संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्लोकवार्तिकभिधः|शून्यवादः| श्लोक १२६ ते १४४ शून्यवादः श्लोक १ ते २५ श्लोक २६ ते ५० श्लोक ५१ ते ७५ श्लोक ७६ ते १०० श्लोक १०१ ते १२५ श्लोक १२६ ते १४४ शून्यवादः - श्लोक १२६ ते १४४ कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी. Tags : sanskritshlokvartikmidhaश्लोकवार्तिकभिधःसंस्कृत श्लोक १२६ ते १४४ Translation - भाषांतर तत्र चान्यतरापाये द्वितीयापायतः पुनः ।ज्ञानस्यांशब्दयासत्त्वान्नैःस्वाभाव्यादभावता ॥१२६॥भिन्नाभ्यां वाsप्यभिन्नत्वाद्भेदो ज्ञानात्मनो भवेत् ।( १ ) तत्स्वात्मवत्, ततश्चैवं सिद्धं वस्तुद्वयं हि नः ॥१२७॥‘ तयोश्च यदि संज्ञेयं ज्ञानमित्यस्त्वथाsपि वा ।ज्ञानं ज्ञायतइत्यर्थो धीर्भावे करणेsपि वा ॥१२८॥सर्वथा वस्तुभेदो नः सिद्धः शब्दो यथारुचि ।प्रवर्ततां न नस्तत्र काचिद्विप्रतिपन्नता ’ ॥१२९॥‘ अथ सत्यपि भिन्नत्वे ग्राह्यं ज्ञानान्तरं भवेत् ।ज्ञानत्वे तस्य का युक्तिः ’ पूर्वोक्ता यदि ( १ ) सेष्यते ॥१३०॥ज्ञानं ज्ञानमितीदं तु न द्वयोरनुवर्तते ।व्यतिरिक्तं च सामान्यं त्वया नाsभ्युपगम्यते ॥१३१॥व्यतिरेके तयोर्ज्ञानान्न ( २ ) ज्ञानात्मकता भवेत् ।तद्रूपरहितत्वे च ज्ञानाsभावः प्रसज्यते ॥१३२॥ताभ्यां च तस्य सम्बन्धे प्रत्येकं व्यतिषज्य च ( ३ ) ।भेदसावयवत्वादिदोषो वैशेषिकादिवत् ॥१३३॥यथा हि तेषां जात्यादौ दोषा ह्युक्ताः परैरमी ।तथैवेषां प्रसज्यन्ते भिन्नाsभिन्नार्थसङ्गतौ ॥१३४॥ताभ्यामव्यतिरेके वा भेदः पूर्वोक्त एव ते ।सादृश्याsपोहसामान्यकल्पना वारयिष्यते ॥१३५॥वस्त्वन्तरस्य चाभावात्त्वयाsपोहोsपि दुष्करः ।नाज्ञानं नाम किञ्चित्स्यादपोह्यं ज्ञानवादिनः ॥१३६॥अपोहो न ह्यभावस्य कथंचिदुपपद्यते ।वस्त्वन्तरमभावः स्यादपोह्यत्वाच्च वस्तुता ॥१३७॥तेनाsज‘जाननिवृत्तौ हि ज्ञानेsन्यार्थः प्रसज्यते ।कल्पितं स्यादपोह्यं चेदू, नात्यन्ताsसत्यकल्पना ॥१३८॥बुद्धिरज्ञानानिर्भासा तवाsज्ञानं प्रकल्पितम् ।ततश्च ज्ञानमेवैकमपोह्यत्वेन सम्मतम् ॥१३९॥न चाssत्माsपोह एवास्ति क्कचित् सामान्यकल्पने ।वृक्षस्य न ह्यपोह्यत्वं वृक्षेणैव कदाचन ॥१४०॥अपोह्ये चैव विज्ञानं ज्ञानत्वं न भवेत्तव ।वृक्षत्वं न ह्यपोह्येषु घटत्वादिषु युज्यते ॥१४१॥ततश्चाज्ञानमेवार्थ इत्यभिन्नार्थता भवेत् ।अज्ञानप्रत्ययश्चाsयं किमालम्बन इष्यते ॥१४२॥न तावज्ज्ञाननिर्मुक्तमज्ञानं ग्राह्यमस्ति ते ।ननु वस्तु निषिद्धं, तदभावः किं न गृह्यते ? ॥१४३॥भावो न गृह्यते येन तस्याsभावेषु का कथा ।स्वांशपर्यवसानं च तुल्यमत्रापि कारणम् ॥१४४॥ N/A References : N/A Last Updated : November 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP