संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| षष्ठाष्टक| अष्टमोsध्याय: षष्ठाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठेsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: षष्ठाष्टक - अष्टमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती सोमवंशवर्णनं नाम षष्ठाष्टकेsष्टमोsध्याय: Translation - भाषांतर हरि ॐ ॥ सोम: पुनान: स्वर्योsस्ति तद्वंशोsथोच्यतेत्र तु ॥श्रीदत्तानुगृहीतानामुभयर्द्धि: स्फुटा यत: ॥१॥वंशेsस्मिन्नेव भगवान् श्रीकृष्ण: सकलोsभवत् ॥राजर्षयश्च बहुशो जयिन: कीर्तिशालिन: ॥२॥विष्णो: कोsत्रिस्ततोस्येन्द्रुर्गुरुपत्न्यां ततो बुध: ॥तत: पुरूरवा ऐल: शापभ्रष्टोर्वशीरत: ॥३॥ययोर्यशो जगौ वेदस्तत्पुत्रा: षट् सुकीर्तय: ॥आयु: श्रुतायु: सत्यायुरयश्च विजयो जय: ॥४॥क्रमेण तज्जा नहुषो वसुमांश्च श्रुतंजय: ॥एको भीमोsभितो भीमात्काञ्चनोsस्य च होत्रक: ॥५॥येन गण्डूषीकृता स्वर्गङ्गा जह्नु: स तत्सुत: ॥पुरुस्ततोsतो बलाकोsजकोsस्यास्य कुशस्तत: ॥६॥कुशांबुस्तस्य गाधीत: कन्या सत्यवती तु याम् ॥ऋचीको भार्गवो वव्रे शुल्कमश्वमयं ददन् ॥७॥जमदग्निस्तयो: पुत्र: पौत्रो रामस्तु राजवत् ॥इष्ट्यां चरुव्यत्ययेन योsवधीत्क्षत्रमुद्धतम् ॥८॥गीत: शौन: शेपवृत्ते ब्रह्मर्षित्वं तपोबलात् ॥योगाद्द्रष्टा च गायत्र्या विश्वामित्र: स गाधिज: ॥९॥ब्राह्मणोsयमपि क्षत्र: क्षत्रो रामो द्विजोsप्यभूत् ॥इदं तन्मातृविहितचरुव्यत्यासजं फलम् ॥१०॥पञ्चायोर्नहुषाद्या: स्यु: क्षत्रवृद्धात्सुहोंत्रक: ॥तज्जा: काश्य: कुशों गृत्समदोsस्माच्छुनकस्त्वृषि: ॥११॥काश्यात्काशिस्ततों राष्टस्ततो दीर्घतमास्तत: ॥रुघ्नो धन्वन्तरिस्तस्य केतुर्भीमस्ततस्तत: ॥१२॥दिवोदासो द्युमांस्तस्मात्तत: कुवलयाश्वक: ॥मदालसा यस्य पत्नी दत्तेशेन मृतापि या ॥१३॥जातं जातं सुतं तत्त्वज्ञानाद्यानयदात्मताम् ॥योगी सम्राट् ततोsलर्को राज्यं धर्मेण योsकरोत् ॥१४॥षट्षष्ट्यब्दसहस्रं य: श्रीदत्तेन समुद्धृत: ॥तत्पुत्र: संततिस्तस्मात्सुनीथाद्या महाधिय: ॥१५॥ययातिर्नाहुषो वव्रे कचशप्तां स शुक्रजाम् ॥देवयानीं तत्सेवार्थं शर्मिष्ठां कृतकिल्बिषाम् ॥१६॥शौक्ल्या यदुस्तुर्वसुश्चान्यातोsनुद्रुह्युपूरव: ॥भ्रष्टप्रतिज्ञो जरसा राजा शुक्रेण योजित: ॥१७॥तां जरामाददे पूरु: कामुकस्य पितुर्मुदा ॥सहस्राब्दं भुक्तभोगो विरक्तो दैवतो नृप: ॥१८॥भार्गव्यै प्राहाजगाथां तत्रायं श्लोक उत्तम: ॥मात्रा स्वस्रा दुहित्रा वा ना विभक्तासनो भवेत् ॥१९॥बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥स्वां जरां पुनरादाय पूर्ववत्तद्वयोsर्पयत् ॥२०॥विरक्त: सर्वभोगेभ्यो दत्त्वा राज्यं विभागश: ॥पुत्रेभ्यो लब्धसंज्ञोsगादाद्यं पदमनुत्तमम् ॥२१॥पुरोर्जन्मेजयोsस्य प्रचिन्वांस्तस्य प्रवीरक: ॥ततो नमस्युश्चार्वङ्घ्रिस्ततो सुद्युस्ततस्तत: ॥२२॥बहुगुस्तस्य संयातिस्तस्याहंयातिरस्य च ॥रौद्राश्वोsर्भान्घृताच्यां योऋतेय्वादीन्दशालमत् ॥२३॥ऋतेयो रन्तिभारोsस्य सुध्याप्रतिरथध्रुवा: ॥मध्यान्मेधातिथिप्रस्कण्वाद्या जाता महर्षय: ॥२४॥रैभ्य: सुधीतो दुष्यन्तस्तस्य यो मृगयां चरन् ॥मेनकायां समुद्भूतां विश्वामित्रात्तपस्विन: ॥२५॥शकुन्तलां वधूरत्नभूतां कण्वाश्रमस्थिताम् ॥गान्धर्वविधिना वव्रे ततोsभूद्भरतो महान् ॥२६॥यद्दक्षहस्ते चक्राङ्क: पद्मचिह्नं च पादयो: ॥सम्राड्भूत्वाsभवद्यज्वा श्रुतयो यद्यशो जगु: ॥२७॥महाकर्मास्य जाता नो जनिष्यन्ते न चेदृश: ॥तत्पत्न्योsसदृशान्पुत्राञ्जघ्नुर्भर्तृभिया तत: ॥२८॥मरुतोsदुर्भरद्वाजं राज्ञे यज्ञेन तर्पिता: ॥प्रजावत्यां च गर्भिण्या जीवो रेमे तत: पुन: ॥२९॥गर्भोsस्थात्तं भिया सैच्छत्त्यक्तुं तामब्रुवन्सुरा: ॥मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ॥३०॥इत्युक्तेर्यो भरद्वाजो दत्तकोsभूत्स भारत: ॥त्यक्त: पितृभ्यां मरुतोsबिभ्रन्तेस्मै ददुर्मुदा ॥३१॥प्राप्तो वितथवंशेsसौ वितथो मन्युरस्य च ॥बृहत्क्षत्रमहावीर्यनरगर्गजयास्तत: ॥३२॥नरज: संस्कृतिस्तज्जौ रन्तिदेवगुरू शुभौ ॥गर्गात्क्षत्रान्महावीर्यादुद्भूता द्विजयोनय: ॥३३॥बृहत्क्षत्राद्धस्तिनेशो हस्तीत: पुरुमीढक: ॥अजमीढो द्विमीढश्च मध्याद्बृहदिषुस्तत: ॥३४॥बृहद्धनुर्बृहत्कायोsम्यास्य पुत्रो जयद्रथ: ॥विशदोsस्य तत: सेनजित्तस्य रुचकादय: ॥३५॥विप्राद्यु मीढान्नीलर्क्षावजर्मीढाच्च नीलत: ॥शान्ति: सुशान्तिस्ततोsत: पुरुजोsर्कोsस्य तस्य च ॥३६॥भार्म्यश्वोsस्मान्मुद्गलाद्या ज्येष्ठात्क्षत्र: प्रतापवान् ॥दिवोदासोsस्मान्मित्रेयश्च्यवनोsस्य सुदासक: ॥३७॥ततोsस्य सहदेवोsस्य सोमकोsस्य पृषत्तत: ॥द्रुपदो द्रौपदी धृष्टद्युम्नपूर्वास्ततोsथ च ॥३८॥ऋक्षात्संवरणस्तस्य कुरुर्जहून्वादयस्तत: ॥इतो जरासन्धमुखा: सुरथो जह्नुजस्तत: ॥३९॥विदूरथो राट् च ततो जयसेनोsस्य राधिक: ॥ततो युत: क्रोधनोsतोsस्य दैवातिथिरस्य च ॥४०॥ऋष्यस्तस्य दिलीपोsस्य प्रतीपस्तस्य शन्तनु: ॥बाह्लीको योगिदेवापि: सोमदत्तोsथ बाह्लिकात् ॥४१॥ततो भूर्याद्या गङ्गायां सन्भीष्म: शन्तनोर्यत: ॥शाक्त्यात्कानीनो विष्ण्वंशोव्यासोsस्यां चित्रवीर्यक: ॥४२॥तत्क्षेत्रजावन्धपाण्डू गोलौ व्यासाच्च पाण्डवा: ॥धर्मभीमार्जुना: कुण्डा यमवातेन्द्रतोsश्वित: ॥४३॥नकुल: सहदेवश्च पुत्रा एषां रणे हता: ॥अर्जुनादभिमन्युस्तज्ज: परीक्षिद्धरिप्रिय: ॥४४॥जनमेजयराजोsत: श्रुतस्तिष्येsहिसत्रकृत् ॥धृतराष्ट्राच्छतं दुर्योधनाद्यास्ते रणे मृता: ॥४५॥पाण्डवा ईदृशोsपीशभक्त्या पूता दिवं गता: ॥सर्वदाभिमता साध्वी द्रौपदी पञ्चपत्न्यपि ॥४६॥लाक्षागाराद्गराद्धोराद्वनवासच्छलाद्रणात् ॥कौरवोपद्रुतान्पार्थान्पर्यरक्षज्जनार्दन: ॥४७॥श्रीकृष्ण: सारथिर्येषां कुतस्तेषां पराभव: ॥अनो: सभाद्या बभ्र्वाद्या द्रुह्योर्वह्निश्च तुर्वसो: ॥४८॥यदोश्चत्वार: सहस्रजितोsत्र शतजित्तत: ॥हैहयस्तस्य धर्मोsस्य नेत्र: कुन्तिस्ततस्तत: ॥४९॥सोहंजिस्तज्जो महिष्मान्भद्रोsस्य धनकोsस्य च ॥कृतवीर्यो दत्तभक्तोsर्जुनोsस्यास्यामिता हता: ॥५०॥वृष्णि: शिष्टान्मधोस्तस्माद्वार्ष्णयं यादवं कुलम् ॥क्रोष्टोर्वृजिनवान्श्वोहिस्ततस्तस्माद्रुशेकुरित् ॥५१॥चित्रोsस्य शशबिन्दुर्योग्यमितार्भ: पृथुश्रवा: ॥ततोsस्य धर्म उशनास्तस्यास्य रुचकस्तत: ॥५२॥ज्यामघोsस्माद्विदर्भोsस्य क्रथ: कुन्तिस्ततस्तत: ॥धृष्टिस्ततो निवृत्तिस्तज्जो दशार्होsस्य व्योमक: ॥५३॥जीमूतोsस्यास्य विकृतिस्तस्य भीमरथस्तत: ॥नवरथो दशरथोsस्य तस्य शकुनिस्तत: ॥५४॥करम्भिर्देवरातोsस्य देवक्षत्रस्ततस्तत: ॥मधु: कुरवशोsस्यास्यानुस्तस्य पुत्रहोत्रक: ॥५५॥तस्यायु: सात्वतस्तस्य भजमानोsस्य वृष्णिक: ॥युधाजित्तस्यानमित्रोsस्यास्य वृष्णिर्विदूरथ: ॥५६॥तस्यास्य शूरोsथ तस्य भजमानस्तत: शिनि: ॥स्वयं भोजोsस्यास्य हृदीकोsस्य शूर: कृती तत: ॥५७॥वसुदेवोsस्य बहवो रामकृष्णाविहेश्वरौ ॥वृष्ण्यन्यवंशेन्धकोग्रसेनकंसादयोsमिता: ॥५८॥यदोर्नलारिसंज्ञौ यौ तद्वंशोsपि महानभूत् ॥सोमवंशस्य विस्तार: संक्षेपेणात्र दर्शित: ॥५९॥इह योगीन्द्रराजर्षिपुण्यश्लोका अनन्तश: ॥कलया भगवान्साक्षाद्वासुदेव इहाभवत् ॥६०॥उक्तप्रायोsवतारोsयं कृष्णस्य परमात्मन: ॥रुक्मिण्यादिवधूत्पन्ना: कामाद्या अमिता: सुता: ॥६१॥सर्वेशत: सुरा जाता भूमिभारापनुत्तये ॥कृष्णसेवां विधायान्ते स्वधामापु: सहात्मना ॥६२॥वैकुण्ठं गत इत्येष व्यवहारस्तु मायिक: ॥द्वार्वत्यां मथुरायां चाद्यापि सन्निहितो हरि: ॥६३॥तथैव रामोsयोध्यायां द्वौ चेमौ कामदौ नृणाम् ॥स्वांशसृष्टौ यथैकोsयं श्रीदत्तो भ्राजतेतराम् ॥६४॥रामकृष्णौ तथार्केन्दुवंशयोरपि कामदौ ॥राजानो मनुवंशीया बहवोsर्केन्दुवंशजा: ॥६५॥कृत्वेश्वरे परां भक्तिं भेजु: सायुज्यमात्मना ॥एवं येsमुं निर्विशेषं साक्षात्कर्तुमनीश्वरा: ॥६६॥मन्दा अपि दुराचारा विषयाकृष्टचेतस: ॥सर्वे तेsप्यनुकम्प्यन्ते सगुणब्रह्मशीलनात् ॥६७॥अष्टकैरेभिरत्रोपासनाकाण्डं निरूपितम् ॥प्रीयाद्भक्तिप्रियोsनेन भक्तिगम्यस्त्र्यधीश्वर: ॥६८॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे षष्ठाष्टकेsष्टमोsध्याय: ॥८॥॥ इति षष्ठाष्टक: समाप्त: ॥ उपासनाकाण्डं संपूर्णम् ॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP