व्यतिरेक अलंकारः - लक्षण ९

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत एव ध्वनिकृता सह्लदयधुरन्धरेण ‘ सुकविस्तु रसानुसारेण क्कचि-दलंकारसंयोगं क्कचिदलंकारवियोगं च कुर्यात्‍ ’ इत्युक्त्वा ‘ रक्तस्त्वं-’ इति पद्यं सादृश्यदूरीकरणे उदाजह्ले । अत एव च मम्मटभट्टे: ‘ आधिक्य-
मात्रं व्यतिरेक: ’ इत्युक्तम्‍ । निरस्तं च न्यूनत्वं व्यतिरेके इति । तस्मा-दुपमानादुपमेयस्योत्कर्ष एव व्यतिरेकालंकार:, नापकर्ष इति स्थितम्‍ । यदि तु न्यूनत्वमपि व्यतिरेक इत्याग्रहस्तदेदमुदाहार्यम्-
‘ जगत्रयत्राणधृतव्रतस्य क्षमातलं केवलमेव रक्षन्‍ । कथं समारोहसि हन्त राजन्सहस्रनेत्रस्य तुलां द्विनेत्र: ॥ ’
अत्र धर्मद्वयेनैव न्यूनो‍ऽसि धर्मान्तरेण तु सम इति प्रतीतिकृतविच्छि-त्तिविशेषादलंकारता । एवं च लक्षणे‍ऽपकर्षोऽप्येवंजातीयो देय: ।
यदपि कुवलयानन्दकृतानुभयपर्यवसायिनो व्यतिरेकस्योदाहरणमुक्तम्‍-
‘ दृढतरनिबद्धमुष्टे: कोषनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेद: ॥ ’
तन्न निपुणं निरीक्षितमायुष्मता । तथा हि-किमत्रोपमानादुत्कर्षरूपो
व्यतिरेकोऽनुभयपर्यवसायी; आहोस्वित्सर्वस्वकाराद्युक्तदिशापकर्षरूप: । स्थितिरस्त्येवेति वाच्यम्‍ । तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात्‍ । अर्था-न्तरेणाकृतिरूपेण सह श्लेषमूलकाभेदाध्यवसायेन साधारणीकरणाच्च ।
अन्यथा श्लेषमूलकोपमोच्छेदापत्ते: । ‘ चन्द्रबिम्बमिव नगरं सकलकलम्‍ ’ इत्यादावपि कलकलसहितत्व- कलासाकल्ययोर्वस्तुतो वैधर्म्यरूपत्वात्‍ । न च सकलकलमित्यत्रोपमायामेव कवेर्निर्भर:, प्रकृते तु भेदशब्दोक्त्या वैलक्षण्ये स इति भ्रीमतव्यम्‍ । यद्यत्रोपमाविघटनरूपो व्यतिरेको निर्भर-सह: स्यात्‍ आकारशब्दश्लेषोऽनर्थक: स्यात्‍ । कृपणस्य कृपाणस्य भेदो दीर्घाक्षरादेवेत्येव ब्रूयात्‍ । नह्यत्र व्यतिरेके श्लेषो‍ऽनुकूल: । प्रत्युत प्रति-कूल एव । उपमायां पुनरनुकूल: । प्रतिकूलस्य दीर्घाक्षररूपवैधर्भ्यस्य साधारणीकरणात्‍ आकृतिभेदस्य चोपमानोपमेययोरपि सत्त्वात्‍ । एवं हि
कवेराशय:-यत्कृपणकृपाणयोस्तुल्यतैव । दृढतरेत्यादिविशेषणसा-म्यात्‍ । अक्षरभेदस्त्वाकारभेदत्वादविरुद्ध एवेति सह्लदयैराकलनीयम्‍ ।
न द्वितीय: । तस्योक्तिमात्रेणाप्यसंगते: , अह्लद्यत्वाच्च । तस्मादत्र गभ्योपमैव सुप्रतिष्ठितेत्यास्तां कूटकार्षापणोद्धाटनम्‍ । प्रकृतमनुसराम: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP