संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|व्यतिरेक अलंकारः| लक्षण ३ व्यतिरेक अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० व्यतिरेक अलंकारः - लक्षण ३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ३ Translation - भाषांतर उदाहरणम्-‘ कटु जल्पति कश्विदल्पवेदी यदि चेदीदृशमत्र किं विदष्म: । कथमिन्दुरिवाननं त्वदीयं सकलड्क: स कलड्कहीनमेतत् ॥ ’अत्रोभयोरुपादानम् । उपमा च श्रौती । अत्रैव ‘ कथमिन्दुरिवाननं तवेदं द्युतिभेदं न दधाति यत्कदापि ’ इति कृते , द्युतिभेदं खलु यो दधातिनित्यम् ’ इति वा कृते एकतरानुपादानम् । सा च । ‘ कथमिन्दुरिवाननं मृगाक्ष्या भवितुं युक्तमिदं विदन्तु सन्त: ’ इति कृते हेतुसामान्यानुपादानम् । सा च । हेतुद्वये हि यस्यैवानुपादानं तस्याक्षेपेणावगति: । उभयोरप्यनुपा-दाने तथैव न त्वनवगति: , व्यतिरेकम्योत्कर्षापकर्षरूपत्वात् । तयोश्च प्रयोजकज्ञानमन्तरेणानवबोधात् । एवम्-‘ नयनानि वहन्तु खञ्जनानामिह नानाविधमड्रभड्रभाग्यम् । सदृशं कथमाननं सुशोभं सुदृशो भडुरसंपदाम्बुजेन ॥ ’अत्रोभयोपादानम् । आर्थी च । ‘ वदनं तु कथं समानशोभं सुदृशो भडुरसंपदाम्बुजेन ’ [ इति ], ‘ शाश्वतसंपदम्बुजेन ’ इति च कृते एकतरा-नुपादानम् । सा च । ‘ सद्दशं कथमाननं मृगाक्ष्या भविता हन्त निशा-धिनायकेन ’ इति कृते उभयानुपादानम् । सा च । पूर्वार्धे तु निदर्शनैव । ‘ कतिपयदिवसविलासं नित्यसुखासड्रमड्रलसवित्री । खर्वयति स्वर्वासं गीर्वाणधुनीतटस्थितिर्नितराम् ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP