प्रत्यक्षसूत्रं - श्लोक १ ते २५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ( १ ) ॥४॥

वर्ण्यते सूत्र भेदेन येन प्रत्यक्षलक्षणम् ।
तेन सूत्रस्य सम्बन्धो वाच्यः पूर्वप्रतिज्ञया ॥१॥
लक्षणस्याsभिधानं तु केनांशेनोपयुज्यते ।
‘ किमर्थं चाsनुमानादेर्लक्षणं नात्र कथ्यते ॥२॥
न तावदप्रमाणत्वं तेषां नाप्य ( १ ) क्षुबुद्धिषु ।
शक्यते sन्तर्गतिर्वक्तुं नच लक्षणतुल्यता ’ ॥३॥
न चापि सिद्धिरेषां स्यादर्थात्प्रत्यक्षलक्षणात् ।
न हि तत्पूर्वकं सर्वं प्रमाणमिति निश्चितम् ॥४॥
प्रत्यक्षलक्षणोक्तिश्च नाsनुमानादिलक्षणात् ।
विना न सिघ्यतीत्येवमर्थात्तेपो न युज्यते ॥५॥
तदेतत्पूर्वकत्वे धीर्न च तल्लक्षणाद्भवेत् ।
तदुक्तेर्वाsनुमानादि किं न स्यात्तदपूर्वकम् ॥६॥
न च लक्षणभेदस्य स्वरूपेयत्तयोरपि ।
प्रत्यक्षलक्षणादेषां कथं चिदवधारणा ॥७॥
प्रसिद्धत्वादवाच्यत्वं प्रत्यक्षेsपि प्रसज्यते ।
तनाsन्यपरिसंख्यार्थं सूत्रं मूढेन वोच्यते ॥८॥
न त्वेकं लक्षयेदेषु बुद्धिपूर्वं कथञ्चन ।
सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते ॥९॥
‘ न चाप्येतेन सूत्रेण प्रत्यक्षं लक्ष्यते स्फुटम् ।
तदा भासे sपि तुल्यत्वात् ’ स्वप्नज्ञानै ( १ ) कवर्जनात् ॥१०॥
तद्वीन्द्रियार्थसम्बन्धव्यापारेण ( २ ) विना भवेत् ।
केन चित्संप्रयोगे तु भ्रान्त्यादि स्यान्नियोगतः ॥११॥
ग्राह्येणाsन्येन वेत्येतत्कृतं नैव विशेषणम् ।
संप्रयोगस्य येन स्याद्विशेषो वक्ष्यमाणवत् ॥१२॥
असामर्थ्यं च मत्वाsस्य वृत्तिकारेण लक्षणे ।
तत्संप्रयोगइत्येवं पाठान्तरमुदाहृतम् ॥१३॥
तेनान्येनापि संयोगे चक्षुरादेर्यदुत्थितम् ।
विषयाsन्तरविज्ञानं तत्प्रत्यक्षं प्रसज्यते ॥१४॥
सत्संप्रयोगनिर्देशो व्यर्थश्चेदेतदेव हि ।
प्रतिपाद्यं परस्यापि लक्षणाsसिद्धिरेव च ॥१५॥
स्वप्नादीनां निवृत्तिर्वा फलं तस्य भविष्यति ।
तस्माद्विध्यनुवादित्वं नाsनुक्ते लक्षणे भवेत् ॥१६॥
तेन नैषा वचोव्यक्तिर्यत्सतीन्द्रियसङ्गमे ।
विज्ञानं जायते तस्य प्रत्यक्षत्वं प्रतीयताम् ॥१७॥
प्रत्यक्षं यज्जने सिद्धं तस्यैवंधर्मकत्वतः ।
विद्यमानोपलम्भत्वं तेन धर्मेsनिमित्तता ॥१८॥
एवंलक्षणकत्वं च न स्वरोपविवक्षया ।
एवंलिङ्गकमित्येतद्भाष्यकारेण वर्ण्यते ॥१९॥
यतोsस्ति तत्र धर्मोsयं विद्यमानोपलम्भनम् ।
तस्मात्तेन प्रसिद्धेन गम्यतामनिमित्तता ॥२०॥
प्रत्यक्षत्वमदो हेतुः शेषहेतुप्रसिद्धये ।
अस्मदादौ प्रसिद्धत्वाद्योग्यर्थमभिधीयते ॥२१॥
प्रकृतेन च सम्बन्धः शेषाsप्रामाण्यदर्शनात् ।
तदप्रामाण्यसिद्धिश्च सम्बन्धादेरनीक्षणात् ॥२२॥
शक्यमन्याप्रमाणत्वमिति सूत्रैर्न पठ्यते ।
न च पर्यनुयोगोsत्र लक्षणाsनुपयोगतः ॥२३॥
न च न्यूनाsतिरेकादिप्रसङ्गो लक्षणं प्रति ।
सर्वथा लोकसिद्धत्वाद्धर्मोsयं तावदिष्यते ॥२४॥
ततश्च मृगतृष्णादि न प्रत्यक्षं प्रसज्यते ।
अनिमित्तप्रसङ्गस्तु तस्यापि न निवार्यते ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP