संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|दण्डनीतिः| अथ स्त्रीसंग्रहणरुपे पारदार्ये दण्ड: दण्डनीतिः विषयानुक्रमणिका अथ हिंसायां दण्डनिरुपणम् । अथ व्यवहारदर्शनकलमाह कात्यायन: अथ चौर्यदण्ड: अथ स्त्रीसंग्रहणरुपे पारदार्ये दण्ड: अथ वाक्यारुष्ये दण्ड: अथ दण्डपारुष्ये दण्ड: अथ केवलसाहसे दण्ड: अथ स्त्रीसंग्रहणरुपे पारदार्ये दण्ड: केशवपण्डितकृतम् धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम् । Tags : dandnitikeshav panditsanskritकेशव पण्डितदण्डनीतिसंस्कृत अथ स्त्रीसंग्रहणरुपे पारदार्ये दण्ड: । Translation - भाषांतर तत्स्वरुप व्यासेन विवृतम् ।त्रिविधं तत्समाख्यातं प्रथमं[ मध्यमोत्तमम् ॥अदेशकालसंभाषा निर्जनेच परस्त्रिया: ।कटाक्षावेक्षणं हास्यं प्रथमं ] साहसं स्मृतम् ॥१९१॥प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ।प्रलोभनं चात्रपानैर्मध्यमं साहसं स्मृतम् ॥१९२॥सहासनं विविक्ते तु परस्परसमाश्रय: ।केशाकेशिग्रहश्चैव सम्यक् संग्रहणं स्मृतम् ॥१९३॥बृहस्पतिरपि -पापमूलं संग्रहणं त्रिप्रकारं निबोधत ।बलोपाधिकृते व्दे तु तृतीयमनुरागजम् ॥१९४॥अनिच्छन्त्या यत्क्रियते मत्तोन्मत्तप्रमत्तया ।प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत् ॥१९५॥छद्मना गृहमानीय दत्त्वाऽस्यै मदकारणम् ।संयोग: क्रियते यत्र तत्तूपाधिकृतं विदु: ॥१९६॥अन्योन्यचक्षूरागेण दूतीसंप्रेषणेन च ।कृतं लोभार्थरुपेण[रुपार्थलोभेन ] ज्ञेयं तदनुरागजम् ॥१९७॥तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमोत्तमम् ॥१९८॥अनुरागजमिति शेष: ।अपाडंप्रेषणं हास्यं दूतीसंप्रेषणं तथा ।स्पर्शो भूषणवस्त्राणां प्रथम: संग्रह: स्मृत: ॥१९९॥प्रेषणं गन्धमाल्यानां फलमद्यान्नवाससाम् ।संभाषणं च रहसि मध्यमं संग्रहं विदु: ॥२००॥एकशय्यासनं क्रीडा चुम्बनालिडंनं तथा ।एतत्संग्रहणं प्रोक्तमुत्तमं शास्त्रवेदिभि: ॥२०१॥इति । स्त्रीपुंसयोर्मिथुनीभाव: संग्रहणम् । ज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानाय तज्ज्ञानोपायमाह-पुमान्संग्रहणे ग्राह्य: केशाकेशि परस्त्रिया ।सद्यो वा कामजैश्चिन्है: प्रतिपत्तौ व्दयोस्तथा ॥२०२॥परभार्यया सह केशाकेशिक्रीडनेनाभिनवै: कररुहक्रीडनदशनादिकृतव्रणै: रागकृतैर्लिडैंर्व्दयो: संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्य : । किं च --नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् ।अदेशकालसंभाषं सहैकस्थानमेव च ॥२०३॥एतच्च शड्ंक्यमानपुरुषविषयमितरस्य तु न दोष: । यथाऽऽह मनु: -यस्त्वनक्षरित: पूर्वमभिभाषेत कारणात् ।न दोषं प्राप्नुयात्किंचित्र हि तस्य व्यतिक्रम: ॥२०४॥इति । य: परस्त्रिया स्पृष्ट: क्षमते असावपि ग्राह्य: । तेनैवोक्तम् ।स्त्रियं स्पृशेददेशे य: स्पृष्टो वा मर्षयेत्तथा ।परस्परस्यानुमते सर्व संग्रहणं स्मृतम् ॥२०५॥यश्च मयेयमसकृद्भुक्तेति वदति सोऽपि ग्राह्य: ।दर्पाव्दा यदि वा मोहात् श्लाघया वा स्वयं वदेत् ।पूर्व मयेयं भुक्तेति तच्च संग्रहणं स्मृतम् ॥२०६॥पित्रदिभि: परस्परसंभाषणनिषेधे कृते सति पुन: संल्लापादिकरणे दण्डमाह -स्त्रीनिषेधे शतं दद्यादूव्दिशतं तु दमं पुमान् ।प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥२०७॥एतच्चारणादिभार्याव्यतिरेकेण -नैष चारणदारेषु विधिर्नात्मोपजीविषु ।सज्जयन्ति हि ते नारीं निगूढाश्चारयन्ति च ॥२०८॥इति मनुस्मरणात् । तमिदानीं संग्रहणे दण्डमाह -सजातावुत्तमो दण्ड अनुलोम्ये तु मध्यम: ।प्रातिलोम्ये वध: पुंसो नार्या: कर्णादिकर्तनम् ॥२०९॥चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरदारगमने उत्तमसाहसम् । आनुलोम्येन हीनवर्णा स्त्रियमनगुप्तामभिगच्छति तदा मानवे विशेष: -सहस्रं ब्राह्मणे दण्डयो गुप्तां विप्रां बलादूव्रजन् ।शतानि पश्च दण्डय: स्यादिछन्त्या सह संगत: ॥२१०॥सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।शूद्रायां क्षत्रियविशो: सहस्रं तु भवेद्दम: ॥२११॥साहसरुपस्त्रीसंग्रहणस्य ज्ञानोपायं तत्र द्ण्डं चाऽऽह संवर्त: -नेच्छन्त्या यानि चिन्हानि बलात्कारकृतानि च ।परपुंस: प्रसड्ंगेषु नारीणां तानि सर्वत: ॥२१२॥नखदन्तक्षता क्षामा सकचग्रहविक्षता ।सद्यो विश्वासिता नारी वलात्कारेण दूषिता ॥२१३॥उच्चैर्विक्रोशयन्ती च रुद्र्न्ती लोकसन्निधौ ।तस्य नाम्ना वदन्ती च यथाऽहं तेन दूषिता ॥२१४॥शोचेदेवं विधैर्लिड्ंर्व्रणीकृतपयोधरा ।चिन्हालंकारकेशैश्च व्यांकुलीकृतलोचना ॥२१५॥राज्ञा सभ्यै: सभां नीत्वा स्वयमन्विष्य तत्क्षणात् ।यद्ब्रुयात्सहजं तत्र तत्कर्तव्यं प्रयत्नत: ॥२१६॥विवादे साक्षिणामात्र प्रकुर्वीत परिग्रहम् ।प्रार्थनादभिशस्तस्य न दण्डं दातुमर्हति ॥२१७॥इति । या यद्ब्रुयाव्दधहस्तच्छेदादिकं स एव दण्ड इत्यर्थ: ।सहसा कामयेद्यस्तु धनं तस्याखिलं हरेत् ।उत्कृत्य लिडंवृषणौ भ्रामयेद्रर्दभेण तु ॥२१८॥इति । सहसा दर्पेण कामयेद्रच्छेत् । अयं च धनदण्डो न स्त्रीमात्रसाधारण: किं तु गुरुभार्यादिव्यतिरेकेण द्रष्टव्य: -माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥२१९॥दुहिताचार्यभार्या च सगोत्रा शरणागता ।राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥२२०॥आसामन्यतमां गत्वा गुरुतल्पग उच्यते ।शिश्रस्योत्कर्तनं दण्डो नान्यस्तत्र विधीयते ॥२२१॥इति नारदस्मरणात् । अयं च द्ण्डो न ब्राह्मणस्य -परदारभिमर्शेषु प्रवृत्तं तु महीपति: ।उव्देजनकरैर्दण्डैश्चिहयित्वा प्रवासयेत् ॥२२२॥अब्राह्मण: संग्रहणे प्राणान्तं च वधमर्हतीति ब्राह्मणाधिकारे बृहस्पतिवचनात् । शड्रंखलिखितौ । येन येनाड्रेंनापराधं कुर्यात्तत्तदस्य च्छेत्तव्यमन्यत्र ब्राह्मणात् । प्रातिलोम्येनोत्कृष्टवर्णस्त्रीगमने क्षत्रियादर्वेध: । वसिष्ठ: । राजन्यश्चेद्राह्मणीमभिगच्छेरपत्रैर्वेष्टयित्वा राजन्यमग्रौ प्रास्येत् । एवं वैश्यो राजन्यां मैथुनमाचरञ्छूद्रस्तु राजन्यवैश्ययोरिति । ब्राह्मण्यादीनां शूद्रादिगमने दण्डमाह यम: ।वृषलं सेवते या तु ब्राह्मणी मदमोहिता ।तां श्वभि: खादयेद्राजा संस्थाने वध्यधातिनाम् ॥२२३॥वैश्यं वा क्षत्रियं वाऽपि ब्राह्मणी सेवते तु या ॥शिरसो मुण्डनं तस्या: प्रयाणं गर्दभेण तु ॥२२४॥बृहस्पति : -गृहमागत्य या नारी प्रलोभ्य स्पर्शनादिना ।कारयेत्तत्र सा दण्डया स तस्या हि दम: स्मृत: ॥२२५॥छिन्ननासोष्ठकर्ण तु पुरे भ्राम्याप्सु मज्जयेत् ॥२२६॥इति । एतत्तु गुप्ताविषयम् । अन्यत्र धनदण्ड: । ब्राह्मणीं यद्यगुप्तां तु सेवेतां वैश्यपार्थिवौ ।वैश्यं पश्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥२१७॥इति मानवात् ।उभावपि तु तावेव ब्राह्मण्या गुप्तयासह ।विपुलतौ शूद्रवद्दण्डयौ दग्धव्यौ वा कटान्निना ॥२२८॥शूद्रस्य तु पुनरगुप्तामुत्कृष्टवर्णा व्रजतो लिडंच्छेदसर्बस्वापहरौ गुप्तां तु वज्रतो वधसर्वस्वापहाराविति तेनैवोक्तम् ।शूद्रो गुप्तमगुप्तं वा व्दैजातं वर्णमाविशन् ।अगुप्तमडंसर्वस्वैर्गुप्ते सर्वेण हीयते ॥२२९॥नार्या: पुनर्हिनवर्णं वज्रन्त्या: कर्णनासाकर्तनम् । आनुलोम्येन सवर्ण व्रजन्त्या दण्ड: कल्प्य: । अयं दण्डाद्युपदेशो राज्ञ एव । तस्यैव पालनाद्यधिकारात् ।यदा तु राज्ञो निवेदने विलम्बेन कार्यातिपातशडांतदा स्वयमेव जारादीन्हन्यात् । तदाह मनु: -शस्त्रं व्दिजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते ।व्दिजातीनां च वर्णानां विपलवे कालकारिते ॥२३०॥आत्मनश्च परित्राणे दक्षिणानां च संगरे ।स्त्रीवित्ताभ्युपपत्तौ च घ्रन्धर्मेण न दुष्यति ॥२३१॥अत्र व्दिजातिपदं ब्राह्मणवैश्यपरम् ।ब्राह्मणार्थ गवार्थं च वर्णानां वाऽपि संकरे ।गृहीयातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे ॥२३२॥इति बौधायन: । क्षत्रियस्य तन्नित्यम् । परीक्षार्थमपि ब्राह्मण आयुधं नाऽऽददीतेत्यापस्तम्बीयम् । हास्यार्थमपि आयुधं नाऽऽददीतेति बौधायनीयं च धमोंपरोधादिभिन्नविषयम् । याज्ञवल्क्योऽपि ।आततायिनमायान्तं हन्यादेवाविचारयन् ॥२३३॥नाततायिवधे दोषो हन्तुर्भवति कश्चन ।प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥२३४॥अग्रिदो गरदश्चैव शस्त्रपाणिर्धनापह: ।क्षेत्रदारापहारी च षडेते आततायिन: ॥२३५॥इति । तथा क्षत्रियवैश्ययोरन्योन्यस्त्र्यभिगमने यथाक्रमं सहस्रपश्चशतपणात्मकौ दण्डौ । तदाह मनु: -वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हत: ॥२३६॥क्षत्रियायामगुप्तायां वैश्ये पश्चशतं दम: ।मूत्रेण मौण्ड्यमान्विच्छेत्क्षत्रियो दण्डमेव वा ॥२३७॥कन्यादूषणे दण्डमाह नारद: -दूषणे तु करच्छेद उत्तमे तु वधस्तथा ॥२३८॥यद्यकामां कन्यां बलात्कारेण नखक्षतादिना दूषयति तदाऽस्य करच्छेत्तव्य: । यदा तामेव अड्ंगुलीप्रक्षेपेण योनिं क्षतवतीं करोति तत्र विशेषमाह मनु: -अभिषह्य तु य: कन्यां कुर्याद्दर्पेण मानव: ।तस्याऽऽशु कर्त्ये अडंल्यौ दण्डं चार्हसि षट्शतम् ॥२३९॥यदा सानुरागां पूर्ववद्दूषयति तत्र तेनैवोक्तम् -सकामां दूषयानस्तु नाडुंलिच्छेदमर्हति ।व्दिशतं तु दमं दाप्य: प्रसडंविनिवृत्तये ॥२४०॥यदा तु कन्यैव कन्यां दूषयति विदग्धा वा तत्रापि तेनैवोक्तम् -कन्यैव कन्यां या कुर्यात्तस्यास्तु व्दिशतो दम: ॥२४१॥या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्ंयमर्हति ॥२४२॥यदा पुनरुत्कष्टजातीयां कन्यां सानुरागामकामां वाऽधिगच्छति तदा हीनस्य क्षत्रियादेर्वध: । यदा सवर्णा सकामामभिगच्छति तदा मिथुनं शुल्कं पित्रे दद्याद्यदीच्छति । पितर्यनिच्छति तदा राज्ञे दण्डरुपेण दद्यात्सवर्णामकामां गच्छतो वध एव ।शुल्कं दद्यात्सेवमान: समाभिच्छेत्पिता यदि ॥२४३॥योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति ।सकामां दूषयेत्तुल्यो न वधं प्राप्नुयान्नर: ॥२४४॥किं च -शंत स्त्रीदूषणे दद्याद्व्दे तु मिथ्याभिशंसने ।पशून्गच्छन् शंत दाप्यो हीनस्त्रीं गां च मध्यमम् ॥२४५॥स्त्रीशब्देनात्र कन्या गृह्यते ।बलात्कारेण साधारणस्त्रीगमने दण्डमाह -अप्रयच्छंस्तथा शुल्कमनुभूय पुमान् स्त्रियम् ॥२४६॥आक्रमेण च संगच्छन्घातदन्तनखादिभि: ॥२४७॥अयोनौ वाऽपि गच्छेद्यो बहुभिर्वाऽपि वासयेत् ।शुल्कमष्टगुणं दाप्यो विनयं तावदेव तु ॥२४८॥वेश्या: प्रधाना यास्तत्र कामुकास्तद्रहोषिता: ।तत्समुत्थेषु कार्येषु निर्णयं संशये विदु: ॥२४९॥यस्तु स्वयोषादावति वर्तते तत्राऽऽह -अयोनौ गच्छतो योषां पुरुषं वाऽपि मेहत: ।चतुर्विशतिको दण्डस्तथा प्रव्रजितागमे ॥२५०॥अन्त्याभिगमने त्वड्क्य: कुबन्धेन प्रवासयेत् ॥२५१॥इदं ब्राह्मणविषयम् । अन्त्यानामडिंरा: ।चाण्डाल: श्वपच: क्षत्ता सूतो वैदेहिकस्तथा ।मागधायोगवौ चैव सप्तैतेऽन्त्यावसायिन: ॥२५२॥संवर्त: -रजकश्चर्मकारश्च नटो बुरुड एव च ।कैवर्तमेदभिल्लश्च सप्तैते अन्त्यजा: स्मृता: ॥२५३॥शूद्रस्तथान्त्य एव स्यादन्त्यस्याऽऽर्यागमे वध: ॥२५४॥अवरुध्दासु दासीषु भुजिष्यासु तथैव च ।गम्यास्वपि पुमान्दाप्य: पश्चाशत्पणिकं दमम् ॥२५५॥उक्तलक्षणवर्णस्त्रियो दास्यस्ता एव स्वामिना पुरुषान्तरोपभोगतो निरुध्दा अवरुध्दा: पुरुषनियतपरिग्रहा भुजिष्या: । अपि शब्दाव्देश्यास्वैरिणीनां ग्रहणम् । तासू च पुरुषसाधारणतया गम्यस्वपि पश्चाशत्पणं दण्डनीय: । परप्रिगृहीतत्वेन परदारतुल्यत्वात् । एतत्स्पष्टमुक्तं नारदेन -स्वैरिण्यब्राम्हणी वेश्या दासी निष्कासिनी च या ।गम्या: स्युरानुलोम्येन स्त्रियो न प्रतिलोकमत: ॥२५६॥आस्वेव तु भुजिष्यासु दोष: स्यात्परदारवत् ।गम्यास्वपि हि नोपेयाद्यतस्ता: स परिग्रहा: ॥२५७॥धात्रीगमने परिचारकस्त्रीगमने च द्ण्डमाह कात्यायन : -बालधात्रीमधात्रीं च दासीमिव भुनक्ति य: ।परिचारकपत्नीं च प्राप्नुयात्पूर्वसाहसम् ॥२५८॥इति । व्यभिचरितस्त्रीगमने संवर्त: । मिताक्षरायाम् ।चतुर्थे स्वैरिणी प्रोक्ता पश्चमे बन्धकी मता ॥२५९॥इति । षट्त्रिंशन्मते -ब्राह्मणीं बन्धकीं गत्वा किंचिद्दत्त्वा व्दिजातये ।राजन्यां च धनुर्दद्याव्दैश्यं गत्वा तु चैलकम् ॥२६०॥शूद्रां गत्वा तु यो विप्र उदकुम्भं व्दिजातये ।दिवसोपोषितो वा स्याद्दधाव्दिप्राय भोजनम् ॥२६१॥इति । शक्तौ तु यम: -त्रिरात्रोपोषित: स्नात्वा दद्यात्संमार्जनीं तथा ॥२६२॥इति । गर्भोत्पतौ तूशना -गमने तु व्रतं यत्स्याद्रर्भे तु व्दिगुणं चरेत् व्दिगुणं चरेत् ॥२६३॥इति । संवर्त: -कथंचिद्राह्मणीं गच्छेत्क्षत्रियो वैश्य एव वा ।कृच्छ्रं सांतपनं कुर्यात्प्रायश्चित्तं विधीयते ॥२६४॥शूद्रस्तु ब्राह्मणीं गच्छेत्कथंचित्काममोहित: ।गोमूत्रयावकाहारो मासेनैकेन शुध्यति ॥२६५॥तदन्त्यजव्यभिचारिब्राह्मणीविषयम् । अन्त्यजागमने संवर्त: -रजकव्याधभैलूषवेणुचर्मोपजीविनी ।एतास्तु ब्राह्मणो गत्वा चरेच्चान्द्रायणव्दयम् ॥२६६॥इति । इदं ब्राह्मणस्याकामत: सकृद्रमनविषयम । क्षत्रियादीनां तु । पादहीनं कल्पनीयम् । अत्रैवापस्तम्बेनोक्तम् -म्लेच्छी नटी चर्मकारी रजकी बुरुडी तथा ।एतासु गमनं कृत्वा चरेच्चान्दायणद्व्यम् ॥२६७॥इति । अकामतस्तु गमने यथाऽऽहाऽऽपस्तम्ब :-चण्डालमेदश्वपचकपालव्रतचारिणाम् ।अकामत: स्त्रियो गत्वा पराकं व्रतमाचरेत् ॥२६८॥इति । शातातप: ।कैवतीं रजकीं चैव वेणुचर्मोपजीविनीम् ।प्रजापत्यविधानेन कृच्छ्रेणैकेन शुध्यति ॥२६९॥इति । तद्रेकत: सेकात्प्राड्ंनिवृत्तिविषयम् । उशना ।कापालिकान्न भोक्तृणां तन्नारीगामिनां तथा ।ज्ञात्वा कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दवव्दयम् ॥२७०॥इति । तदभ्यासविषयम् । यदा चण्डाल्यादिषु गच्छतो गर्भो भवति तदा ।चण्डाल्यां गर्भमारोप्य गुरुतल्पव्रतं चरेत् ॥२७१॥इत्युशनसोक्तं व्दादशवार्षिकं द्रष्टव्यम् । यत्तु -अन्त्यजायां प्रसूति: स्यान्निष्कृतिर्न विधीयते ।निर्वासनं कृताडंस्य तस्य कार्यमसंशयम् ॥२७२॥इत्यापस्तम्ब आह । तत्कामकारविषयम् । स्त्रीणामापि सवर्णानुलोमव्यवाये यत्पुरुषस्योक्तं त्रैवार्षिकादि तदेव भवति ।यत्पुंस: परदारेषु तच्चैनां चारयेव्द्तम ॥२७३॥इति मनुवचनात् । ब्राह्मण्या क्षत्रियवैश्यगमने दण्डमाह वसिष्ठ: । ब्राह्मण्या: शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्रां खरमारोप्य महापथमनुव्राजयेत् । पूता भवतीति विज्ञायते । एवं वैश्याया: क्षत्रियगमने शूद्रायाश्च वैश्यक्षत्रियगमने ज्ञेयम् । महापथो राजमार्ग: । राजमार्गपरिव्राजनमेव दण्ड: । प्रायश्चित्तं तु भिन्नमिति । विधवायास्तु असकृद्व्यभिचारे धृतावसिक्ताया गोमयाग्रिना दाह: । इति चतुर्विशति मतात् । तथाऽऽहोशना -अन्त्यजेन तु संपर्के भोजने मैथुने कृते ।प्रविशेत्संप्रदीप्तेऽग्रौ मृत्युनाऽऽशु विशुध्यति ॥२७४॥इति । यदा प्रायश्चित्तं न करोति तदा पुंलिडेंनाकंनीया वध्या वा भवेत् ।हीनवर्णोपभुक्ता या साऽडंक्या वध्याऽथवा भवेत् ॥२७५॥इति पराशस्मरणात् । अनुक्तद्ण्डेषु पारदार्येषु प्रायश्चित्तलघुगुरुभावेन राजदण्ड: कल्पनीय इति दिक् ।॥ इति पारदार्यप्रकरणम् ॥ N/A References : N/A Last Updated : February 01, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP