संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली| आविष्कारनाम अष्टादशं स्तोत्रम् श्रीशिवस्तोत्रावली स्तोत्र सूची भक्तिविलासाख्यं प्रथमं स्तोत्रम् सर्वात्मपरिभावनाख्यं द्वितीय स्तोत्रम् प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् सुरसोद्बलाख्यं चतुर्थं स्तोत्रम् स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् अध्वविस्फुरणाख्यं षष्ठं स्तोत्रम् विधुरविजयनामधेयं सप्तमं स्तोत्रम् अलौकिकोद्बलनाख्यमष्तमं स्तोत्रम् स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् रहस्यनिर्देशनाम द्वादशं स्तोत्रम् संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् जयस्तोत्रनाम चतुर्दशं स्तोत्रम् भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् पाशानुद्भेदनाम षोडशं स्तोत्रम् दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् आविष्कारनाम अष्टादशं स्तोत्रम् उद्योतनाभिधानमेकोनविंशं स्तोत्रम् चर्वणाभिधानं विंशं स्तोत्रम् आविष्कारनाम अष्टादशं स्तोत्रम् श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली Tags : mahadevshankarshivstotraमहादेवशंकरशिवस्तोत्र आविष्कारनाम अष्टादशं स्तोत्रम् Translation - भाषांतर जगतोऽन्तरतो भवन्तमाप्त्वा पुनरेतद्भवतोऽन्तराल्लभन्ते ।जगदीश तवैव भक्तिभाजोन हि तेषामिह दूरतोऽस्ति किञ्चित् ॥१॥क्वचिदेव भवान् क्वचिद्भवानी सकलार्थक्रमगर्भिणी प्रधाना ।परमार्थपदे तु नैव देव्या भवतो नापि जगत्रयस्य भेदः ॥२॥नो जानते सुभगमप्यवलेपवन्तो लोकाः प्रयत्नसुभगा निखिला हि भावाः ।चेतः पुनर्यदिदमुद्यतमप्यवैति नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥३॥भवन्मयस्वात्मनिवासलब्ध -सम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः ।न भोजनाच्छादनमप्यजस्त्र -मपेक्षते यस्तमहं नतोऽस्मि ॥४॥सदा भवद्देहनिवासस्वस्थो -ऽप्यन्तः परं दह्यत एष लोकः ।तवेच्छया तत्कुरु मे यथात्र त्वदर्चनानन्दमयो भवेयम् ॥५॥स्वरसोदितयुष्मदङ्घ्रिपद्म - द्वयपूजामृतपानसक्तचितः । सकलार्थचयेष्वहं भवेयम् सुखसंस्पर्शनमात्रलोकयात्रः ॥६॥सकलव्यवहारगोचरेस्फुटमन्तः स्फुरति त्वयि प्रभो ।उपयान्त्यपयान्ति चानिशम् मम वस्तूनि विभान्तु सर्वदा ॥७॥सततमेव तवैव पुरेऽथवा -प्यरहितो विचरेयमहं त्वया ।क्षणलवोऽप्यथमा स्म भवेत् स मे न विजये ननु यत्र भवन्मयः ॥८॥भवदङ्गपरिस्रवत्सुशीता - मृतपूरैर्भरिते समन्ततोऽपि ।भवदर्चनसम्पदेह भक्ता - स्तव संसारसरोऽन्तरे चरन्ति ॥९॥महामन्त्रतरुच्छायाशीतले त्वन्महावने ।निजात्मनि सदा नाथ वसेयं तव पूजकः ॥१०॥प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा ।मम नाथ तथा पुरः प्रथां व्रज नेत्रत्रयशूलशोभितः ॥११॥अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात् ।परितोषगतः कदा भवान् मम सर्वत्र भवेद् दृशः पदम् ॥१२॥निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः ।सकलं जनवृत्तमाचरेयंरसयन्सर्वत एव किञ्चनापि ॥१३॥भवदीयमिहास्तु वस्तु तत्त्वं विवरीतुं क इवात्र पात्रमर्थे ।इदमेव हि नामरूपचेष्टा - द्यसमं ते हरते हरोऽसि यस्मात् ॥१४॥शान्तये न सुखलिप्सुता मना - ग्भक्तिसम्भृतमदेषु तैः प्रभोः ।मोक्षमार्गणफलापि नार्थना स्मर्यते हृदयहारिणः पुरः ॥१५॥जागरेतरदशाथवा परा यापि काचन मनागवस्थितेः भक्तिभाजनजनस्य साखिला त्वत्सनाथमनसो महोत्सवः ॥१६॥आमनोऽक्षवलयस्य वृत्तयः सर्वतः शिथिलवृत्तयोऽपि ताः ।त्वामवाप्य दृढदीर्घसंविदो नाथ भक्तिधनसोष्मणां कथम् ॥१७॥न च विभिन्नमसृज्यत किञ्चिद - स्त्यथ सुखेतरदत्र न निर्मितम् ।अथ च दुःखि च भेदि च सर्वथा - प्यसमविस्मयधाम नमोऽस्तु ते ॥१८॥खरनिषेधखदामृतपूरणो - च्छलितधौतविकल्पमलस्य मे ।दलितदुर्जयसंशयवैरिण - स्त्वदवलोकनमस्तु निरन्तरम् ॥१९॥स्फुटमाविश मामथाविशेयं सततं नाथ भवन्तमस्मि यस्मात् ।रभसेन वपुस्तवैव साक्षा - त्परमासत्तिगतः समर्चयेयम् ॥२०॥त्वयि न स्तुतिशक्तिरस्ति कस्या - प्यथवास्त्येव यतोऽतिसुन्दरोऽसि ।सततं पुनरर्थितं ममैत - द्यदविश्रान्ति विलोकयेयमीशम् ॥२१॥अठारहवां स्तोत्र समाप्त N/A References : N/A Last Updated : April 20, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP