उत्प्रेक्षा अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथोत्प्रेक्षाप्रकरणम्‍-

तद्भिन्नत्वेन तदभाववत्त्वेन वा प्रमितस्य पदार्थस्य रमणीयत-द्‍वृत्ति-तत्समानाधिकरणान्यतरतद्धर्मसंबन्धनिमित्तकं तत्त्वेन तद्व-त्त्वेन वा संभावनमुत्प्रेक्षा ॥
‘ लोकोत्तरप्रभाव त्वां मन्ये नारायणं परम्‍ ’ इत्यत्र तादृशप्रभावस्य नारायणत्वव्याप्यतासंभावनादशायां सामग्र्यभावेनानुमित्यनुदयाज्जायमा-नायां नारायणेनानेन प्रायशो भवितव्यमिति संभावनायामतिप्रसड्रवार-णाय तद्भिन्नत्वेन प्रमितस्येति संभावनायामाहार्यतां गमयति । एतेन
‘ रामं स्निग्धतरश्यामं विलोक्य वनमण्डले । प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिन: ॥’
इत्यत्र संभावनायाम्‍, ‘ धाराधरधिया धीरं नृत्यन्ति स्म शिखावला: इत्यत्र भ्रान्तौ च नातिप्रसड्र: ।
‘ वदनकमलेन बाले स्मितसुषमालेशमावहसि यदा । जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP