्धोऽधमेषु व्दिगुण: परस्त्रीषूत्तमेषु च ॥२८२॥
वर्णानामनुलोमानां च परस्पराक्षेपे द्ण्डमाह -
दण्डप्रणयनं कांर्य वर्णजात्युत्तराधरै: ॥२८३॥
वर्णा: ब्राह्मणाद्या: । जातयो मूर्धावसिक्तदय: ।
मूर्धावसिक्तं ब्राह्मणध्दीनं क्षत्रियादुत्कृष्टम्‍ चाकृश्य ब्राह्मण: क्षत्रियाक्षेपनिमित्तात्किंचिदधिकं दण्डमर्हति ।
मूर्धावसिक्ताम्बष्ठयो: परस्पराक्षेपे ब्राह्मणक्षत्रियदण्डवत्‍ ।
प्रातिलोम्यापवादेषु व्दिगुणत्रिगुणा दमा: ।
वर्णानामानुलोम्येन तस्मादर्धार्धहानित : ॥२८४॥
शतं ब्राह्मणमाकृश्य क्षत्रियो दण्डमर्हति ।
वैश्योऽप्यर्धशतं व्दे वा शूद्रस्तु वधमर्हति ॥२८५॥
वधं ताडनजिव्हाच्छेदनरुपम्‍ ।
पश्चाशद्राह्मणो दण्डय: क्षत्रियस्याभिशंसने ।
वैश्ये स्यादर्धपश्चाशच्छूदे व्दादशको दम: ॥२८६॥
एवं क्षत्रियस्य वैश्याक्रोशे वैश्यस्य शूद्राक्रोशे आनुलोम्येन चाऽऽक्रोशे ज्ञेयं पुनर्निष्ठुराक्षेपमधिकृत्याऽऽह -
बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दम: ।
शत्यस्तदर्धिक: पादनासाकर्णकरादिषु ॥२८७॥
वाचा प्रतिपादिते छिन्नघ्रीत्यादिरुपे प्रत्येकं विनाशे शत्य: शतपणरुप: ।
पादनासाकर्णकरादिषु तदर्ध: ।
अशक्तस्तु वदन्नेवं दण्डनीय: पणान्दश ।
तथा शक्त: प्रतिभुवं दाप्य: क्षेमाय तस्य तु ॥२८८॥
तीव्राक्रोशे दण्डमाह -
पतनीयै : कृते क्षेपे दण्डो मध्यमसाहस: ।
उपपातकयुक्ते तु दाप्य: प्रथमसाहसम्‍ ॥२८९॥
ब्रह्महाऽसि गोघ्रस्त्वमसीत्यादिरुप: ।
त्रैविद्यनृपदेवानां क्षेप उत्तमसाहस: ।
मध्यमो ज्ञातिपूगानां प्रथमो ग्रामदेशयो: ॥२९०॥
इति । अत्र विष्णुना विशेषोऽभिहित:  । अक्रोशयिता च विजिव्ह: ।
हीनवर्णोऽ‍धिकवर्णस्य जातिभ्रंशादिभिराक्रोशयिता जिव्हारहित: कार्य: ।
यथाऽऽह मनु: -
एकजार्तिर्व्दिजातींस्तु वाचा दारुण्या क्षिपन्‍ ।
जिव्हाया: प्राप्नुयाच्छेदं जघन्यप्रभवो हि स: ॥२९१॥
एकजातिग्रहणं क्षत्रियाद्युपलक्षणं जघन्यज इति हेतो: । अनृतभाषणे कात्यायन: -
अनृताक्षेपशीलानां जिव्हाच्छेदो विशोधनम्‍ ॥२९२॥
हारीतोऽपि । मिथ्यादूषिणां मेलकानां च राज्ञा जिव्हां छिन्द्यात्‍ ।
कचिदपवाद माहोशना-
मोहात्प्रमदात्संहर्षात्प्रीत्या वोक्तं मयेति य: ।
नाहमेवं पुनर्वक्ष्ये दण्डार्ध तस्य कल्पयेत्‍ ॥२९३॥
इति । विष्णु: । वेदोदाहर्ता च वेदोदाहरणान्वित: ।
आक्रोशकस्तु विप्राणां जिव्हाच्छेदेन दण्डयताम्‍ ॥२९४॥
इति बार्हस्पत्यात्‍ । विष्णु: ।
दर्पेण धर्मोपदेशकारिणां राजा तप्तमासेचयेत्तैलमास्ये ।
दर्पेण विद्यागर्वेण । यथाऽऽह मनु: -
धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वत: ।
तप्तमासेचयेतैलं वक्त्रे श्रोत्रे च पार्थिव: ॥२९५॥
गौतमोऽपि ।
अथास्य वेदमुपश्रुश्रृण्वतस्त्रपुजतुभ्यां श्रोत्रपूरीणमुदाहरणे जिव्हाच्छेदो धारणे शरीरभेद इति ।
एतच्च दर्पेण साक्षात्‍ श्रवणे वेदितव्यम्‍ । विष्णु: ।
च नामजातिग्रहणे दशाडुलोऽस्य शंडुंर्निखेयो मुखे तथाऽऽह मनु: -
नामजातिग्रहं तेषामभिद्रोहेण कुर्वत: ।
निधेयोऽयोमथ: शडंर्ज्वलन्नस्ये दशाडुंल: ॥२९६॥
द्रोहेण ईर्ष्यातिशयेन अरे डित्थायप्ररविप्रेत्याद्यधिकवर्णनामजातिग्रहणं कुर्वत: ।
हीनवर्णाक्रोशे उत्तमस्य दण्डमाह विष्णु: । हीनवर्णाक्रोशने षट्‍ ।इदमपि सगुणपरम्‍ । निर्गुणाक्षेपे तु न दण्ड: ।
गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात्‍ ॥२९७॥
इति बार्हस्पत्यात्‍ ।
॥इति वाक्पारुष्यम्‍ ॥

N/A

References : N/A
Last Updated : February 01, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP