संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|उत्प्रेक्षा अलंकारः| लक्षण ५ उत्प्रेक्षा अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ उत्प्रेक्षा अलंकारः - लक्षण ५ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ५ Translation - भाषांतर तथा-‘ राज्याभिषेकमाज्ञाय शम्बरासुरवैरिण: । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकर: ॥’अत्रापि चन्द्रे विषये तादृशलेपनकर्तृत्वरूपधर्मोत्प्रेक्षेत्येकं दर्शनम् । किरणव्यापने विषये चन्द्रकर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षणमिति द्वितीयम् । तत्र प्रथमे मते धवलीकारकत्वरूपनिमित्तानुपादानादनुपात्त-निमित्ता, विषयस्योपादानादुपात्तविषया । द्वितीयेऽपि तस्यैव निमित्तस्या-नुपादानादनुपात्तनिमित्ता, विषयस्य निगीर्णतयानुपात्तविषयेति विशेष: :तादात्म्येन द्रव्यस्वरूपोत्प्रेक्षा यथा-‘ कलिन्दशैलदियमाप्रयागं केनापि दीर्घा परिखा निखाता । मन्ये तलस्पर्शविहीनमस्यामाकाशमानीलमिदं विभाति ॥’अत्र यमुनायां नीलत्वदीर्घत्वनिमित्तकमाकाशतादात्म्योत्प्रेक्षणम् । आकाशत्वस्य स्वरूपात्मकत्वाद्द्रव्योत्प्रेक्षेयम् । अत एवाकाशपदाच्छब्दाश्रच त्वाद्यनुपस्थितिदशायामप्याकाशधी: । नीलत्वरूपनिमित्तस्य विषयिणि सिद्धयर्थं तृतीयचरणोपादानम् । दीर्घत्वरूपनिमित्तसिद्धयर्थं च पूर्वार्धम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP