संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीशिवराजाभिषेकप्रयोग: ।| पंचेमऽहनि श्रीशिवराजाभिषेकप्रयोग: । विधिमुहुर्तादि विचार प्रथमेऽहनि व्दितीयेऽहनि तृतीयेऽहनि चतुर्थेऽहनि पंचेमऽहनि षष्ठेऽहनि सप्तमेऽहनि अथ राजाभिषेकप्रयोग: ॥ शिवराजाभिषेकप्रयोग: - पंचेमऽहनि गागाभट्टकृत राजाभिषेकप्रयोग: । Tags : shivajiशिवाजी पंचेमऽहनि Translation - भाषांतर [ज्येष्ट शु० १० बुधवार शके १५९६: ३ जून १६७४]अथ षंचमेऽहनि नक्षत्रयज्ञ: । ऐंद्रीशांत्यंगत्वेन नक्षत्रयज्ञं करिष्ये इति संकल्प्य । कुंडे अग्रिं प्रतिष्ठाप्य । तत्पूरतो वेदिकायां पीठे वा अष्टाविंशतिनक्षत्राणि तत्प्रतिमासु नक्षत्रदेवताश्च तत्प्रतिमासु पूर्वोक्तमंत्रै: अग्रिर्न:पात्वित्यष्टवाक्यैर्वा आवाह्य पूर्ववत्पूजयित्वा अन्वाधाज्यभागांते चित्राणी साकं दिवि रोचनानि यानि नक्षत्राणि इति सूक्ताभ्यां अष्टभिर्वाक्यैर्वा आज्यं हुत्वा समिचरुं यवमिश्रतिलाज्यै: प्रत्येकं अष्टशतं संख्यया पूर्वोक्तहोममंत्रे; ‘अग्रिर्न पात्विति अष्टवाक्यै: वा हुत्वा । अग्रये स्वाहा ।कृत्तिकाभ्य: स्वाहा । इत्युपहोमान् हुत्वा ।[ चित्राणि] साकं यानि नक्षत्राणीति पुनर्हुत्वा । अभयगणेन अग्रिमुपस्थाप्य । स्विष्टकृतादिहोमशेषं समाप्य । नक्षत्रप्रीतये पूर्वोक्तघृतादिदक्षिणां दत्वा ब्राह्मणभोजनं संकल्प्य । उत्तरपूजां विसर्जनं कृत्वा प्रतिमा आचार्याय निवेदयित्वा । इति नक्षत्रयाग: ॥ N/A References : N/A Last Updated : January 14, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP