विनष्टाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रुत्वेति राजतनया कथामद्भुतशालिनीम् ।
अमन्दानन्दनिस्पन्दशतधौतमुखी बभौ ॥१३२॥
अथ राजानमभ्येत्य स्वैरं यौगन्धरायणः ।
विमुक्त्युपायं संमन्त्र्य योगं दत्वा ययौ पुनः ॥१३३॥
प्ररूढगाढविश्रम्भां प्रेमबन्धवशीकृताम् ।
राजपुत्रीं नृपो ज्ञात्वा योगस्फाटिकबन्धनः ॥१३४॥
भद्रां भद्रवतीं नाम करिणीं लक्षणोचिताम् ।
आदायाशाढकं कृत्वा दानैर्हस्तिपकं वशे ॥१३५॥
वसन्तकेन सहितः सार्धं वासवदत्तया ।
तत्सख्या प्रेमविश्वासभुवा काञ्चनमालया ॥१३६॥
निशि सर्वायुधोपेतो हत्वा नगररक्षिणः ।
ययौ करेणुकावेगधृतहारतरङ्गितः ॥१३७॥
प्रयाते वत्सनृपतौ बभूवौज्जयिनीपतिः ।
मिलत्समस्तसुभटव्रातकोलाहलः पुरे ॥१३८॥
नडागिरिं समारुह्य पालकः कुपितोऽथ तम् ।
पृष्ठतोऽभिससारैकस्तज्ज्ञात्वावन्तिपोऽब्रवीत् ॥१३९॥
कोपनः पालकः शूरो मान्यो वत्सेश्वरश्च नः ।
गच्छ गोपाल तद्युद्धं निवारय जवादिति ॥१४०॥
पितुर्नियोगादारुह्य सुग्रीवाख्यं तुरङ्गम म् ।
गोपालः प्रययौ तूर्णं ततो भ्रातृनिवर्तने ॥१४१॥
वत्सेश्वरोऽपि निबिदध्वान्तलीने निशामुखे ।
व्रजन्रराज भ्राजिष्णुतारहारांशुसूचितः ॥१४२॥
अथोज्जगाम ललनाकपोलललितद्युतिः ।
रजनीराजतनयाकर्पूरतिलकः शशी ॥१४३॥
मुष्टिग्राह्ये निशाकान्तकान्तिपूरे प्रसर्पति ।
अकस्माद्दाननिर्घोषभज्यमानेव भूरभूत् ॥१४४॥
कल्पान्तोभ्द्रान्तचण्डीशलडड्डमरुकोद्भवम् ।
आषाढकः समाकर्ण्य शब्दं राजानमभ्यधात् ॥१४५॥
एष देव महामेघघोरघोशो नडागिरेः ।
शब्दो रुणद्धि विध्व........................ ॥१४६॥
उक्त्वेति विरते तस्मिन्नदृश्यत नडागिरिः ।
मेघसंसर्गमलिनः सुरद्विप इवापरः ॥१४७॥
तदाज्ञया विना नैव मम सा स्वपदस्थितिः ।
इति वागस्त्यमन्वेष्टुमायातो विन्ध्यभूधरः ॥१४८॥
सिन्दूरपूरारुणितं घण्टाभ्यां तद्वपुर्बभौ ।
उदयास्तस्थितार्केन्दुबिम्बं सांध्यमिवाम्बरम् ॥१४९॥
करेणुदन्तमुसलच्छ्यसूत्रेण शोभितः ।
सेवाकृते विशेषेण मा पीडय महीमिति ॥१५०॥
मा कदाचिद्धि साकारकरं तारापतिं हरेत् ।
इति नक्षत्रमालाभिः सेव्यमान इवाभितः ॥१५१॥
स पालकेन कृतिना युद्धसज्जेन कुञ्जरः ।
प्रेरितोऽपि विकोपोऽभूद्दृष्ट्वा च भगिनीं पुरः ॥१५२॥
आकर्णाञ्चितकोदण्डमण्डलोच्चण्डसायकः ।
आलोक्य भगिन्नीमग्रे विरराम च पालकः ॥१५३॥
राजापि निर्दयोद्धूतधन्वा धैर्यनिधिर्युधि ।
चिच्छेद पालकस्यापि चक्रतोमरकार्मुकम् ॥१५४॥
खङ्गखण्डैर्निपतितैस्तस्य संग्रामभूरभूत् ।
जयश्रीरतिशय्येव कीर्णकर्णोत्पलच्छदैः ॥१५५॥
अत्रान्तरे समभ्येत्य गोपालो जवनैर्हयैः ।
निनाय स्वपुरीमेव पालकं पितुराज्ञया ॥१५६॥
निवृत्ते राजपुत्रेऽथ नलागिरिबलोत्कटे ।
द्रुतं याति च वत्सेशे प्रययौ यामिनी शनैः ॥१५७॥
अन्येद्युरथ मध्याह्ने प्रचण्डकिरणे रवौ ।
तृष्णार्ता करिणीत्याह नृपमाषाढको वने ॥१५८॥
ततस्तडागमासाद्य पीत्वा भद्रवती जलम् ।
विषदूषितमाकण्ठमवतीर्य तृषापत त् ॥१५९॥
अहं मायावती नाम विद्याधरवधूर्नृप ।
त्वत्सेवया मुक्तशापा भविष्याम्युपकारिणी ॥१६०॥
भाविनस्तव पुत्रस्य सर्वविद्याधरप्रभोः ।
इति पञ्चत्वमापन्ना प्राह भद्रवती दिवः ॥१६१॥
ततो वसन्तकेनाशु समाहूय पुलिन्दकम् ।
तत्पुरीं प्रययौ राजा हत्वा दस्युगणं पथि ॥१६२॥  
यौगन्धरायणेनाथ निजवेशवता नृपः ।
ननद संगतस्तस्य समं वासवदत्तया ॥१६३॥
अत्राभ्येति समादाय रत्नाश्ववरकुञ्जरान् ।
गोपालकस्त्वद्विवाहे विसृष्टोऽवन्तिभूभुजा ॥१६४॥
इति पान्थवणिग्वाक्यं ज्ञात्वा राजा प्रियासखः ।
विसृज्य दूतान्स्वपुरीं स्वसैन्याय व्यलम्बत ॥१६५॥
मनोविनोदनं किंचित्कथयेत्यथ सादरम् ।
विवाहोत्सुकया देव्या पृष्टः प्राह वसन्तकः ॥१६६॥
अभवत्ताम्रलिप्तायां धनगुप्ताभिधो वणिक् ।
ब्राह्मणान्पुत्रकामोऽसावपृच्छत्तेऽप्यथोचिरे ॥१६७॥
एकपुत्रः पुरा राजा सोमको यागपावके ।
जन्तूनामयुतं हुत्वा पुत्राणां शतमाप्तवान् ॥१६८॥
एवं श्रुत्वा स पुत्रेष्ट्या पुत्रं प्राप कुलोचितम् ।
गुहसेनाभिधं यस्य कन्दर्पो लज्जते पुरः ॥१६९॥
धनगुप्तोऽथ कालेन ससुतो रत्नविक्रयी ।
समुद्रं यानपात्रेण प्रययौ धनदोपमः ॥१७०॥
धनिनो धर्मगुप्तस्य तत्र वर्वरवासिनः ।
सोऽयाचत स्वपुत्राय कन्यां लावण्यशालिनीम् ॥१७१॥
दूरे देशे प्रियापत्यः पिता तां न ददौ भिया ।
वणिक्पुत्रं समालोक्य सा त्वभूदभिलाषिणी ।
सख्यावेदितवृत्तान्ता तद्गेहमगमत्स्वयम् ॥१७२॥
देवस्मिताभिधानां तामदाय स्वयमागताम् ।
ताम्रलिप्तां समभ्येत्य पुत्रस्योद्वाहमादधे ॥१७३॥
गुहसेनस्तया तत्र बालसारङ्गनेत्रया ।
संगतोऽनङ्गसुभगः सुधासिक्त इवाभवत् ॥१७४॥
कालेन त्रिदिवं याते धनगुप्ते स तत्पदे ।
प्रतिष्ठां प्राप्य यात्रायां चक्रे बन्धुगिरा धियम् ॥१७५॥
उद्यतः स ततो गन्तुं समुद्रं धनवृद्धये ।
विवेश वल्लभां द्रष्टुं वियोगभयकातराम् ॥१७६॥
दोलाविलोलह्रुदयस्तां पपौ सुचिरं दृशा ।
रागो निर्भरतामेति विरहे हि भविष्यति ॥१७७॥
प्रियं सुदयितं ज्ञात्वा सावदत्साञ्जनाश्रुभिः ।
प्रौढा प्रावृडिव श्यामा श्यामीकृतपयोधरा ॥१७८॥
ध्रुवं सौभाग्यनिधयस्त्वां यौवनसुरद्रुमम् ।
दृढबन्धं करिष्यन्ति दिगन्तेषु मृगीदृशः ॥१७९॥
इति प्रणयिनीवाक्यं स निशम्य स्मराकुलः ।
स्वप्ने ददर्श वरदं सभार्यं पार्वतीपतिम् ॥१८०॥
वियोगे रतिमन्यत्र युवयोर्यः प्रयास्यति ।
म्लानिमेश्यति मद्दत्तं हस्ते तस्येदमम्बुजम् ॥१८१॥
इति रक्ताम्बुजयुगं स्वप्ने ताभ्यां ददौ शिवः ।
तदादाय प्रबुद्ध्यैव दम्पती तौ न््दुतुः ॥१८२॥
ततो यातः प्रशस्तेऽह्नि दिगन्तं सचिवैः सह ।
कटाक्षद्वीपमासाद्य तस्थौ बहुलविक्रयः ॥१८३॥
वणिग्भिः संगतस्तत्र तत्रत्यैर्मदमोहितैः ।
पृष्टो रक्ताम्बुजं दृष्ट्वा तत्कथामब्रवीच्च सः ॥१८४॥
युवानस्तत्र तां ज्ञात्वा प्रियां देवस्मिताभिधाम् ।
गूधाश्चे ताम्रलिप्तायां ययुस्तत्संगमाशया ॥१८५॥
तद्गृहान्वेषणपरास्ते तु भ्रान्त्वाखिलां पुरीम् ।
तापसीं विजने प्रापुर्वृद्धां योगकरण्डिकाम् ॥१८६॥
तया संजातविश्वासा निजागमनकारणम् ।
निवेद्य तस्यै कामार्ताश्चिरं तस्थुस्तदाश्रमे ॥१८७॥
देवस्मितार्थिनां तेषां साहाय्ये प्रतिपन्नधीः ।
मन्त्रप्रयोगकुशला तानुवाच च तापसी ॥१८८॥
गुहसेनस्य दयितां तामहं भवेतां वशे ।
करिष्याम्यस्ति मे शिष्या सर्वविज्ञानशालिनी ॥१८९॥
सा हि सिद्धिकरी नाम पुरा देशान्तरागतम् ।
मन्त्रज्ञा वशगं चक्रे वणिजं पालिताभिधम् ॥१९०॥
तस्य भूरिधनं हृत्वा मणिकाञ्चनमौक्तिकम् ।
प्रययौ छद्मयोगेन सर्वसर्वस्वहारिणी ॥१९१॥
धनभारानतां मार्गे हन्तुकामोऽथ भीषणः ।
दस्युः श्वपाको विजने शनैरनुससार ताम् ॥१९२॥
क्रूरं यमागतं दृष्ट्वां सा प्रोवाच धनार्थिनम् ।
भर्त्रा निरस्ता क्रुद्धेन प्राप्ताहं शरणार्थिनी ॥१९३॥
अस्मिन्न्यग्रोधविटपे सज्जीकुरु कृपानीधे ।
पाशं निःशेषशोकाग्निशान्तये प्रणयादिति ॥१९४॥
अयत्नोपनतं दृष्ट्वा वराकस्तद्धनं बहु ।
तूर्णं विधाय वृक्षाग्रे पाशं तामभ्यभाषत ॥१९५॥
सज्जीकृतं मया मातः क्षिप्रमारुह्यतामिति ।
साब्रवीन्मम शिष्यायै दर्शयैतद्वनं सखे ॥१९६॥
इति तद्वचसा मूढो ललम्बे द्रविणाशया ।
कण्ठे तदुपदेशाय पाशं कृत्वा सुवेष्टितम् ॥१९७॥
इत्थं विधीयतां कण्ठे तूर्णं तमिति वञ्चितम् ।
पादेन सा चकर्षाशु स च कृष्टोऽभवव्द्यसुः ॥१९८॥
श्वपाकमिति हत्वा सा प्रस्थितैकाकिनी पथि ।
पालितानुचरैर्दृष्टा क्रुद्धैर्द्रविणहारिणी ॥१९९॥
सा तान्दृष्ट्वा समारुह्य वृक्षं तस्थौ लतान्तरे ।
तन्मध्यादधिरुह्यैकः शनकैराससाद ताम् ॥२००॥
साब्रवीत्साभिलाषाहं त्वय्येव सततं विभो ।
धनं त्वदर्थमेवेदं शपथं कुरु चुम्ब माम् ॥२०१॥
इत्युक्त्वा वञ्चनं चक्रे निवेश्य दशनैस्ततः ।
जिह्वा चिच्छेद सा तस्य लल्ललल्लेति भाषिणः ॥२०२॥
ततो निपतिते तस्मिन्रक्तष्ठीविनि भूतले ।
भूतग्रस्तोऽहमित्युक्त्वा शेषास्ते दुद्रुवुर्भयात् ॥२०३॥
इति तद्वञ्चनावाप्तं धनं मह्यं न्यवेदयत् ।
सा शिष्या विश्वविश्वासच्छद्महेतुर्महाशया ॥२०४॥
समागतैव सा मन्ये मम साहाय्यकारिणी ।
देवस्मितासंगमं वो लीलयैव विधास्यति ॥२०५॥
तस्यामित्युक्तवत्यां सा सहसाभ्याययौ कुटीम् ।
शिश्यां सिद्धिकरीं तां च दृष्ट्वा सर्वे ववन्दिरे ॥२०६॥
ततो विदितवृत्तां तां कृत्वा योगकरण्डिका ।
शिष्यां देवस्मितागेह तयैव सहिता ययौ ॥२०७॥
गुहसेनगृहं प्राप्यं द्वारपालमुपेत्य सा ।
कण्ठे जग्राह सोत्कण्ठं कृत्वा च पटसंग्रहे ॥२०८॥
त्वं मे जन्मान्तरसुहृन्नेत्राभ्यां विनिवेदितः ।
इत्युक्त्वा मोदकास्तस्मै दत्वा तद्वचसाविशत् ॥२०९॥
गुहसेनजनन्या च पूजिता मध्यमन्दिरम् ।
प्रविश्य विरहक्षामां प्राप्य देवस्मितां सतीम् ॥२१०॥
अदृष्टां भास्करेणापि दृष्ट्वा तां गुप्तमन्दिरे ।
प्रणतां वीक्ष्य चाशीर्भिरभिनन्द्याश्रमं ययौ ॥२११॥
अन्येद्युर्मांसशकलं प्रभूतमरिचं करे ।
कृत्वा सशिष्या प्रययौ पुनर्देवस्मितान्तिकम् ॥२१२॥
तृप्तां मरिचमांसेन कृत्वा वेश्माग्रगां शुनीम् ।
पूजितासनपुष्पाद्यैः सशिष्या समुपासत ॥२१३॥
अथाश्रुवर्षिणीं दृष्ट्वा शुनीं मरिचतापिताम् ।
रुरोद तापसी तां च सा पप्रच्छ वणिग्वधूः ॥२१४॥
तापसी प्राह पृष्टाथ पुत्री जन्मान्तरे मम ।
पतिव्रता सपत्नीयं बभूवातिप्रिया शुनी ॥२१५॥
अहमेषा च विप्रस्य भार्ये देशान्तरस्थिते ।
लावण्ययौवनोपेते प्राप्ते निर्दिश्यतां पुरा ॥२१६॥
अहं नवनवोदारवल्लभा सुभगाभवम् ।
इयमासीच्च सततं सती नियमदुर्भगा ॥२१७॥
मन्यामहे न हि वयं पापीयांसमतः परम् ।
यः संरुद्धेन्द्रियो मोहात्स्वतन्त्रं शोषयेन्मनः ॥२१८॥
निरर्गलेन्द्रियसुखा नित्यानन्दोपयोगिनी ।
अहं योगिपदं प्राप्ता सा सर्वजनकामिनी ॥२१९॥
भक्त्या तु मे सपत्नीयं पुत्रि जातिस्मरा शुनी ।
तिर्यग्भावमियं प्राप्ता साध्वी मानसदूषिता ॥२२०॥
सैषा चिरेण मां दृष्ट्वा रोदिति स्मृतवल्लभा ।
श्रुत्वैतत्तापसीवाक्यं निनिन्द मनसा सती ॥२२१॥
किल्बिषं मानसगतं तस्या द्रष्टुं समुद्यता ।
साब्रवीद्यदि धर्मोऽयं कंचिदानय मे प्रियम् ॥२२२॥
इति देवस्मितावाक्यां श्रुत्वा योगकरण्डिका ।
प्राहाश्रमे मे चत्वारो युवानो वणिजः स्थिताः ॥२२३॥
सह मोदिष्यसे तैस्त्वमियुक्त्वा तत्कृते ययुः ।
देवस्मिताप्यनुचरीं बभाषे कोपकम्पिता ॥२२४॥
ध्रुवं देशान्तरस्थेन मद्भर्त्रा वणिजां पुरः ।
कथिता मधुदत्तेन मत्कथा पद्मकौतुके ॥२२५॥
तयैव नूनं वणिजस्तस्मिंस्तत्र चिरस्थिते ।
मदर्थमागतास्तेषां करिष्यामि यथोचितम् ।
इत्युक्त्वात्मनिभां कृत्वा दासीं निजपदे व्यधात् ॥२२६॥
ततो वणिजमानीय तापसी रत्नभूषितम् ।
निशि सिद्धिकरीवेषं ययौ विन्यस्य तद्गृहे ॥२२७॥
स प्रविश्य निजं रूपमासाद्य स्मरमोहितः ।
दासीं देवस्मितावेषां न््द प्राप्य सुन्दरीम् ॥२२८॥
ततो धत्तूरकोपेतं पीत्वा मधु तदाहृतम् ।
बभूव स्रस्तवसनः कान्तः काष्ठोपमाकृतिः ॥२२९॥
निश्चेष्टं तं ललाताग्रे गृहीताभरणाम्बरा ।
अङ्कं कृत्वा स्वपादेन चिक्षिपुः कर्दमे स्त्रियः ॥२३०॥
प्रभाते प्रतिबुद्धोऽथ पट्टिकाच्छादितालिकः ।
गत्वा परानुवाचाहं हतो दस्युगणैरिति ॥२३१॥
इति क्रमेण तेनैव सर्वे ते तत्पदाङ्किताः ।
स्वदेशं प्रययुर्गूधा निन्दन्तो निजदुष्कृतम् ॥२३२॥
तेनैव मधुना मत्तं कृत्वा योगकरण्डिकाम् ।
कर्ननासाविरहितां तच्छिष्यां च वणिग्वधूः ॥२३३॥
प्रतस्थे वचसा स्वस्था गुहसेनाश्रितां दिशम् ।
मा कदाचिन्मम पतिं हन्युस्ते लज्जिता इति ॥२३४॥
व्रजन्ती प्राह सा श्वश्रूं गत्वा रक्षाम्यहं प्रियम् ।
शक्तिमत्या यथा पूर्वं परित्रातः पतिर्धिया ॥२३५॥
मणिभद्रालये पूर्वं निरुद्धो दण्डवासिना ।
वणिक्सागरदत्ताख्यो जारः सह परस्त्रिया ॥२३६॥
बद्धं विज्ञाय तं जाया तस्य शक्तिमती सती ।
प्रविश्य पूजाव्याजेन निशि तस्थौ सुरालये ॥२३७॥
तामसाध्वीं प्रियां भर्तुर्निजाभरणवाससा ।
आत्मतुल्यां विधायाशु विससर्ज ह्रिया नताम् ॥२३८॥
ततः प्रभाते भूपालसभां नीत्वा वणिग्जनैः ।
दृष्टः स्वभार्यासहितस्ततो राजा विचारधीः ॥२३९॥
मिथ्या बद्धोऽयमित्युक्त्वा कुपितो दण्डवासिकम् ।
बबन्धेति पुरा तस्या रक्षितः साहसात्पतिः ॥२४०॥
गत्वाहमपि भर्तारं रक्ष्यामीत्यभिधाय सा ।
वणिग्वेशाब्धिमुत्तीर्य ददर्श निजवल्लभम् ॥२४१॥
विधाय पौरुषं वेष तत्र राजानमेत्य च ।
व्यजिज्ञपत्प्रभो पत्युर्दासा मे हरिता इति ॥२४२॥
गृहाणैतान्सभामध्ये विचिन्त्य सकलं जनम् ।
इति राज्ञा समादिष्टांस्ताञ्जग्राह वणिग्वरान् ॥२४३॥
मयाङ्किताः स्वपादेन प्रतिज्ञायेति संसदि ।
ताञ्शिरःपदमुद्धाट्य सा प्रत्यक्षमदर्शयत् ॥२४४॥
ततो विदितवृत्तेन तस्यै दत्ता महीभुजा ।
वणीजो मोक्षिता दास्याद्धनेन निजबन्धुभिः ॥२४५॥
इति भूरि धनं लब्ध्वा गुहसेनमवाप्य च ।
ताम्रलिप्तां समभ्येत्य सा न््द चिरं सती ॥२४६॥
इति देवस्मिताख्यायिका ॥२॥
===============================
वसन्तकेन कथितं निशम्येति नृपात्मजा ।
न््द साध्वी चरितैस्तुष्यते च सतीमनः ॥२४७॥
अत्रान्तरे प्रतीहारो महासेनमहीपतेः ।
वत्सेश्वरं समभ्येत्य समासीनं व्यजिज्ञपत् ॥२४८॥
देव चण्डमहासेनसमादिष्टः समेष्यति ।
गोपालकस्त्वद्विवाहयोग्यरत्नाश्वसंपदा ॥२४९॥
श्रुत्वेति हृष्टः सेनानीः सज्जीकृतबलाम्बुधिः ।
राजा विवेश कौशाम्बीं कौतुकाकुलतां गताम् ॥२५०॥
अथ गोपालके प्राप्ते प्रवृत्ते च महोत्सवे ।
विवाहवसुधां राजा देव्या सह समाविशत् ॥२५१॥
तयोर्बभौ विवाहश्रीः कुसुमायुधजीविनी ।
प्रवृत्तसंहृष्टगणा पुनरीश्वरयोरिव ॥२५२॥
देवी प्रदक्षिणा वृत्ततारहारा रराज सा ।
सुधाकल्लोलवलिता कमलेव नवोदिता ॥२५३॥
सा भेजे कीर्णकर्पूरपूरस्मेराम्बरोज्ज्वला ।
क्षीरक्षालितबिम्बस्य चन्द्रस्येव सितच्छटा ॥२५४॥
विक्शिप्तलाजकुसुमा तद्विवाहमही बभौ ।
देवीमुखशशिप्रीत्या नक्षत्रैरिव सेविता ॥२५५॥
संपूर्णोद्वाहसुभगे नृपे मन्त्री चमूपतिः ।
समस्तजनसत्कारे तस्थतुः प्रभुशासनात् ॥२५६॥
रुमण्वानमथोवाच ध्यात्वा यौगन्धरायणः ।
विनियुक्तौ नृपेणावां दुष्करे बत कर्मणि ॥२५७॥
को हि भोजनसंमानैरवलेपधनं जनम् ।
समर्थः संमुखीकर्तुमस्मिन्राजमहोत्सवे ॥२५८॥
भोजने याति विपुलं कोपं बालोऽथ पूजितः ।
अवमानकथां पूर्वां कृतं बालेन कौतुकम् ॥२५९॥
देव सेनाग्रहारेऽभूद्रुद्रशर्माभिधो द्विजः ।
विनष्टकाख्यस्तस्यासीन्मात्रा हीनः कृशः सुतः ॥२६०॥
अपरा तस्य जननी निरादरधिया सदा ।
तस्य शीर्णरसं चक्रे स्नेहाच्छादनभोजनम् ॥२६१॥
स्वपुत्रपोशणरतां क्रुद्धां तां वीक्ष्य बालकः ।
कदाचिप्त्राह पितरं द्वितीयोऽस्ति पिता मम ॥२६२॥
इत्यव्यक्ताक्षरां वाचं श्रुत्वा तस्याभवद्द्विजः ।
शङ्कितो निजदारेशु सहसा भृकुटीमुखः ॥२६३॥
तदेवं सततं बाले ब्रुवाणे परिभर्त्सिता ।
भर्त्रा तं दारकं प्राह रहः सा भृशदुःखिता ॥२६४॥
स्व्सुताभ्यधिकस्त्वं मे किं त्वया कोपितः पिता ।
इति श्रुत्वाब्रवीद्बालः क्रुद्धोऽस्म्यल्पाशनार्दितः ॥२६५॥
प्रसादितोऽथ प्रणयात्तया पितरमगतम् ।
निर्दिश्य दर्पणं प्राह द्वितीयोऽयं पिता मम ॥२६६॥
श्रुत्वेति प्रत्ययं प्राप्य रुद्रशर्मा धृतिं ययौ ।
इत्यसंमानितः कोपं याति बालोऽपि भोजने ॥२६७॥
इति विनष्टाख्यायिका ॥३॥

N/A

References : N/A
Last Updated : October 05, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP