संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|कथामुखनामा द्वितीयो लम्बकः| कथामुखनामा कथामुखनामा द्वितीयो लम्बकः श्रीदत्ताख्यायिका सहस्रानीककथानाम लोहजङ्घाख्यायिका विनष्टाख्यायिका कथामुखनामा कथामुखनामा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कथामुखनामा Translation - भाषांतर इत्युक्त्वा भूमिपालानां नानादेशनिवासिनाम् । पौराणां च व्यधात्पूजां विवाहोत्सवसङ्गिनाम् ॥२६८॥ वत्सेश्वरं समामन्त्र्य गोपाले शासनात्पितुः । प्रयाते स्वपुरीं राजा विजहार प्रियासखः ॥२६९॥ततो रामाकुलोदारकटाक्षनवपल्लवः । विलासहासकुसुमो देव्याः स्मरतरुर्बभौ ॥२७०॥ गूढं रजनिकाकामी राजा तां च विकातरः । इति गोत्रापराधेषु सा ब्रुवाणा रुषं ययौ ॥२७१॥ अयं नरेन्द्रस्य शरीरतुल्यः स्त्रीचक्रिकाबर्बरचक्रवर्ती । उक्त्वेति दासीभिरनङ्नदूतं वसन्तकं भूमिपतेर्बबन्ध ॥२७२॥ सा कृत्वा यत्पथविरचिता तापसीनां विदग्धा तैस्तैः श्लेषप्रनयवचनैस्त्यक्तकोपां विधाय । राज्ञश्चक्रे स्वयमविलसत्प्रेमकण्ठावलम्बां लक्ष्मीमिन्दोरिव जलधरच्छेदलब्धप्रसादाम् ॥२७३॥ देवी ततः स्मितविभक्तकपोलकान्ति - र्मुक्त्वा वसन्तकमवाप्य रुषं चकार । राजा न््द च तदाननपद्मभृङ्गः कोपप्रसादसुभगो रतये हि कामः ॥२७४॥ इति क्षेमेन्द्रविरचिते बृहत्कथासारे कथामुखनामा द्वितीयो लम्बकः समाप्तः । N/A References : N/A Last Updated : October 05, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP