संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीशिवराजाभिषेकप्रयोग: ।| व्दितीयेऽहनि श्रीशिवराजाभिषेकप्रयोग: । विधिमुहुर्तादि विचार प्रथमेऽहनि व्दितीयेऽहनि तृतीयेऽहनि चतुर्थेऽहनि पंचेमऽहनि षष्ठेऽहनि सप्तमेऽहनि अथ राजाभिषेकप्रयोग: ॥ शिवराजाभिषेकप्रयोग: - व्दितीयेऽहनि गागाभट्टकृत राजाभिषेकप्रयोग: । Tags : shivajiशिवाजी व्दितीयेऽहनि Translation - भाषांतर [ज्येष्ठ शु.७ रविवार शके १५९६: ३१मे १६७४]अस्मिनहनि करिष्यमाण ऐंद्रिशांत्यंगतया फलाहारं भूशय्यां ब्रह्मचर्य कुर्यात् ॥ ततो व्दितीयेऽहनि ऐंद्रीशांति: ।अथ ऐंद्रीशांतिप्रयोग: । यजमान: पूर्वेद्युरेकरात्रं शाकाहारो भुक्त्वा भूशय्याब्रह्मचर्य्य च कृत्वा देशकालौ संकीर्त्य करिष्यमाण राजाभिषेकांगत्वेन ऐंद्रीशांति करिष्ये । न ऋत्विग्वरणं कृतत्वात् आचार्य: सर्षपान् विकीर्य पंचगव्येन प्रोक्ष अम्बयो यंतीत्यष्टचेंन इन्द्रजुषस्वेति सप्तचेंन सूक्तेन अभिमंत्रितेनोदकेन मंडपं संभाराश्च प्रोक्षयेत् । स्वयं चाचामेत् । स्वस्त्ययनं तार्क्ष्यमित्यादि महाध्वजोच्छप्रयाणां तां पूजाण कुर्यात् । ततो मंडपं तोरणपुष्पादि भिरलंकुर्यात् । तत: कुंडे स्वगृह्योक्त विधिना अग्रि प्रतिष्ठाप्प । आज्यसंस्कारांतं कृत्वा चंदनकाष्टनिर्मितं श्रुवं समृज्यतेन श्रुचि व्दादशगृहीतं कृत्वा समास्त्वाग्र ऋतवो वर्धयान्विति पंचर्चेन सूक्तेन पूर्णाहुतिं हुत्वा श्रुवेणाज्याहुती: जुहुयात् । दिवस्पृथिव्या: पर्यत रिक्षाव्दनस्पतिभ्यो अध्योषधीभ्यो यत्र यत्र जातवेदा: संबभूव तथा । ततो नो अग्रे जुषप्राण एहि स्वाहा । अग्रि जातवेदसे दंड हुत्वा विभावसु स्वाहा । अग्रि इदं । आकूतिमिति तिसृभि: इद्रवरुणस्येत्येकया इन्द्रो राजा जगतश्चर्षणी नामधीत्येकया हुत्वा स्विष्टकृतादिद्दोमशेषं समाप्य । रात्रौ चतुष्पथे चतुर्हस्तं चतुरस्रं गोमयेनोपलिप्य तत्राग्रेयादिर्दिग्विदिक्षु मही द्यौरित्यादिभिश्चतुर: कलशान् संस्थाप्य । वरुणपूजंते तदग्रे वेदिकायां निर्लक्ष्म्यामिति चतुर्भि: मृत्तिकाघटितांश्चतुरो विनायका क्रमेण शालकटं सहितं कुष्माडराजपुत्रसहितं उत्सृतदेवयजनसहितं गणपतिरिति नाभि: चतुरो विनायकान् उशीरपत्रपुत्तलिकायां इंद्राणीं चावाह्य । नाममंत्रै: पूजयित्वा कलशमध्ये स्वस्तिके अनुडुहश्चर्मास्तीर्य । तत्र यजमानमुपविश्य स्वशाखोक्तं स्वस्तिवाचनं कृत्वा ।आखूत्कर नदीकूल कलाल गणिकां गणात् ।राजांगणात् पुरव्दाराव्दाल्मिकाच्च मृद: क्रमात् ॥१७६॥इति सप्तमृद: ।गोरोचनं गुग्गुलत्वं व्रीह्याद्यष्टादशैव तु ।पद्मरागं चेन्द्रनीलं प्रवालं मौक्तिकं तथा ॥१७७॥वैडुर्यमिति रत्नानि तथैव दधिसार्पिषी ।निधाय तत्र चालन्यां विभृयुस्तां तु ऋत्विज: ॥१७८॥यजमानशिरोदेशे गुरुस्तत्राभिषेचयेत् ।क्रमेण कलशां वोर्मिर्वक्षमाणैस्तु मंत्रकै: ॥१७९॥पवित्रं [तु] शतधारमृषिभि: पावनं कृतम् ।तेन त्वामभिषिंचामि पावमान्य: पुनंतु ता: ॥१८०॥इति प्रथमकलशोदकेन ।येन देवा पवित्रेण आत्मानं पुनंते सदा ।तेन त्वामभिषिंचामि पावमानी: पुनंतु त्वा ॥१८१॥इति व्दितीयेन ।या तेऽलक्ष्मीर्यया पाप्मा हृदये पार्श्वतोदरे ।उर्वोरुपस्थे पापौ च तामितो नाशयाम्यहम् ॥१८२॥इति तृतीयेन । चतुर्थकलशोदकमादाय पूवोक्तै: त्रिभि: ।या शिरसि ग्रीवायां पाणी पादौ च सेवते ।श्रोण्यां पृष्ठे च याऽलक्ष्मीस्तामितो [ नाशयाम्यहम्] ॥१८३॥प्राचीं दिशमवधार्य इन्द्रं दैवतं ऐन्द्रीपरिषदं या: कन्या ये सिध्दा ।इन्द्रेण दत्ता औषधाय: आपो वरुणसंमिता: ताभिस्त्वामभिषिंचामि पावमानी: पुनंतु त्वा ।दक्षिणां दिशमवधार्य यमं दैवतं यामीं परिषदं या: कन्या ये सिध्दा ।यमेन दत्ता औषधय: आपो वरुण्संमिता: ताभिस्त्वामभिषिंचामि पावमानी: पुनंतु त्वा ।प्रतीचीं दिशमवधार्य वरुणं दैवतं वारुणीं परिषदं या: कन्या ये सिध्दा ।वरुणेन दत्ता औषधय: आपो वरुणसमिता: ताभिस्त्वामभिषिंचामि पावमानी: पुनंतु त्वा ।उदीचीं दिशमवधार्य सोमं दैवतं सोमीं परिषद या: कन्या ये सिध्दा ।सोमेन दत्ता औषधय: आपो वरुणसमिता: ताभिस्त्वामभिषिंचामि पावमानी: पुनंतु त्वा ।धरुवां दिशमवधार्य विष्णु दैवतं वैष्णवीं परिषदं या: कन्या ये सिध्दा ।विष्णुना दत्ता औषधय: आपो वरुणसंमिता: ताभिस्त्वामभिषिंचामि पावमानी: पुनंतु त्वा ।उर्ध्वा दिशमधार्य बृहस्पतिं दैवतं बार्हस्पत्यां परिषदं या: कन्या ये सिध्दा ।बृहस्पतिना दत्ता औषधय: आपो वरुणसंमिता: ताभिस्त्वामभिषिंचामि पावमानी: पुनंतु त्वा ।सर्वा दिशां सर्वानन्तर्देशानवधार्य ब्रह्माणं दैवतं ब्राह्मी परिषदं या: कन्या ये सिध्दा ।ब्रह्मणा दत्ता औषधय: आपो वरुणसंमिता: ताभिस्त्वाभिषिंचामि पावमान्यं पुनंतु त्वा ।इत्येतैश्च मंत्रै: तथैव त्याग: । ततो माषचूर्णेन शिर: स्नात्वा शुकगंधवासा: ।शालकलंकटाय स्वाहा । कुष्मांडराजपुत्राय स्वाहा । उत्पाताय स्वाहा । देवयजनाय स्वाहा ।भगवति भंग मे देहि । धनवति धनं मे देहि । यशस्विनि यशो मे देहि । सौभाग्यवति सौभाग्यं मे देहि । पुत्रवति पुत्रान् मे देहि । सर्ववति सर्वान् कामान् मे देहि ।इति मंत्रेण इन्द्राणीमुपस्थाय भगवती ।सर्वभूतेश्वरी देवी शरणं त्वायमागत: ।सौभाग्यकाम: सुभगे जहि मह्यं विनायका ॥१८४॥इति प्रार्थयेत् । तत: आचार्यश्चतुर्षु शुर्पेषु कृताऽकृत तंडुलान् तमिष्ठं च गुडामिश्रं त्रींस्त्रीन मत्स्यान् एकेकं पुरोडाशं धाना मुडांन् शिग्गुफलानि पूरिकापूपकुल्माषान् मूलकान् तिंतिनिरसपानकं मांसं सुरास्थाने लवणमिश्रितं पय: फलानि शुक्ररक्तपुष्पाणि च निधाय । प्रतिकलशे बलिं दद्यात् अनेन मंत्रेण ।ऊँ श्येनोऽभिमुखो बक: पक्षी सिंह: कलडलीकलहविरुर्विनायक: कुब्ज: कुष्मांडाराज: पुत्रौऽहैमवतौ जम्बुको विरुपाक्ष: कलिडंकुमारो शूक: क्रोधी वैश्रवणाय राज्ञे नमो यस्तिष्ठति वैश्रवणस्य व्दारे कुबज: करालो विनतो विनायकस्तमहं शरणं प्रपद्ये ।ब्रह्मचारिणं शिववर्मण: काममिमं राजा राजाभिषेकं संवर्ध्दय वैश्रवणाय राज्ञे नम: । इति प्रतिविनायक: ।नमस्तेऽस्तु भगवन् शतरश्मे तमोनुद ।जहि मे दैवदौर्भाग्यं सौभाग्येन मां संसृज ॥१८५॥इति सूर्योपस्थाय गोमिथुनं हिरण्यं च आचार्याय ऋत्विभ्यश्च यथाशक्ति हिरण्यं दक्षिणं च दत्वा दशब्राह्मणान् भोजयेदिति ।तत: ऐशानबलिं: । ऐन्द्रीशान्त्यडंत्वेन ऐशानयागं करिष्ये इति संकल्प्य । आचार्य: स्वकुंडे स्वशाखोक्तविधिना अग्रिं प्रतिष्ठाप्य कुंडेशाने वेदिकायां पीठे वा प्रतिमायां ईशानमावाह्य संपूज्य वेदीशाने कुंभं मस्थाप्य । तत्रेशानं संपूज्य । तत्र एक ऋत्विक् रुद्रं पठेत । ततोऽन्वाधानादिनिर्वापपूर्वकं चरुं श्रपयित्वा आज्यभागान्ते धाता ददातु दाशुषे इति मंत्रेण नाममंत्रैर्वा अवदायावदाय चरुमष्टाविंश्त्याहुतीर्हुत्वा स्विष्टकृतादिहोमशेषं समर्पयेदिति ॥ N/A References : N/A Last Updated : January 14, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP