द्वितीयाष्टक - सप्तमोsध्याय: :

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


सेमावात्मसमौ मत्वा युयुत्सु: पार्षदौ प्रभु: ॥
शापं शान्तकुमारेभ्य: स्वेच्छयाकल्पयद्दिवि ॥१॥
एकदाsव्याहतस्वैरगता विष्णुं दिदृक्षव: ॥
सनकाद्या हि वैकुण्ठं प्रापुर्भगवतोत्तमा: ॥२॥
प्रविशन्तो निषिद्धास्ते जयेन विजयेन च ॥
क्रुद्धा: शापं ददुस्ताभ्यां भवेतामसुराविति ॥३॥
ताभ्यां क्षमापितास्ते तु विष्णुना च पुनर्जगु:॥
त्रिजन्मान्ते पुनर्विष्णुप्रसादादिह वां गति: ॥४॥
ततस्तौ कश्यपाद्दित्यां क्रूरौ जातौ सुरद्विषौ ॥
संध्यायां रतियोगाच्च हठाद्दित्या: फलं त्विदम् ॥५॥
दित्यानुतप्तयाप्येष संस्तुत: कश्यपोsब्रवीत् ॥
पुत्रौ विष्णो: सद्गतिगौ पौत्रस्ते वैष्णवो भवेत् ॥६॥
जातौ हिरण्यकशिपुहिरण्याक्षाभिधौ तत: ॥
त्रिलोकीं लोकपालांश्च पीडयामासतुर्भृशम् ॥७॥
विधिं पराजिता देवा: शरणं जग्मुरातुरा: ॥
चिन्ताविष्टस्य नासात: कस्य पोत्री तदापतत् ॥८॥
यज्ञवाराहमतुलं रूपं दृष्ट्वाखिला: सुरा: ॥
अजोsयमिति मत्वा तं सूक्तै: संतुष्टुवुर्भृशम् ॥९॥
ईशेsनीशत्वमापन्ने विमुखे च चुतुर्मुखे ॥
मग्नास्तौषीत्क्ष्मा तदापि स्तब्धरोमाभवद्धरि: ॥१०॥
दीनानाथपतिस्तुष्टो दीनां गां दंष्ट्रयोद्धरन् ॥
तद्देवताहरं क्रूरं हिरण्याक्षं ददार ह ॥११॥
संस्थाप्य पूर्ववद्भूमि तदाधारो ययौ शमम् ॥
क्रुद्धोनुजे हतेsथान्यो द्युलोकमजयत्क्षणात् ॥१२॥
अन्तर्बहिर्दिवा नक्तं न देवान्न मृगाच्च नु: ॥
सजीवान्नपि निर्जीवादवध्यत्वं गतो विधे: ॥१३॥
तद्भार्या गर्भिणी जाता कयाधूर्भाग्यवत्यथ ॥
तां लब्धान्तर इन्द्रोsपि धृत्वा हन्तुं समुद्यत: ॥१४॥
तदैव नारदोsभ्येत्य गर्भोsयं वैषणवस्त्वया ॥
स्वक्षेमकृन्न हन्तव्य इत्यूचे सोपि तां जहौ ॥१५॥
वैष्णवोत्तमसामर्थ्यं किं वाच्यं गर्भगोsप्यहो ॥
आददे वैष्णवीं दीक्षां गर्भोsप्यसुरवीर्यज: ॥१६॥
तत: सा सुषुवे पुत्रं महाभागवतं शुभम् ॥
स्वपितुर्जातमात्रेण येनास्यं कलुषीकृतम् ॥१७॥
तत: प्रह्लादनामासौ ववृधेsरिभयंकर: ॥
काले काव्येनोपनीत: शिक्षितोsप्यभजद्धरिम् ॥१८॥
तर्जनादरणाद्यै : स न बिभेतीति तत्पिता ॥
श्रुत्वा विषीदंश्चान्येषु वैष्णवाचारशिक्षणात् ॥१९॥
स्वशत्रुपक्षपातीति पुत्रं मत्वाsसुराधम: ॥
विहय पुत्रसंबन्धं तं निहन्तुं मनो दधौ ॥२०॥
भृगुपाताग्नितोयाद्यैर्मृत्यवे कल्पितोsपि स: ॥
सर्वाधीशमहाविष्णुपदसेवी ममार नो ॥२१॥
तदा तं प्राह रे दुष्ट लोकशास्तुर्ममाग्रत: ॥
किंबलो निर्भयोस्येतं ध्यायसे स क्क तिष्ठति ॥२२॥
श्रुत्वापि परुषं वाक्यं प्रहादो भयवर्जित: ॥
सर्वभूतसम: प्राह पितरं चिन्तयन्हरिम् ॥२३॥
बलं बलवतां विष्णुस्तं विना कस्य किं बलम् ॥
स सर्वत्र स्थितोsधीशो यं लब्ध्वास्य कुतो भयम् ॥२४॥
यदि सर्वगतोsस्त्येष स्तम्भेsस्मिन्विद्यते न वा ॥
इत्युक्तो जनकेनासावत्राप्यस्तीत्युवाच तम् ॥२५॥
तत: क्रुद्धस्तदा दैत्य: पदा स्तम्भं जघान ह ॥
तदाssविरास भृत्योक्तमृतं कर्तुं ततो हरि: ॥२६॥
सिंहास्यं मनुजाकारं करालं तं नखायुधम् ॥
चित्रं दृष्ट्वाsसुरस्तद्भापिहिताक्षोsप्ययुध्यत ॥२७॥
हरि: खिन्नानृषीन्देवान्भृत्यं च प्रेक्ष्य पीडितम् ॥
वरदोक्त्यविरोधात्तं दधौ हन्तुमपि च्युतम् ॥२८॥
नखैर्ददार कृत्वोर्वोस्तद्वक्षोद्वारमध्यत: ॥
संध्यायां स दधौ चण्डस्तदन्त्रं माल्यवद्गले ॥२९॥
हाहाकृतं च तत्सैन्यं जघान ववृष: सुरा: ॥
पुष्पाण्यप्सरसोsन्ये च ननृतुश्च जगुस्तदा ॥३०॥
अदृष्टपूर्वचित्रोग्ररूपं शेकुर्न वीक्षितुम् ॥
दृष्टकामा अपि सुरा: श्रीश्च भीमोच्चनि:स्वनम् ॥३१॥
तै: प्रेषितोsथ प्रहाद: सटाक्षिप्तभमुग्रगुम् ॥
दृष्ट्वा करालमप्याह निर्भयो नृहरिं नमन् ॥३२॥
हरे प्रशममेह्यद्य नायं कल्प उपस्थित: ॥
स्वभक्तञ्छक्रतो गुप्तान्कृपयेक्षितुमर्हसि ॥३३॥
त्रिलोकशीर्षरोगोsयं हतो दिष्ट्या न ते प्रभो ॥
दु:सह: सोsपि पापोsद्य साक्षान्मुक्त: करेण ते ॥३४॥
पामरेsनुग्रहो योsसौ मन्ये प्राक्पुण्यराशिज: ॥
अन्यथेशास्य पापस्य मोक्षशड्का कुतो हरे ॥३५॥
कृपालो ते नमोsद्य त्वं प्रसन्नो भव सुव्रत ॥
देवान्पूर्ववदाश्वास्य स्वाधिकारे नियोजय ॥३६॥
एवं भक्तार्थितो विष्णुर्ययौ शान्तिं तदामरा: ॥
तस्मै नत्वा तदाज्ञसा: सर्व स्वं स्वं पदं ययु: ॥३७॥
तिरोदधेsपि भगवांस्तद्रूपं तारमैच्छिकम् ॥
प्रहादोsपि तदाज्ञप्त: पित्र्यं राज्यं शशास सन् ॥३८॥
आबाल्यं नारदादेशाद्धर्मे भागवते रत: ॥
भूत्वाप्यनात्मवित्त्वेन शान्तिं न परमां ययौ ॥३९॥
औदासीन्येन स वनं पर्यटन्मृतगयामिषात् ॥
भाग्याद्ददर्श सह्याद्रौ कावेर्यां निद्रितं भुवि ॥४०॥
कर्माद्यैर्वर्णलिङ्गाद्यैरप्रतर्क्यं रजस्वलम् ॥
नत्वा प्राहावधूतं तं निगूढामलतेजसम् ॥४१॥
कथं भोगीव धत्तेsस्व: पीनां तनुमनुद्यम: ॥
उद्योगात्स्वं ततो भोगो भोगोत्पीना तनुर्भवेत् ॥४२॥
शयानोsनुद्यमोsनीहो भवानिह तथाप्यसौ ॥
पीना तनु: कथं सिद्धो भवान्वदतु चेत्क्षमम् ॥४३॥
विद्वान्दक्षोपि चतुरश्चित्रप्रियकथो भवान् ॥
दृष्ट्वापीह जनांश्चित्रकर्मणो वर्तते सम: ॥४४॥
इत्थं श्रीभगवांस्तेन प्रहादेनात्रिनन्दन: ॥
संपृष्ट: प्राह संतुष्ट: कृपालु: प्रहसन्निव ॥४५॥
श्रीनृसिंहोsवतीर्णोsत्र यदर्थं स त्वमेव हि ॥
दैत्यजोsपि मुनिच्छात्र श्रृणु भागवतोत्तम ॥४६॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां ज्ञानकाण्डे द्वितीयाष्टके वराहनृसिंहावतारलीलाकथनं नाम सप्तमोsध्याय: ॥७॥
इति श्रीदत्त० वराहनारसिंहावतारौ नाम द्वितीयाष्टके सप्तमोsध्याय: ॥२।७॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP