संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मनोबोधः| श्लोक १०१ ते १५० मनोबोधः श्लोक १ ते ५० श्लोक ५१ ते १०० श्लोक १०१ ते १५० श्लोक १५१ ते २०५ मनोबोधः - श्लोक १०१ ते १५० संत रामदास महाराजांची मनोबोध अशी रचना आहे, ज्यातून मनावर संस्कार घडविले जातात. Tags : manobodharamdasमनोबोधःरामदाससंस्कृत श्लोक १०१ ते १५० Translation - भाषांतर न यस्य प्रियं नाम तं शास्ति कालो विकल्पात् कुतर्के गतिर्नारकी स्यात् ।अतः सादरं नाम संकीर्तितव्यं ततो जायते दोषनाशः स्वभावात् ॥१०१॥प्रकृत्योररीकृत्य नम्रत्वमेव मनः सज्जनास्तेन संतोषितव्याः ।स्वदेहं च लोकोपकार्ये नियुज्य भजातिप्रमोदेन साकारमीशम् ॥१०२॥हरेः कीर्तने तद्गुणप्रीतिरस्तु परब्रह्मबोधे त्वहंता च माऽस्तु ।धने चान्यदीये तथाऽन्यप्रियायां निरूढोऽभिमानः परित्याज्य एव ॥१०३॥यथा वक्ति तद्वन्न यस्य प्रवृत्तिः विमूढः स तेनैव लज्जामुपैति ।मनः केवलं यस्य वाग्विभ्रमोअऽस्ति कथं प्राप्नुयाद् देवदेवं स मूढः ॥१०४॥विवेकादशुद्धां क्रियां स्वां विहाय विशुद्धां क्रियामादरेणाऽऽचर त्वम् ।यथा भाषसे तद्वदेवाचर त्वं मनः कल्पनां मुञ्च संसारदात्रीम् ॥१०५॥समाचर्य संध्यादि नित्यं स्वकर्म विवेकान्मनः स्थापयात्मप्रभ्रष्टम् ।दया सर्वभूतेषु यस्य प्रवृद्धा सदा भक्तिभावात् स आप्नोति शान्तिम् ॥१०६॥मनो नैव कार्यः प्रकोपः कदाचित् मनः साधुसङ्गे प्रवृत्तिं कुरुष्व ।मनो मुञ्च सङ्गं सदा दुर्जनानां मनस्तेन ते मोक्षलाभोऽस्ति सत्यम् ॥१०७॥मनः सर्वदा साधुसङ्गेन पुंसां भवेद् विक्रियाहानिरीशे च भक्तिः ।विना सत्क्रियां मास्तु वाचालता ते यतो वादहानिः स संवाद इष्टः ॥१०८॥वितण्डः सदा त्याज्य एवात्र सर्वैः सुखेनोत्तमैः सद्विवादो विधेयः ।सुसंवाद एवेह शोकोपहारी यतो वादहानिः स संवाद इष्टः ॥१०९॥असद्वादहा यः स संवाद एव विवेकेन जेतव्य एवाभिमानः ।अहंता हि वादे विकारान् करोति यतो वादहानिः स संवाद इष्टः ॥११०॥हितायैव ते सत्यवागीरितेयं हितायात्मनस्त्वं विचार्याचरात्र ।हितायैव पाखण्डबुद्धिर्विवर्ज्या यतो वादहानिः स संवाद इष्टः ॥ १११॥गतं जन्म वक्तुस्तथा श्रोतुरेव विवादः परं नैव शान्तो जनेषु ।विवादोद्भवः संशयो दम्भकारी यतो वादहानिः स संवाद इष्टः ॥११२॥हितं विस्मृतं पण्डितैर्वादशौण्डैः अहंताबलाद् राक्षसत्वं गतास्ते ।परेशाद्विना पण्डितो नास्ति कश्चिद् अतो हे मनस्त्वं त्यज स्वामहंताम् ॥११३॥परायोपदेशे व्ययो नैव कश्चिद् वृथाऽनुक्षणं वर्धते गर्ववेगः ।क्रियामन्तरा वाक्पटुत्वं धिगेव मनः सर्वथैवादरान्निश्चिनु त्वम् ॥११४॥न यो वादभाक् संवदेत् तेन पुंसां विवेकादहंकारलेशोऽपि हेयः ।वदेद्यत् तदेवाचरेत् सर्वथैव विशुद्धक्रियो भक्तिमार्गेण गच्छेत् ॥११५॥मुनेः शापजं गर्भवासस्य दुःखं स्वयं योऽम्बरीषस्य जग्राह विष्णुः ।ददौ चोपमन्युं शिवः क्षीरसिन्धुं स नोपेक्षते देवदेवः स्वभक्तम् ॥११६॥ध्रुवं बालमज्ञं तथा दैन्यभाजं परं ध्याननिष्ठं विलोक्यानुकम्प्य ।चकाराचलं यस्तु ताराङ्गणे तं स नोपेक्षते देवदेवः स्वभक्तम् ॥११७॥गजेन्द्रः सरस्युग्रनक्रेण पादे धृतो विष्णुमेवास्मरत् खिन्नगात्रः ।हरिस्तत्क्षणदेत्य योऽमोचयत्तं स नोपेक्षते देवदेवः स्वभक्तम् ॥११८॥द्विजोऽजामिलः पापकर्माऽन्तकाले वदन् पुत्रनाम प्रपेदे विमुक्तिम् ।अनाथस्य योऽस्त्याश्रयश्चक्रपाणिः स नोपेक्षते देवदेवः स्वभक्तम् ॥११९॥विधातुर्हितायाभवत् मत्स्यरूपो दधाराचलां कूर्मरूपेण पृष्ठे ।स्वभक्तान् हि पातुं श्रितो नीचयोनीः स नोपेक्षते देवदेवः स्वभक्तम् ॥१२०॥महाभक्त-प्रह्लाद-संरक्षणार्थं नृसिंहस्वरूपं प्रपेदे य उग्रम् ।न यत्संन्निधौ कोऽपि गन्तुं समर्थः स नोपेक्षते देवदेवः स्वभक्तम् ॥१२१॥ययाचे कृपां वज्रपाणिर्यदा वै तदा वामनोऽभूत् स्वयं चक्रपाणिः ।तथा भार्गवो यो द्विजार्थं बभूव स नोपेक्षते देवदेवः स्वभक्तम् ॥१२२॥अहल्या-सती-पक्षपातादरण्यं सिषेवेऽपि देवांश्च बन्धाद्विमोक्तुम् ।रिपोर्यो ध्वजं प्राहरद् रावणस्य स नोपेक्षते देवदेवः स्वभक्तम् ॥१२३॥पुरा द्रौपदी-प्रीतये देवदेवः स्वयं तत्क्षणादेव तत्राऽऽविरासीत् ।कलौ योऽभवन्मौनि-बुद्धस्तथैव स नोपेक्षते देवदेवः स्वभक्तम् ॥१२४॥अनाथान् स्वभक्तान् परित्रातुमेव कलौ सम्भविष्यत्यसावेव कल्किः ।श्रुतिर्यद्गुणख्यापने मौनमाप स नोपेक्षते देवदेवः स्वभक्तम् ॥१२५॥जनानुग्रहार्थं हि लीलावतारा अनेका धृता येन पूर्वं धरण्याम् ।न तं सेवते यः स एवातिपापो दुरात्मा कुबुद्धिः स चाण्डालरूपः ॥१२६॥स धन्यो हरेर्नामघोषेण शान्तः तथाऽऽकर्ण्य यस्तत्कथां तत्र लीनः ।प्रनष्टा कुबुद्धिस्तदीया स्वबोधाद् मनोवासना यस्य रामे विलीना ॥१२७॥मनो वासना वासुदेवे तवास्तु मनः कामना कामसङ्गे तु माऽस्तु ।मनः कल्पना ते वृथा नैव कार्या मनः सज्जन !सन्त-सङ्गे रमस्व ॥१२८॥मनः सद्गति-प्राप्तये साधुसङ्गः ततो नश्यते दुर्मतिर्दुर्जनस्य ।रतीशो मनःक्षोभकोऽस्तीति मत्वा विधेयः प्रयत्नो बुधैर्निर्ममत्वे ॥१२९॥मनो माऽस्तु रामं विना ते विकल्पः सदा सत्यसंकल्प एवाऽस्तु चित्ते ।परित्यज्य जल्पं च लोके सदा त्वं रमाकान्तमेकान्तवृत्या भजस्व ॥१३०॥जगत्यां जनैः सेव्य एको हि रामः स त्वेकवागेकबाणस्तथैव ।चरित्रं यदीयं जनोद्धारकं च स सीतापतिः सेव्य आदौ विवेकात् ॥१३१॥विचार्यैव यो भाषते वर्तते वा तदीयेन सङ्गेन संताप-शान्तिः ।प्रवाच्यं विचारं विना नैव किंचित् सदा सत्पथा च प्रयातव्यमेव ॥१३२॥विरक्तिश्च भक्तिश्च विज्ञानयोगः सदाऽऽत्मानुबोधो दृढो यद्-हृदिर्हि ।सदा दर्शनं स्पर्शनं तस्य पुण्यं तथा भाषणं नाशकं संशयस्य ॥१३३॥न यस्यास्ति गर्वो सदा वीतरागः क्षमाशान्तियुक्तो दयायां च दक्षः ।नहि क्षोभलोभौ न दैन्यं च यस्मिन् वसत्यञ्जसा तत्र योगीश्वरत्वम् ॥१३४॥विधेया मनः संगतिः सज्जनस्य यतो दुर्जनस्यापि धीः शुद्धिमेति ।सुसद्भाव-सद्बुद्धि-सन्मार्गलाभः ततो निर्भयत्वं करालाच्छ कालात् ॥१३५॥सदा भीतियुक्तं हि ब्रह्माण्डमेतद् अनन्तं तु तत् साधवश्चाभया वै ।भवेद् यस्य तद्-ज्ञानतो द्वैतहानिः भयं मानसात् सर्वथा तस्य नष्टम् ॥१३६॥प्रबोध्येह जीवं प्रयाता हि श्रेष्ठाः तथाप्यज्ञ एवेह जीवोऽस्ति हन्त ।लयं यस्य नो यात्यहंकार-कर्म न स ज्ञानधिं विन्दतेऽहंतया वै ॥१३७॥भ्रमात् चिद्-धनं यस्य गुप्तं बभुव मृतिर्जन्मदारिद्र्यमाविर्बभूव ।विलीना न यस्येह देहात्मबुद्धिः न स ज्ञानधिं विन्दतेऽहंतया वै ॥१३८॥न वेत्त्यात्मतत्त्वं ततं सर्वतोऽपि जडं मन्यते हन्त दृश्यं ह्यभाग्यः ।न चाश्रद्धया पुण्यलेशोऽपि यस्य न स ज्ञानधिं विन्दतेऽहंतया वै ॥१३९॥निजं वस्तु न प्राप्यते स्वप्रमादात् गुणानं हि बन्धोऽत्र दुःखस्य हेतुः ।भवन्नैव यावद् गुणातीतवृत्तिः निधिर्विद्यतेऽहंतया नैव तावत् ॥१४०॥अथहास्ति तो ब्रह्मवित् तस्य सेवा तथा वन्दनीयं तदीयाङ्घ्रियुग्मम् ।विना सद्गुरोरञ्जनं तन्न वेद्यं मनोऽहंतयाऽसौ निधिर्नैव लभ्यः ॥१४१॥न तद् ज्ञायते ज्ञायते नैव यावद् विमूढस्य संदेह-हानिर्न भूयात् ।अहंता न यावद् विनिर्याति तावद् बलान्नैव तद् विद्यते लभ्यते न ॥१४२॥अविद्यावशो मानवो मूढबुद्धिः भ्रमाद् विस्मृतं स्वं हितं नोपयाति ।यथाऽसम्परीक्ष्यादृतं किन्त्वशुद्धं न तन्नाणकं स्वेप्सितार्थक्रयार्थम् ॥१४३॥जगत्यां मनः किं नु सत्यं यथार्थं त्वया सादरं तत्तु संशोधनीयम् ।तथा कुर्वता ब्रह्म-सत्तानुभूतिः ततोऽज्ञानजन्यो भ्रमो नाशमेति ॥१४४॥सदा दृश्यचिन्तोद्भवं जीवजातं अहंकारतोऽज्ञानता विज्ञतेऽस्य ।विवेकात् सदा स्व-स्वरूपं हि सेव्यं न हि ब्रह्ममूले जनुर्नैव मृत्युः ॥१४५॥दृशो गोचरं यन्न सत् तत्कदाचित् अकस्माद् भवेत् तच्च कालेन नश्येत् ।यतः सर्वनाशः स्थिरं नैव किंचित् मनोऽनन्त-सत्-चित् समन्वेषणीयम् ॥१४६॥न भङ्ग्यं न छेद्यं न चाल्यं न भ्रंशं स्थितं सर्वतोऽहंतया नैव वेद्यम् ।न तस्यैकरूपस्य द्वैतं तु सह्यं मनोऽनन्त-सत्-चित् समन्वेषणीयम् ॥१४७॥स्वयम्भ्वादिरूपेऽपि यन्निर्विकारं श्रुतिर्वर्णने यस्य मौनं प्रपेदे ।विवेकेन तद्रूपमासादनीय मनोऽनन्त-सत्-चित् समन्वेषणीयम् ॥१४८॥जगत्यां न यत् चर्मचक्षुर्निरीक्ष्यं जगत्यां तु यद् ज्ञानचक्षुर्विलोक्यम् ।यदालोकने स्याल्लयो लोकनस्य मनोऽन्वेषणीयं सदानन्दरूपम् ॥१४९॥न पीतं न शुभ्रं न वा श्याममेतत् न च व्यक्तमव्यक्तरूपं न नीलम् ।सुविश्वास आप्ते तु मुक्तिप्रदोऽत्र मनोऽन्वेषणीयं सदानन्दरूपम् ॥१५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP