उत्प्रेक्षा अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


भवनविशिष्ट: शुक्लगुणस्तादात्म्येनोत्प्रेक्ष्यते । तत्र बकगतानां कू जननैर्म-ल्यपुञ्जीभवनानां शुक्लगुणगतत्वमन्तरेण बकशुक्लयोरभेदस्य दुरुपपादत्वा-त्तत्सिद्धये तेषां विषयिगतत्वं साध्यम्‍ । तत्र नैर्मल्यस्यानुपात्तस्य यथा-कथंचिदुत्प्रेक्ष्यमाणे विषयिणि सिद्धत्वात्कूजनपुञ्जीभवनयोर्निष्पादनाय रूपान्तराक्तान्तगृहत्वमाश्रयार्थित्वं च हेतुत्वेनोत्प्रेक्षितम्‍ । इहापि प्राग्वत्‍-
साहजिकयो: कल्पिताभ्यामभेदाध्यवसानात्साधारण्यम्‍ । एवमन्यत्राप्यू-ह्मम्‍ । पूर्वं हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति । ह्मम्‍ । पूर्वं हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति ।
क्तियास्वरूपोत्प्रेक्षा यथा-
‘ कलिन्दजानीरभरेऽर्धमग्ना बका: प्रकामं कृतभूरिशब्दा: । वान्तेन वैराद्विनिगीर्यमाणा: क्रोशन्ति मन्ये शशिन: किशोरा: ॥
अत्र प्रथमान्तविशेष्यकबोधवादिनामभेदसंसर्गेण कलिन्दजागीरार्धमग्न-
कृतभूरिशब्दोभयविशिष्टेषु बकेषु विषयेषु ध्वान्तकर्तृकवैरहेतुकनिग-रणकर्माभिन्नोत्प्रेक्षितशशिकिशोरतादात्म्योत्प्रेक्षणपूर्वकं क्रोशनकर्तृत्वं धर्म उत्प्रेक्ष्यते । तत्र तादात्म्योत्प्रेक्षणे धर्भ्युत्प्रेक्षायां साधारणो धर्म:,
संबन्धान्तरेणोत्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्च विषयगतो निमित्तमिति स्थिते प्रकृते क्रोशनकर्तृत्वरूपधर्मोत्प्रेक्षायां तत्समानाधिकरण-निगरणकर्मत्वरूपधर्मस्य विषयगतत्वसिद्धयेऽनुवाद्यतया शशिकिशोर-तादात्म्यमनुपात्तश्वैत्यनिमित्तकमुत्प्रेक्ष्यते । तत्र यथा विशिष्टोपमायामुप-
मानोपमेयविशेषणतद्विशेषणानामार्थमौपम्यम्‍ , एवमत्रापि विषयबक-विशेषणतद्विशेषणयोरर्धमज्जनयमुनाजलयोर्मूलोत्प्रेक्षाविषयिशशिकिशोर-विशेषणतद्विविशेषणाभ्यां निगरणध्वान्ताभ्यामभेद आर्थ: । ततश्च ध्वान्त-कर्तृकनिगरणे सिद्धे मुख्योत्प्रेक्षानिर्वाह: । क्तोशनशब्दयोरपि बिम्बप्रति-बिम्बभावेनाभेद: । तेन कलिन्दजानीरार्धमग्नकृतभूरिशब्दोभयाभिन्ना बका ध्वान्तनिगीर्यमाणशशिकिशोरोभयाभिन्ना: क्रोशनक्तियानुकूल-
व्यापारवन्त इवेति बोधाकार: । आख्याते भावप्राधान्ये त्वभेदेन क्रोशन-क्रियोत्प्रेक्षा । तत्र शाब्दे वृत्ते बकविशेषणतया प्रतीयमानमपि शब्दनं विषयतयावतिष्ठते, अध्यवसानवशात्‍ । क्तोशनाक्तियायां च तादृशबका विशेषणम्‍, तादृशबकेषु चाभेदेन तादृशशशिकिशोरा:, न तु शशिकिशोर एव साक्षात्क्रियायाम्‍ । एवं च बकानामनन्वयापत्ते: । विषयविषयि-विशेषणानां प्राग्वदेव बिम्बप्रतिबिम्बभावेनाभेदप्रतिपत्ति:

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP