संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्लोकवार्तिकभिधः|शून्यवादः| श्लोक १ ते २५ शून्यवादः श्लोक १ ते २५ श्लोक २६ ते ५० श्लोक ५१ ते ७५ श्लोक ७६ ते १०० श्लोक १०१ ते १२५ श्लोक १२६ ते १४४ शून्यवादः - श्लोक १ ते २५ कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी. Tags : sanskritshlokvartikmidhaश्लोकवार्तिकभिधःसंस्कृत श्लोक १ ते २५ Translation - भाषांतर एवमुक्ते sनुमानस्य ज्ञानमाश्रित्य दूषणे ।ज्ञानप्रवृत्त्यशक्त्या तु परः प्रत्यवतिष्ठते ॥१॥‘ यत्तावन्मन्यमानेन प्रत्यक्षं भवतोच्यते ।दूषणं तद्विरोधादि तदिदानीं परीक्ष्यताम् ॥२॥प्रवर्तितुं हि किं शक्तं स्तम्भाद्यर्थे बहिः स्थिते ।अथ वाssत्मांश एवैतदू ग्राह्ये त्तीणं न वस्तुनि ’ ॥३॥तद्यद्येतेन बाह्योsर्थो गृह्यते दूषणं ततः ।त्वदुक्तं सर्वमात्भांशे ग्राह्ये तन्नोपपद्यते ॥४॥तत्र तावदिदं सिद्धं सर्वप्राणभृतामपि ।ग्राह्यत्वं नीलपीतादिदीर्घाद्याकारवस्तुनः ॥५॥न चाsप्याकारभेदेन ज्ञानज्ञेयाsवधारणा ।न चाsन्यतरधर्मत्वं विस्पष्टं तत्र ( १ ) गृह्यते ॥६॥गृह्यमाणस्य चाsस्तित्वं नाsग्राह्यस्याsप्रमाणकम् ।तस्मादाकारवदू वस्तु ग्राह्यत्वाद्विद्यते ध्रुवम् ॥७॥‘ अतः परीक्षमाणानां ज्ञानमाकारवद्यदि ।तन्मात्रे च प्रमा क्षीणा ततो नास्त्यर्थकल्पना ॥८॥यदि वा ss कारवत्ता स्याद्बाह्यस्यैवेह वस्तुनः ।तदस्ति गृह्यमाणत्वात्तत्सिद्ध्यैवास्तिधीरपि ’ ॥९॥किं तावदत्र युक्तं स्यात् ? ज्ञानमाकारवत्, कुतः ?एकमाकारवद्वस्तु ग्राह्यम्त्यध्यगीष्महि ॥१०॥तद्यद्याssकारवानर्थो बाह्यः कल्प्येत तस्य च ।ग्राह्यत्वमन्यथा न स्यादिति ग्राहककल्पना ॥११॥तेनाssकारवतः क्लृप्तादू ग्राह्यादाकारवर्जितम् ।वस्त्वन्तरं प्रकल्प्यं स्वादू ग्राहकं निष्प्रमाणकम् ॥१२॥तस्याsकल्पनमिच्छंश्चेदर्थे ग्राहकतां वदेः ।संज्ञामात्रे विसंवादः सिद्धा त्वेकाsर्थकल्पना ॥१३॥ग्राह्यग्राहकयोरैक्यं सर्वथा प्रतिपाद्यते ।बाह्याभ्यन्तररूपश्च परिकल्प्यो मृषेष्यते ॥१४॥‘ मत्पक्षे यद्यपि स्वच्छो ( १ ) ज्ञानात्मा परमार्थतः ।तथाsप्यनादौ संसारे पूर्वज्ञानप्रसूतिभिः ॥१५॥चित्राभिश्चित्रहेतुत्वाद्वासानभिरुपप्लवात् ।स्वानुरूप्येण नीलादि ग्राह्यग्राहकदूषितम् ( २ ) ॥१६॥प्रविभक्तमिवोत्पन्नं नाsन्यमर्थमपेक्षते ’ ।अन्योन्यहेतुता चैव ज्ञानशक्त्योरनादिका ॥१७॥अनेककल्पनायाश्च ज्यायसी ह्येककल्पना ।शक्तिमात्रस्य भेदश्च वस्तुभेदाद्विशिष्यते ॥१८॥ ‘ तस्मादुभयसिद्धत्वाज् ज्ञानस्याssकारकल्पना ।ज्यायसी ’ भवतस्त्वर्थं कल्पयित्वा भवेदियम् ॥१९॥तदसिद्धावशक्तत्वात् तेनैवं विप्रकृष्टता ।प्रत्यासन्नं च सम्बद्धं ( १ ) ग्राह्यं मम भविष्यति ॥२०॥इतश्चाssकारवज्ज्ञानं यस्मात्तद्वत्प्रकाशकम् ।स्वयं प्रकाशहीनस्य बाह्यस्योपासनं मतम् ( १ ) ॥२१॥न चाsगृहीते ज्ञानाख्ये ( २ ) प्रकाश्योsर्थोवधार्यते ।तदधीनप्रकाशत्वाद्दीपाssभासे ( ३ ) यथा घटः ॥२२॥‘ उत्पन्नेष्वपि चाsर्थेषु प्रकाशाभावतः ( ४ ) क्कचित् ।प्रतिबन्धकयोगाद्वा संवित्तिर्नोपजायते ॥२३॥ज्ञानस्योत्पद्यमानस्य प्रतिबन्धो न कश्चन ।न चाsप्रकाशरूपत्वं येनास्याsग्रहणं भवेत ॥२४॥प्राक् चाsर्थग्रहणादिष्टा तस्योत्पत्तिस्तदैव च ।संवेदनं भवेदस्यं ’ न चेत् कालान्तरेsपि न ॥२५॥ N/A References : N/A Last Updated : November 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP