संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| षष्ठाष्टक| पञ्चमोsध्याय: षष्ठाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठेsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: षष्ठाष्टक - पञ्चमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती यदवे चतुर्विंशतिगुर्वाप्तज्ञानदानं कृष्णावतारकथनं नाम षष्ठाष्टके पञ्चमोsध्याय: Translation - भाषांतर हरि ॐ ॥ आ त्वावतोsपि सर्वेषां मनोहारि जगद्गुरो ॥धर्म्यं यशस्यमायुष्यमवाचि चरितत्रयम् ॥१॥आसीद्राजा यदुर्नाम सोमवंश्यो महामति: ॥धर्मात्मा नीतिमान्दक्ष: श्रीदत्तार्चनतत्पर: ॥२॥राज्यं शशास बह्वब्दं कदाचित्पर्यटन्स गाम् ॥ददर्श निर्भयं दक्षमवधूतं कविं सुधी: ॥३॥तं नत्वोचे जन: प्राय: श्र्यायु:कीर्त्यृद्धिहेतुक: ॥पुमर्थानीहते त्वं तु कल्पोsपि न तथा कथम् ॥४॥तप्यमाने जने कामवह्निनाsपि न तप्यसे ॥निष्कामोsसि कुतोsकर्ता रोचते चेद्वद प्रभो ॥५॥इत्युक्तस्तं प्रभु: पुंसा श्रेयसे प्राब्रवीत्परम् ॥तत्त्वं बुध्द्याश्रितगुरुशिक्षितज्ञानमात्मन: ॥६॥मदर्चकोsस्यतो राजन्समाधाय मन: श्रृणु ॥चतुर्विंशतिराचार्या: सन्ति मे बुध्द्युपाश्रिता: ॥७॥यच्छिक्षयेदृशो भूमा मुक्तसङ्गश्चरे महीम् ॥वक्ष्ये येभ्यो मया यद्यच्छिक्षितं शीघ्र्मुक्तिदम् ॥८॥न दैवानुगभूतार्त: क्ष्मेव धीर: सृतेश्चलेत् ॥सदा परार्थोद्भवेहो नगाच्छिक्षेत्परात्मताम् ॥९॥प्राणवृत्त्याsक्षिप्तहृद्वाग्विद्भृत्तुष्येन्न गोप्रियै: ॥तद्भुग्दोषगुणास्पृग्विधर्मासक्तश्च देहग: ॥१०॥गुणाश्रयो गुणैर्युज्येन्न गन्धैर्वायुवत्स्वदृक् ॥कालोत्थगुणतेजोsब्भूमयभावस्पृगित्पुमान् ॥११॥वायूत्थाद्वास्पृक्खवच्चान्तस्थेनाभिदसंगती ॥भाव्ये सर्वान्वयव्याप्त्या ब्रह्मात्वत्वात्ततात्मन: ॥१२॥रस्य: स्निग्ध: प्रकृत्याच्छोsज्ञोब्वधाम्ना पुनाति नॄन् ॥छन्न: स्पष्टोsपि काम्यर्च: प्रागुदग्दात्रघं दहन् ॥१३॥क्कापि भुङ्क्ते तपस्तेजोदीप्तोsक्षोभ्योsपरिग्रह: ॥मलास्पृक् सर्वभक्षोsपि ज्ञोsग्निवच्चेन्धसीयते ॥१४॥तत्तद्रूप: स्वमायोत्थोच्चासत्स्थेशोsग्निहेतिवत् ॥कालान्नित्येsपि दृश्येते नात्मभूतोद्भवक्षती ॥१५॥देह: कलावद्विकारी कालेनात्माsव्जवद्ध्रुव: ॥भात्यात्मा तत्स्थवद्व्यक्तो न स्वस्थो बुध्यतेsर्कवत् ॥१६॥स्थूलबुध्द्याsर्कवद्गोभिर्गा यथास्वं गुणैर्गुणान् ॥आदत्ते विसृजत्यत्र सदा योगी न युज्यते ॥१७॥नातिस्नेहप्रसङ्गाक्तो नश्येद्दीन: कपोतवत् ॥कश्चित्कपोत: कपोती क्रीडादौ चेरतुर्वने ॥१८॥प्रेम्णाsशङ्कं मिथो बद्धध्यक्ष्यङ्गौ पाति स श्रमात् ॥तर्पयन्ती साsसूताsर्भांस्तांस्तौ पुपुषतुर्मुदा ॥१९॥कदाचिल्लुब्धको नीडाद्बहि:स्थांस्ताञ्छिचाददे ॥क्रोशन्तीं पतितान् दु:खात्तां तं चापस्मृतिं तथा ॥२०॥द्वन्द्वराम: प्रियाsशान्तो ग्रुहासक्तो विवन्नर: ॥क्रान्तापावृतमुक्तिद्वार्नुजन्मच्युत एव स: ॥२१॥क्काप्यस्त्यैन्द्रियसौख्यं तन्नेच्छेदाजगरोsक्रिय: ॥यदृच्छयाssप्तं महान्तं ग्रासं वाsल्पं रसारसम् ॥२२॥भक्षेच्चेन्नाप्तोsनशनो दैवभुक् सर्पवत्स्वपन् ॥विनिद्रोsक्रियबल्यङ्गधृग्गोमानपि नेहते ॥२३॥पूर्णो हीनोsप्यजपरो न सर्पति न शुष्यति ॥ज्ञोsब्धिवत्सिन्धुभिर्निंम्नोsनन्तपारो दुरत्यय: ॥२४॥सदाsक्षोभ्यो दुर्विगाह्य: प्रसन्नस्तिमिताब्धिवत् ॥नाsवशोsग्नौ विवन्नश्येत्स्त्रीलीलारूपमोहित: ॥२५॥गृह्णीयात्सर्वत: सारं रमेन्नैकत्र चाल्पभुक् ॥संग्रहे नाशबीजेsपि मधुकृद्वन्मुनि: सदा ॥२६॥बध्येत नाङ्गनास्पर्शाच्छूरैर्हन्येत वेभवत् ॥अन्योsकात्संचितं लुब्धैर्न भुक्तं नार्पितं धनम् ॥२७॥भुङ्क्तेsकार्जितगृह्यन्नं प्राग्भिक्षुमधुहेव च ॥ना बध्येतैणवद्गीतान्नृत्याद्वाsप्यृष्यशृङ्गवत् ॥२८॥प्रमाथिजिह्वया नैति बडिशैर्मत्स्यवल्लयम् ॥जय्याल्पभुक्त्या साsसक्त्या जितं सर्वं जिते रसे ॥२९॥वेश्यैकार्थदकान्ताशा ध्वस्तनिद्रा सुखावहम् ॥चिन्ताहेतुं हि निर्वेदं गत्वाssत्मस्थं रतार्थदम् ॥३०॥रामं हित्वा कुवृत्त्याsन्यं भीशुड्मोहदमध्रुवम् ॥काड्क्षे धिङ् मात्मनात्मानं रमे क्रीत्वाsमुनेति सा ॥३१॥भत्वा तथाsभूध्द्याशा कं नैराश्यं परमं सुखम् ॥परिग्रहोsकाय तज्ज्ञोsस्वोsप्यनन्तसुखायते ॥३२॥सामिषं कुररं हन्ति शूरोsतो व्यामिष: सुखी ॥मानावमानचिन्तोन: स्वक्रीड: स्वरति: सुखी ॥३३॥बालवद्धि जडोsज्ञोsर्भश्चात्मानन्दो गुणातिग: ॥भंक्त्वैकैकं महारावान् रणन्तौ द्वौ कुमार्यपि ॥३४॥पाण्योर्धृत्वैकैकशङ्खं रह:कृत्येsलभत्सुखम् ॥कलिर्भूम्नि द्वयोर्वार्ता ह्येकस्तच्छङ्खवच्चरेत् ॥३५॥एकचार्यप्रमत्तोsल्पवाग्गुहास्थोsगृहो मुनि: ॥एकोsहिवद्वत्यलक्ष्यो गृहारम्भोsध्रुवात्मन: ॥३६॥विफलोsकायसर्पोsन्यकृतधाम्न्येधते सुखम् ॥जितश्वासासनेनेशे वैराग्याभ्यासबद्धहृत् ॥३७॥संयुक्तं वासनां मुक्त्वा सत्ववृध्द्यैत्यनिन्धनम् ॥निर्वाणं वेत्यतो नान्तर्बहिस्थं मुनिरात्मदृक् ॥३८॥यथेष्वितात्मेषुकृन्नो वेदेनं यान्तमग्रत: ॥प्रेम्णाsप्य्चलहृध्द्यानाद्विष्णो: सारूप्यमेति ना ॥३९॥प्राग्रूपमुत्स्रुजन्पेशस्कृध्द्यानात्कीटवद्द्रुतम् ॥यथोर्णनाभिस्ततोर्णाविहार्यन्तेsत्ति तां तथा ॥४०॥प्राक्खमायासृष्टमेक: संहृत्याsभूत्क्षयेsद्वय: ॥शक्त्याsखिलाश्रय: सर्वेट् कालेनात्मानुभावत: ॥४१॥साम्येतसत्वादिशक्ति: प्रधानपुरुषेडज: ॥व्युपाधि: परमानन्दो मोक्षाख्य: स: परावर: ॥४२॥गुणात्मिकां स्वमायां स क्षोभयन्स्वानुभावत: ॥तया सृजति सूत्रं सा त्रिगुणा शक्तिरासृजत् ॥४३॥विश्वं यस्मिन्प्रोतमेतद्येन संसरते पुमान् ॥देहात्स्तो बोधवैराग्ये पारक्यात्सोद्भवक्षयात् ॥४४॥आत्मेष्टभृत्सृष्टबीज: प्रियेच्छुर्नश्यति द्रुवत् ॥गाव: स्वार्थे सपत्नीवत्तं लुनन्ति हि दुर्लमम् ॥४५॥मत्वा नृजन्म तद्वित्क्ष्मां चरेन्मुक्तोsनहंकृति: ॥तच्छ्रुत्वा समचित्तोsभून्मुक्तसङ्गो यदुर्द्रुतम् ॥४६॥कृतार्चनप्रभावेन संजातत्र्यात्मदर्शन: ॥तेनैव बोधित: साक्षात्सोsयमात्मेति वेद तम् ॥४७॥नत्वा त्रीशं तदादिष्टो यदु: स्वैरं चचार गाम् ॥तद्रूपं पूजयन्विश्वं सत्तास्फूर्त्यन्वितं मितम् ॥४८॥दत्तप्रसादात्तद्वंशविस्तरोsभूदिहोन्नत: ॥कृष्णोsज: सकलो वृष्णिकुले भूभारहाsभवत् ॥४९॥स्वान्तं मत्वा स्वसु: पुत्राद्देवक्यास्तां च तत्पतिम् ॥वसुदेवं निगृह्यार्भांस्तयो: कंसो जघान षट् ॥५०॥तद्गर्भ: सप्तमोsजांशो रोहिण्यां मायया व्रजे ॥क्षिप्त ईशाज्ञया सोsथ बलभद्राभिधोsभवत् ॥५१॥देवक्या: प्रादुरासाज: स्वधाम्ना प्राह मां व्रजे ॥नन्दजां चानयहेति पितरं स तथाकरोत् ॥५२॥कैरपीदं न च ज्ञातं विष्णुमायाप्रभावत: ॥तत्कन्यां हन्तुमुद्युक्तात्कंसात्साप्युत्पपात खे ॥५३॥सा माया प्राह रे दुष्ट त्वच्छत्रु: क्कापि वर्धते ॥तच्छ्रुत्वा दुष्टसङ्गी स बालान्हन्तुं समुद्यत: ॥५४॥तेनेरिता पूतनैत्य व्रजे स्तन्यमिषाद्विषम् ॥कृष्णायापाययत्सोपि पपौ तदसुभि: समम् ॥५५॥बकधेनुकवात्याघकेश्यादीन्कंसचोदितान् ॥समागतान्स्वनाशार्थं मायार्भोsप्यहनद्धरि: ॥५६॥धात्रा कृष्णपरीक्षार्थं वत्सपालास्तदग्रत: ॥नीता: स्वलोकं तद्गर्वं तादृक्सृष्टिकरोsहरत् ॥५७॥तत्स्नेहबद्धो भगवान्गव्यस्तेयादिलीलया ॥व्रजस्थान्हर्षयञ्छ्रीदपुत्रशापमपाकरोत् ॥५८॥ववर्ष कल्पवद्गोष्ठे गर्वितेन्द्रोsपमानत: ॥गोवर्धनधरोsरक्षत्सप्ताब्दोsपि हरि: स्वकान् ॥५९॥भक्तिं ज्ञात्वा व्रताद्गोपीरासोल्लासभरो निशि ॥वेणुध्वन्याहूय सर्वा रमयामास सर्वश: ॥६०॥यथाssप्तकामोsप्यात्मैको बुद्धिवृत्ती: सहस्रश: ॥तदन्तस्थो रमयतीवानुरूपस्तथाप्ययम् ॥६१॥एवमाद्या व्रजे लीला: कृत्वाssनीत: पुरं हरि: ॥कंसं समल्लं लीलातोsहनद्रेमे च कुब्जया ॥६२॥यवनं घातयित्वा तु जरासंधबलापहा ॥निर्माय द्वारकामुग्रं यादवेशं चकार स: ॥६३॥श्रीरुक्मिणीं स्वयं वव्रे प्रमथ्य तरसा नृपान् ॥जघान शिशुपालादीन्पाण्डवेभ्योsपरानरीन् ॥६४॥भौमं हत्वा षोडशस्त्रीसहस्रेशोsभवत्स्वयम् ॥कृत्वाप्यर्जुनसारथ्यमुत्तीर्य च भुवो भरम् ॥६५॥स्वकुलं ब्रह्मशापेन मत्तं नाथोsप्यनाशयत् ॥भूभारोsपि हृतो येन कल्पं धामापि तज्जहौ ॥६६॥कण्टकं कण्टकेनेव द्वयं चापीशितु: समम् ॥लोकं सपरिवारोsगाद्भूयोsपि हि दयानिधि: ॥६७॥स गीताद्यात्मभूतं स्वभक्तोद्धृत्यै निधाय सत् ॥६८॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे षष्ठाष्टके पञ्चमोsध्याय: ॥५॥॥ इति यदवे चतुर्विंशतिगुर्वाप्तज्ञानदानं कृष्णावतारकथनं नाम षष्ठा० पञ्च० ॥६।५॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP