मनोबोधः - श्लोक १ ते ५०

संत रामदास महाराजांची मनोबोध अशी रचना आहे, ज्यातून मनावर संस्कार घडविले जातात.


श्रीरामदासानुदासः

गणेशोऽस्ति यः षड्गुणैश्वर्ययुक्तः तथा शारदा या चतुर्वाक्स्वरूपा ।
प्रणम्याऽथ तौ सृष्टिनिर्माणमूलं अनन्तं हितं राममार्गं प्रवक्ष्ये ॥१॥
मनो रामभक्तेः पथा यास्यसि त्वं तदा श्रीहरिं प्राप्स्यसे तं स्वभावात् ।
जनैर्निन्दितं यत् त्वया तन्न कार्यं नरैः श्लाघितं कर्म यत्नेन सेव्यम् ॥२॥
प्रभाते तु यश्चिन्तयेद् रामचंद्रं ततः कीर्तयेत् तद्गुणांश्चारुवाचा ।
सदाचारमेनं त्यजेन्नैकचित्तो जगत्यां स एवातिधन्यत्वमेति ॥३॥
मनो वासनां दुःखदां संत्यजाशु मनः सर्वदा पापबुद्धिं जहीहि ।
मनो मा त्यजाऽज्ञानतो धर्ममार्गं मनस्तिष्ठ सत्सारभूते विचारे ॥४॥
मनः पापकर्मादरस्त्याज्य एव मनः सत्यसंकल्प एवानुसेव्यः ।
मनः कल्पनां मुञ्च शब्दादिकानां विकाराश्रयेणेह धिग् धिक्त्वमेति ॥५॥
मनो माऽस्तु ते क्लेशदः क्रोधलेशो मनो माऽस्तु कामो विकारस्य मूलम् ।
मनो मा मदं दुष्टमङ्गीकुरु त्वं मनो माऽस्तु ते मत्सरो मा च दम्भः ॥६॥
मनो धार्यमार्येषु मार्गेषु धैर्यं मनो हीनपुंसो वचः क्षाम्यमेव ।
मनोज्ञैस्त्वया शीतलैर्वाक्प्रबन्धैः मनः सर्वदा सज्जनास्तोषणीयाः ॥७॥
मनो देहपातेऽपि कीर्तिः स्थिरा स्याद् यया तां क्रियां सर्वदेवाऽऽरभस्य ।
मनश्चान्दनं सद्गुणं सम्प्रगुह्य त्वया सर्वथा सज्जनाः प्रीणनीयाः ॥८॥
मनः पारकीयं वनं मा चिनु त्वम् अतिस्वार्थधीः शिष्यतेऽत्रातिपापा ।
सदा पापजन्यं फलं भोग्यमेव यदा नेप्सिताऽऽप्तिस्तदा दुःखमेव ॥९॥
मनो रामचन्द्रे सदा प्रीतिरस्तु बलाद् हृद्गतं दुःखजालं निवार्यम् ।
त्वया देहदुःखं सुखत्वेन मान्यं रमस्त्वात्मरूपे विचारेण नित्यम् ॥१०॥
समस्तैः सुखैः संयुतः कोऽस्ति लोके मनः सद्विचारैः शनैर्निश्चिनुत्वम् ।
मनो यत् त्वया संचितं कर्म पूर्वं तदेवेह भोग्यं शुभं वाऽशुभं वा ॥११॥
मनो माऽन्तरं दुःखजालस्य देही मनः सर्वथा शोकचिन्ते विसर्ज ।
ततो देहबुद्धिं विवेकाद्विहाय विदेहस्थितौ मुक्तिभाग् संरमस्व ॥१२॥
मनो ब्रूहि तत् चेत् श्रुतं रावणस्य क्षणेनैव राज्यं समस्तं विनिष्टम् ।
त्यजातोऽशुभां वासनं दुःखदात्रीं बलेनैति कालो हठात् पृष्ठलग्नः ॥१३॥
मनो देह एषोऽतिपुण्येन लब्धः कृतान्तेन नीतः स एवान्तकाले ।
महान्तोऽपि वै मृत्युमार्गेण याता असंख्येय-जीवा जनिं प्राप्य नष्टाः ॥१४॥
मनः पश्य ये संस्थिता मृत्युभूमौ वदन्त्यामृतिं तेऽहमेवाहमित्थम् ।
चिरं जीवितं मानयन्त्यात्मनोऽज्ञाः क्षणात् ते परित्यज्य सर्वं प्रयान्ति ॥१५॥
मृतं बन्धुमालोक्य शोचत्यपार्थः क्षणात् सोऽपि मृत्योः पथा सम्प्रयाति ।
यतोऽज्ञस्य नो याति लोभः प्रशान्तिं ततोऽसौ पुनर्देहयोगं प्रयाति ॥१६॥
जनो मूढभावेन शोचत्यपार्थं क्षणेनैव भाव्यं भवत्येव नित्यम् ।
भवेत् कर्मणा स्वेन पुत्रादियोगो वृथा खिद्यते तद्वियोगेऽल्पबुद्धिः ॥१७॥
मनो धारयाशां सदा राघवस्य ततोऽन्यं नरं नैव संकीर्तय त्वम् ।
पुराणानि वेदाश्च यं वर्णयन्ति नरः श्लाघ्यतामेति तद्वर्णनेन ॥१८॥
मनो मा कदापि त्यज ब्रह्मसत्यं मनोऽसन्मतिं मा कृथाः सर्वथैव ।
मनो ब्रूहि सत्यं सदा सद्विचोभिः मनोऽसत् त्यज प्राज्ञ मिथ्येति मत्वा ॥१९॥
अतीव श्रमो जायते मातृगर्भे मनस्तन्न कार्यं यतो दुःखभाक् स्यात् ।
शिशुः पच्यते जाठरे वह्निकुण्डे तदाऽधःशिराश्चोर्ध्वपात् चातिखिन्नः ॥२०॥
मनो जन्म-मृत्यु-प्रदां दुःखदात्रीं धनाऽऽप्त-प्रिया-कामनां संत्यजाशु ।
यतो यातना गर्भवासेऽस्त्यसह्या ततो राघवे प्रीतियोगं कुरुष्व ॥२१॥
मनो मे हितं कार्यमेतत् त्वयाऽद्य सदा रामपादौ प्रयत्नेन सेव्यौ ।
प्रभुर्वायुपुत्रस्य यः ख्यातकीर्तिः जनानुद्धरेत् स त्रिलोकाधिनाथः ॥२२॥
मनो रामनाम्नस्त्वयाऽन्यन्न वाच्यं वृथा वाक्प्रबन्धात् सुखं नैति कश्चित् ।
क्षणेनायुरग्रे हरत्येव कालः शरीरावसानेऽथ को मोचयेत् त्वाम् ॥२३॥
विना रामसेवां श्रमो व्यर्थ एव जनस्य प्रलापो यथा निद्रितस्य ।
अतो ब्रूहि वाचा हरेर्नाम नित्यं अहंतां महापापिनी संहराशु ॥२४॥
मनस्ते मदुक्तिर्हितैवेति मान्या न चेद् राम-पादाब्ज-लब्धिः कुतस्ते ।
सुखाप्ति-क्षणे जायते सौख्यमेव ततः सर्वनाशः स्थिरं नैव किंचित् ॥२५॥
कृतः केनचिद् देह-रक्षा-प्रयत्नः स देहः क्षणेनैव कालेन नीतः ।
अतस्त्वं मनो रामचंद्रं भजस्व प्रमुञ्चान्तरात् सर्वचिन्तां भवस्य ॥२६॥
भवस्यास्य भीत्या मनः किं बिभेषि जहीमां धियं धैर्यमेवावलम्ब्य ।
प्रभौ रक्षके रामचन्द्रे शिरःस्थे भयं किं नु ते दण्डहस्तात् कृतान्तात् ॥२७॥
मनो दीननाथं प्रभुं चापपाणिं विलोक्याग्रतः कम्पते काल एषः ।
जनैर्मद्वचः सत्यमेवेति मान्यं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥२८॥
व्रतं रामचन्द्रस्य तु ख्यातमेतत् स्वभक्तद्विषो मस्तकं ताड्यमेव ।
पुरी येन नीता क्षणाद् देवलोकं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥२९॥
प्रभोः सेवक.म् लोकयेत् क्रूरदृष्ट्या स ईदृउग्विधः कोऽस्ति भूम्यामबुद्धिः ।
त्रिलोक्यां जना यद्यशो वर्णयन्त स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३०॥
महा संकटान्मोचिता येन देवाः बलेन प्रतापैर्गुणैर्यो वरिष्ठः ।
स्मरत्यम्बिका शूलपाणिस्तथा यं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३१॥
अहल्या शिलीभूतदेहाऽपि येन कृता पादसंस्पर्शतोऽतीव पूता ।
श्रुतिर्यद्यशोवर्णने मौनमाप स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३२॥
मनश्चंद्र-सूर्यर्क्षमेर्वादिकं तु वसत्यञ्जसा यत्स्वरूपे समस्तम् ।
चिरंजीवतां येन नीतौ स्वदासौ स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३३॥
उपेक्षा न कस्यापि यस्य स्वरूपे इति प्रत्ययो नास्ति मूढस्य चित्ते ।
पुराणानि यं विश्वपालं वदन्ति स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३४॥
हृदि स्वे स्थितो यादृशो यस्य भाव वसत्यञ्जसा तादृशस्तत्र देवः ।
अनन्यस्य यो रक्षकश्चापपाणिः स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३५॥
हरिः प्राणिनां संनिधौ सर्वदाऽऽस्ते कृपालुः स्वभक्तस्य धैर्यं विलोक्य ।
सुखानंद-कैवल्य-दाताऽस्ति यो वै स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३६॥
यथा भास्करश्चक्रवाकस्य गोप्ता तथा संकटेऽस्ति प्रभुः सेवकस्य ।
हरेर्भक्तिमाहात्म्यमुद्गीयते ज्ञैः स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥३७॥
मनः प्रार्थनां रे शृणु त्वं ममैकां रघूत्तंसरूपं प्रपश्याचलस्त्वम् ।
इदं मद्वचस्ते न हेयं कदापि मनो राघवे त्वं निवासं कुरुष्व ॥३८॥
पुराणानि वेदाश्च यं वर्णयन्ति समाधानता स्यात् सदा यस्य सङ्गात् ।
समर्प्याशु तस्मिन् निजं चञ्चलत्वं मनो राघवे संनिवासं कुरुष्व ॥३९॥
मनः प्राप्यते वै सुखं यत्र सर्वम् अतीवादरेणेह तल्लक्षितव्यम् ।
विवेकेन दुष्कल्पनां संनिवार् मनो राघवे संनिवासं कुरुष्व ॥४०॥
सदैवाटने नो सुखंकिंचिदस्ति श्रमो जायते नो हितं किंचिदेव ।
विवेकेन लब्ध्वा घनानन्द-बोधं मनो राघवे संनिवासं कुरुष्व ॥४१॥
अलं विस्तरेण ब्रवीम्येकमेव मनो राघवं त्वं स्वकीयं कुरुष्व ।
तदीयं व्रतं दीननाथेति श्रुत्वा मनः सज्जन स्वस्वरूपे वस त्वम् ॥४२॥
मनः सद्वचो मे त्वया ग्राह्यमेकं हितं कार्यमेवात्मनः सर्वथेति ।
कदाप्येह रामेतरं नैव वाच्यं सदाऽऽत्मस्वरूपं निदिध्यासनीयम् ॥४३॥
मनो मूढसङ्गे तु मौनं विधेयं कथास्वादरो राघवस्यैव कार्यः ।
न रामो गृहे यत्र संत्यज्य तत्तु सुखार्थे सदाऽरण्यवासो विधेयः ॥४४॥
समाधानभङ्गो भवेद्यस्य सङ्गात् अहंता तथाऽऽकस्मिकी स्यात्स्वदेहे ।
मतिर्यस्य सङ्गात् त्यजेद्रामचन्द्रं तदीयेन सङ्गेन पुंसां सुखं किम् ॥४५॥
मनो या गता रामहीना स्ववेला तदायुस्त्वया नाशितं बुद्धिजाड्यात् ।
श्रमो रामसेवां विना जीवितं यत् स दक्षोऽत्र यो रामसेवी सदैव ॥४६॥
हृदा चिन्तयन् लोचनाभ्यां प्रपश्यन् हरिं भक्तियुक्तो य आस्ते बुधोऽपि ।
गुणप्रीतियुक्तश्चरेत् साधनं यः स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ४७॥
सदा देवकार्ये स्वदेहं युनक्ति सदा यस्य वाग् वक्ति सद्-रामनाम ।
वरिष्ठे स्वधर्मे स्थितिर्यस्य नित्यं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥४८॥
सदा वक्ति यद् याति मार्गेण तेन प्रपश्यत्यनेकेषु तो देवमेकम् ।
भ्रमस्य क्षयाद् यो भजेद्वासुदेवं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥४९॥
विकारा न कामादयो यस्य चित्ते तपस्वी विरागी स्वयं ब्रह्मचारी ।
सदा शान्तचित्तस्तमोलेशहीनः स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP