संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|कथामुखनामा द्वितीयो लम्बकः| सहस्रानीककथानाम कथामुखनामा द्वितीयो लम्बकः श्रीदत्ताख्यायिका सहस्रानीककथानाम लोहजङ्घाख्यायिका विनष्टाख्यायिका कथामुखनामा सहस्रानीककथानाम क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत सहस्रानीककथानाम Translation - भाषांतर श्रुत्वेति संगमकतः कथकादद्भुतां कथाम् । निनाय राजा रजनीं राजपुत्रीं व्यचिन्तयत् ॥१३८॥ ततः कालेन ककुभं प्राप्य जम्भारिपालिताम् । जामदग्न्याश्रमं प्राप निर्वैरहरिकुञ्जरम् ॥१३९॥ मुनिना पूजितस्तत्र दयितां विरहार्दिताम् । लेभे हर्षविकासाक्षस्तनयं चातनुद्युतिः ॥१४०॥ अयं त्वत्तो नरपते मृगावत्यां यशोनिधिः । जातः श्रीमाञ्छुभो जेता धनंजय इवापरः ॥१४१॥ उक्त्वेति मुनिना दत्तं गृहीत्वोदयनं नृपः । प्रियासहायः स्वपुरीं प्रतस्थे मन्त्रिभिर्वॄतः ॥१४२॥ ततः प्रविश्य कौशाम्बीं तनयाय ददौ नृपः । पुत्रान्युगंधरादीनां पौरराज्यश्रिया सह ॥१४३॥ यौगन्धरायणो मन्त्री रुमण्वान्वाहिनीपतिः । वसन्तको नर्मसुहृद्राजसूनोरभूत्ततः ॥१४४॥ ततो विहृत्य सुचिरं दयिताकेलितत्परः । सहस्रानीकनृपतिः कीर्त्येव जरया सृतः ॥१४५॥ पवनाकम्पिकदलीदललोलां भवस्थितिम् । धियैव कलयन्प्रायात्सहामात्यो महापथम् ॥१४६॥ रामा न कस्य रतये मदनाभिरामा कस्यामृतं न धयौवनकेलिबन्धाः । सर्वात्मना विशयसंगम एष कस्तु भृङ्गोत्तरङ्गकरिकर्णविशाललोलः ॥१४७॥ इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां कथामुखलम्बके श्रुत्वेति संगमकतः कथकादद्भुतां कथाम् । निनाय राजा रजनीं राजपुत्रीं व्यचिन्तयत् ॥१३८॥ ततः कालेन ककुभं प्राप्य जम्भारिपालिताम् । जामदग्न्याश्रमं प्राप निर्वैरहरिकुञ्जरम् ॥१३९॥ मुनिना पूजितस्तत्र दयितां विरहार्दिताम् । लेभे हर्षविकासाक्षस्तनयं चातनुद्युतिः ॥१४०॥ अयं त्वत्तो नरपते मृगावत्यां यशोनिधिः । जातः श्रीमाञ्छुभो जेता धनंजय इवापरः ॥१४१॥ उक्त्वेति मुनिना दत्तं गृहीत्वोदयनं नृपः । प्रियासहायः स्वपुरीं प्रतस्थे मन्त्रिभिर्वॄतः ॥१४२॥ ततः प्रविश्य कौशाम्बीं तनयाय ददौ नृपः । पुत्रान्युगंधरादीनां पौरराज्यश्रिया सह ॥१४३॥ यौगन्धरायणो मन्त्री रुमण्वान्वाहिनीपतिः । वसन्तको नर्मसुहृद्राजसूनोरभूत्ततः ॥१४४॥ ततो विहृत्य सुचिरं दयिताकेलितत्परः । सहस्रानीकनृपतिः कीर्त्येव जरया सृतः ॥१४५॥ पवनाकम्पिकदलीदललोलां भवस्थितिम् । धियैव कलयन्प्रायात्सहामात्यो महापथम् ॥१४६॥ रामा न कस्य रतये मदनाभिरामा कस्यामृतं न धयौवनकेलिबन्धाः । सर्वात्मना विशयसंगम एष कस्तु भृङ्गोत्तरङ्गकरिकर्णविशाललोलः ॥१४७॥ इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां कथामुखलम्बके सहस्रानीककथानाम प्रथमो गुच्छः । प्रथमो गुच्छः । N/A References : N/A Last Updated : October 05, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP