संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|उत्प्रेक्षा अलंकारः| लक्षण ३ उत्प्रेक्षा अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ उत्प्रेक्षा अलंकारः - लक्षण ३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ३ Translation - भाषांतर सापि प्रत्येकं त्रिविधा- स्वरूपोत्प्रेक्षा, हेतूत्प्रेक्षा, फलोत्प्रेक्षा चेति । तत्र जातिगुणक्तियाद्रव्यरूपाणां तदभावरूपाणां च पदार्थानां तादात्म्येनेतरेण वा संबन्धेन जातिगुणक्तियाद्रव्यात्मकैर्व्यस्तै: समुच्चितैरुपात्तैर-नुपात्तैर्निष्पन्नैर्निष्पाद्यैर्वा निमित्तभूतैर्धर्मैर्यथासंभवं जातिगुणाक्रियाद्रव्यात्म-केषु विषयेषूत्प्रेक्षणं स्वरूपोत्प्रेक्षा । तत्राभेदेन संसर्गेण धर्मिस्वरूपोत्प्रेक्षा, संसर्गान्तरेण धर्मस्वरूपोत्प्रेक्षेति चोच्यते । उक्तविधेषु पदार्थेषु प्रागुक्त-प्रकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासंभवं हेतुत्वेन फलत्वेन च संभावनं हेतूत्प्रेक्षा चोच्यते ।एताश्च क्कचिन्निष्पन्नशरीरा: क्कचिन्निष्पाद्यशरीराश्चेत्येवमाद्यनल्प-विकल्पा: संपद्यन्ते । तथापि दिड्भात्रमुपदर्श्यते ।आख्यायिकायां जात्यवच्छिन्नस्वरूपोत्प्रेक्षा यथा-‘ तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्या: सखी ’ इति । अत्र भागीरथ्यां द्रव्ये जातौ वा हिमगिरिसंबन्धी भुजत्वजात्यवच्छिन्नस्तादात्म्येनोत्प्रेक्ष्यते । तत्र च भागीरथीगतानां श्वैत्यशैत्यलम्बत्वजलधिजठरप्रविष्टत्वानां धर्माणां निमित्ततासिद्धये विषयिहिमगिरिमुजगतत्वमवश्यं संपादनीयम् । तेषां च मध्येऽनुपात्तयो: श्वैत्यशैत्ययोर्हिमगिरिसंबन्धित्वादेव भुजगतत्वं संपन्नम् ।इतरयोरपि संपादनाय तनयमैनाकगवेषणं फलमुत्प्रेक्षितम्, तत्साधनता-ज्ञानस्य लम्बत्वजलधिजठरप्रवेशानुकूलयत्नजनकत्वात् । एवं च विषयि-गततादृशगवेषणफलकलम्बत्वजलधिजठरप्रविष्टत्वाभ्यां विषयगतयो: साहजिकलम्बत्वजलधिजठरप्रविष्टत्वयोरभेदाध्यवसानातिशयोक्त्या साधारण्यसंपत्तौ निमित्तता । न चात्र फलस्याप्युत्प्रेक्षणात्फलोत्प्रेक्षेति वक्तुं शक्यम् । उप्तेक्ष्यमाणफलनिष्पादितनिमित्तोत्थापितायां स्वरूपोत्प्रेक्षायामेवविधेयत्वाच्चमत्कृतेर्विश्रमात्, उत्प्रेक्षाप्रतिपादकस्य प्रत्ययस्य फलेनानन्व-याच्च, तयैवात्र व्यपदेशो युक्त: । अनिगीर्णविषया चेयमुपात्तानुपात्तगुण-क्तियात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा जात्युत्प्रेक्षा हिमगिरिभुजस्य कविनैव निष्पादितत्वात् ।तादात्म्येन गुणस्वरूपोत्प्रेक्षा यथा-‘अम्भोजिनीबान्धवनन्दनायां कूजन्बकानां समजो विरेजे । रूपान्तराक्तान्तगृह: समन्तात्पुञ्जीभवञ्शुक्ल इवाश्रयार्थी ॥’अत्रैकाधिकरण्यापन्ने कूजनविशिष्टे बकत्वजात्यवच्छिन्ने विषये पुञ्जी- N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP