संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली| औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् श्रीशिवस्तोत्रावली स्तोत्र सूची भक्तिविलासाख्यं प्रथमं स्तोत्रम् सर्वात्मपरिभावनाख्यं द्वितीय स्तोत्रम् प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् सुरसोद्बलाख्यं चतुर्थं स्तोत्रम् स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् अध्वविस्फुरणाख्यं षष्ठं स्तोत्रम् विधुरविजयनामधेयं सप्तमं स्तोत्रम् अलौकिकोद्बलनाख्यमष्तमं स्तोत्रम् स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् रहस्यनिर्देशनाम द्वादशं स्तोत्रम् संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् जयस्तोत्रनाम चतुर्दशं स्तोत्रम् भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् पाशानुद्भेदनाम षोडशं स्तोत्रम् दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् आविष्कारनाम अष्टादशं स्तोत्रम् उद्योतनाभिधानमेकोनविंशं स्तोत्रम् चर्वणाभिधानं विंशं स्तोत्रम् औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली Tags : mahadevshankarshivstotraमहादेवशंकरशिवस्तोत्र औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् Translation - भाषांतर जगदिदमथ वा सुहृदोबन्धुजनो वा न भवति मम किमपि ।त्वं पुनरेतत्सर्वंयदा तदा कोऽपरो मेऽस्तु ॥१॥स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्त्वमेवेति ।वस्त्वेव सिद्धिमेत्विति याच्ञा तत्रापि याच्ञैव ॥२॥त्रिभुवनाधिपतित्वमपीह य - त्तृणमिव प्रतिभाति भवज्जुषः ।किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणादृते ॥३॥येन नैव भवतोऽस्ति विभिन्नंकिञ्चनापि जगतां प्रभवश्च ।त्वद्विजृम्भितमतोऽद्भुतकर्म - स्वप्युदेति न तव स्तुतिबन्धः ॥४॥त्वन्मयोऽस्मि भवदर्चननिष्ठः सर्वदाहमिति चाप्यविरामम् ।भावयन्नपि विभो स्वरसेनस्वप्नगोऽपि न तथा किमिव स्याम् ॥५॥येन मनागपि भवच्चरणाब्जो -द्भूतसौरभलवेन विमृष्टाः ।तेषु विस्रमिव भाति समस्तं भोगजातममरैरपि मृग्यम् ॥६॥हृदि ते न तु विद्यतेऽन्यदन्य - द्वचने कर्मणि चान्यदेव शंभो ।परमार्थसतोऽप्यनुग्रहो वायदि वा निग्रह एक एव कार्यः ॥७॥मूढोऽस्मि दुःख कलितोऽस्मि जरादि दोष - भीतोस्मि शक्ति रहितोऽस्मि तवाश्रितोऽस्मि ।शम्भो तथा कलय शीघ्रमुपैमि येन सर्वोत्तमां धुरमपोज्झितदुःखमार्गः ॥८॥त्वत्कर्णदेशमधिशय्य महार्घभाव -माक्रन्दितानि मम तुच्छातराणि यान्ति ।वंशान्तरालपतितानि जलैकदेश - खण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥९॥किमिव च लभ्यते बत न तैरपि नाथ जनैः क्षणमपि कैतवादपि च ये तव नाम्नि रताः ।शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणोऽणिमादिकमुपैमि यथा विभवम् ॥१०॥शम्भो शर्व शशाङ्कशेखर शिव त्र्यक्षाक्षमालाधरश्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध ।कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु विनाशयाशुभभरानाधत्स्व सिद्धिं पराम् ॥११॥तत्किं नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुतेभावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः ।इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारेऽत्र निरन्तराधिविधुरः क्लिश्याम्यहं केवलम् ॥१२॥यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यवः एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः ।तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्ययजीवातवे ॥१३॥हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम् ।तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमाः जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः ॥१४॥नमो मोहमम्हाध्वान्त - ध्वंसनानन्यकर्मणे ।सर्वप्रकाशातिशय प्रकाशायेन्दुलक्ष्मणे ॥१५॥एकादश सोत्र समाप्त N/A References : N/A Last Updated : April 19, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP