मनोबोधः - श्लोक ५१ ते १००

संत रामदास महाराजांची मनोबोध अशी रचना आहे, ज्यातून मनावर संस्कार घडविले जातात.


मदो मत्सरः स्वार्थबुद्धिर्निरस्ताः प्रपञ्चोद्भवो यस्य चित्ते न खेदः ।
सदा वक्ति यः सूनृतामेव वाचं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥५१॥
क्रमेत् तत्त्वचिन्तानुवादेन कालं प्रलिप्तो न दोषेण दम्भादिकेन ।
करोत्युत्तमैः प्रत्यहं ब्रह्मवादं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥५२॥
सदैवार्जवी सर्वलोकप्रियो यः सदा सर्वदा सत्यवादी विवेकी ।
वचो भाषते नोऽनृतं नो कदाचित् स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥५३॥
सदाऽरण्यसंस्थो भवेद् यो युवाऽपि विकल्पस्य चित्ते मलो नैव यस्य ।
दृढः प्रत्ययो यस्य चित्तान्न याति स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥५४॥
दुराशा गता यस्य चित्तात् समूला प्रवृद्धा हरि-प्रेमरूपा सुतृष्णा ।
ऋणी देवदेवः कृतो येन भक्त्या स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥५५॥
दयालुः कृपालुश्च यः कोमलान्तो जने स्नेहयुक्तश्च यो दास-पालः ।
मनो यस्य न क्रोध-संताप-युक्तं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥५६॥
हरेर्नाम-संकीर्तनोपासनाभ्यां जनो धन्यतां एत्यजस्रं जगत्याम् ।
उदासीनता सा पदार्थेषु सारं तया सर्वदा चित्तवृत्तेः प्रशान्तिः ॥५७॥
मनो माऽस्तु शब्दादिषु प्रीतियोगः पदार्थेषु कामो भवेत् पूर्वपापैः ।
सुनिष्काम-भक्त्या प्रभुश्चिन्तनीयो विकल्पस्य लेशोऽपि तूर्णं प्रहेयः ॥५८॥
जनः कल्पनां कल्पयन् कोटिकल्पं समभ्येति रामं प्रभुं नैव नैव ।
धृतश्चेतसा येन कामो न रामः कुतस्तस्य रामे तु सुप्रीतियोगः ॥५९॥
मनो रामचन्द्रो निधिः कामधेनुः सुरद्रुर्मणिश्चिन्तितार्थप्रदश्च ।
प्रभावाद् हि यस्यैव सर्वस्य सत्ता न तत्तुल्यतामेति कश्चिद् जगत्याम् ॥६०॥
समाश्रित्य कल्पद्रुमं दुःखितो यः सदा तस्य चित्ते वसत्येव दुःखम् ।
समं सज्जनैर्यो विवादं करोति ततो याति संतापमन्तर्महान्तम् ॥६१॥
भवद्वै निदिध्यास-भङ्गोऽपि तस्य बलादुद्भवेत् शोक-संताप-वृत्तिः ।
सुखानन्द-नाशो भवेद् भेदबुद्ध्या मनोनिश्चयो लुप्तते हन्त सर्वः ॥६२॥
यथा कामधेनुप्रभोस्तक्र-याञ्चा तथैवात्मवेत्तुश्च वादप्रियत्वम् ।
स संत्यज्य चिन्तामणिं काचखण्डान् प्रयाचेत तस्मै न कस्तान् प्रदद्यात् ॥६३॥
दृढा नास्ति बुद्धिर्विमूढस्य पुंसो न चित्तेऽस्ति रामोऽतिकामाकुलस्य ।
प्रवृत्तेऽतिलाभे भवेत् क्षुब्ध-चित्तः प्रसक्तोऽतिभोगेषु दैन्यं प्रयाति ॥६४॥
अभक्त्या हरी जीवितं माऽस्तु दीनं भवेत् चातिमौढ्ये सदा दुःखदुःखम् ।
मनो रामचन्द्रेऽर्पय प्रीतियोगं विरामेषु ते मास्तु वाञ्छा धनादौ ॥६५॥
असारोऽस्ति संसार एषोऽतिघोरो मनः सज्जनान्वेषय त्वं हि सत्यम् ।
विषं भक्षितं चेत् सुखं ते कुतः स्याद् अतो रामचन्द्रं सदा चिन्तय त्वम् ॥६६॥
घनश्यामवर्णोऽतिलावण्ययुक्तो गभीरोऽतिधीरः प्रतापेन पूर्णः ।
स्वभक्तस्य यः संकटे पक्षपाती स रामः प्रभाते हृदा चिन्तनीयः ॥६७॥
बलेनाधिको राघवस्चापपाणिः करालस्तु कालोऽपि तस्माद् बिभेति ।
कथा कैव मर्त्यस्य रङ्कस्य तत्र प्रभाते हृदा राघवश्चिन्तनीयः ॥६८॥
सुखानन्दकृद् वारको यो भयस्य स हि प्रीतियोगेन सेव्यो जगत्याम् ।
विवेकादनाचारबुद्धिं विसृज्य प्रभाते हृदा राघवश्चिन्तनीयः ॥६९॥
मनः कीर्तय त्वं हरिं कामपूरं न वै बाध्यसे दुःखजालैः कदापि ।
मदालस्यमाशु त्वया सम्प्रहेयं प्रभाते हृदा राघवश्चिन्तनीयः ॥ ७०॥
महादोषनाशोऽस्ति यत्कीर्तनेन नरः सद्गतिं याति यत्कीर्तनेन ।
भवेत् पुण्यवृद्धिश्च यत्कीर्तनेन स रामः प्रभाते हृदा चिन्तनीयः ॥७१॥
भवेन्न व्ययः स्वीयवित्तस्य किंचित् ततोच्चारणे रामनाम्नो न कष्टम् ।
क्षयो जायते येन संसारशत्रोः स रामः प्रभाते हृदा चिन्तनीयः ॥७२॥
महद् दुःखमुत्पद्यते देहदण्डात् परं नामसंकीर्तने नैव दुःखम् ।
शिवश्चिन्तयत्येव यं देवदेवं स रामः प्रभाते हृदा चिन्तनीयः ॥७३॥
तपःपूर्वके साधने देहकष्टं धनेनैव दानं व्रतोद्यापनं च ।
कृपालुः सदा दीनजीवेषु योऽसौ प्रभाते हृदा राघवश्चिन्तनीयः ॥७४॥
मनः साधनेष्वेतदेव प्रशस्तं न चेन्मन्यसे साधुभिर्निश्चिनु त्वम् ।
वृथा संशयस्त्याज्य एवान्तकारी प्रभाते हृदा राघवश्चिन्तनीयः ॥७५॥
भवेन्नैव योगो न धर्मो न कर्म न भोगो न च त्याग एकोऽपि साङ्गः ।
मनो नाम-संकीर्तने श्रद्दधस्व प्रभाते हृदा राघवश्चिन्तनीयः ॥७६॥
हरेर्नाम संकीर्तने श्रद्दधानो भवेद् द्वन्द्वशून्योजपन् रामनाम ।
हरेः कर्म कुर्वन् भविष्यत्यकामो स्वरूपं च सर्वत्र पश्येत् तदानीम् ॥७७॥
अहो यस्य रामे न विश्वस्तबुद्धिः भवेत् पामरः सर्वदा दुःखभाक् सः ।
स्थिते किन्तु कैवल्यदे रामचन्द्रे वृथा देह-संसार-चिन्ताऽल्पबुद्धेः ॥७८॥
मनः पावनां भावनां राघवस्य निधेह्यन्तरे माऽस्तु संसारचिन्ता ।
भवो भ्रामयत्येव जीवं सदैव असद्-वस्तु-संधारणं व्यर्थमेव ॥७९॥
मनः संश्रय श्रीशमीशस्य हृत्स्थं तराद्यैव दुष्पार-संसार-वार्धिम् ।
प्रहेयस्त्वया दुर्भरः काम एषः खरो मत्सरः सर्वथा दण्ड्य एव ॥८०॥
मनो मत्सरात् मा त्यज श्रीशनाम निदिध्यास एषोऽस्त्वतीवादरात् ते ।
मनो रामनामोत्तमं साधनं रे न चैतस्य तुल्यं किमप्यस्ति लोके ॥८१॥
बहून्यन्यनामानि तुल्यानि नास्येति अभाग्यान्न जानात्ययं पामरोऽज्ञः ।
इदं पार्वतीशेन बुद्धं विषघ्नं कथा मानवस्यात्र का किंकरस्य ॥८२॥
स्मरारीः सदा ध्यायतीशं हि रामं उमासंयुतो गायति प्रेमबद्धः ।
दृढ-ज्ञान-वैराग्य-सामर्थ्य-युक्तः सदाऽऽस्ते सुखं राम-विश्वास-पूर्णः ॥८३॥
शिरःसंस्थितो यः प्रभुर्विठ्ठलस्य शिवः सोऽपि तद्ध्यान-मग्नो न किं त्वम् ।
यतो नीलकण्ठोऽपि  शान्तिं प्रपेदे स रामः कृतान्तान्नरं मोचयेद् वै ॥८४॥
भजेद् राघवं योगि-विश्रान्ति-हेतुं जपत्यस्य नामानि गौर्या महेशः ।
तपस्वी स्वयं शंकरः शान्त आसीद् भवेन्मुक्तिदोऽन्ते ह्यसौ राम एकः ॥८५॥
मुखे यस्य रामः सुखं तस्य नित्यं सदानन्दरूपे निमग्नः स आस्ते ।
विना राममन्यत्र संदेहखेदौ निजं धाम नामैव शोकापहारि ॥८६॥
मुखे यस्य रामो न कामोऽस्ति चित्ते न तद्-धैर्यलोपो भवेत् संकटेषु ।
हरेर्भक्तियोगेन कामं विजित्य स धन्योऽभवद् मारुतिब्रह्मचारी ॥८७॥
अतीवोत्तमं सुन्दरं स्वल्पवर्णं अमूल्यं सुलभ्यं हितं रामनाम ।
जनैः कीर्त्यमानं भवध्वंसकं यत् तदेवेह कैवल्यरूपं नराणाम् ॥८८॥
सदा भोजनादौ वदेद् रामनाम ततो भोजने सादरं घोषणीयम् ।
प्रतिग्रासमेवं वदेन्नाम पुण्यं तदा प्राप्यते श्रीहरिः स स्वभावात् ॥८९॥
सदा नामहीनस्य घोराऽस्ति हानिः न यस्यादरो नाम्नि तज्जन्म तुच्छम् ।
हरेर्नाम वेदेषु शास्त्रेषु श्रेय- स्करंवै परं ख्यापितं व्यासवाण्या ॥९०॥
मनो रामचन्द्रे न कार्या उपेक्षा हरेर्नाम संकीर्तयेदादरेण ।
न किंचिद्व्ययः कीर्तने रामनाम्नः ततो घोषयेज्जानकीशस्य नाम ॥९१॥
ससत्कारमुद्घोषिते रामनामे सुदूरं स्वहृत्स्थाश्च दोषाः प्रयान्ति ।
हरिस्तिष्ठति प्रीत आकर्ण्य कीर्तिं अतः श्रीशिवो रामनामैकतन्द्रः ॥९२॥
प्रभुर्योऽन्नदः स्वैरमाकीटकेभ्यः सदा हृद्गता यस्य चिन्ता जनानाम् ।
सुलभ्येऽपि तन्नामसंकीर्तने ते मनो हीयते किं नु तन्मे वदाशु ॥९३॥
त्रिलोकी-विदाहे क्षमो योऽस्ति रुष्टः स ईशः शमं प्राप यत्कीर्तनेन ।
जपत्यादराद्यत् शिवा विश्वमाता तदेवेह सर्वैर्जनैज़् कीर्तनीयम् ॥९४॥
मनोऽजामिलो दुष्कृती पुत्रनाम गुणन्नेव नारायणेत्याप मुक्तिम् ।
शुकं कुट्टिनी राघवेत्याह्वयन्ती पुराणप्रसिद्धां सुविख्यातिमाप ॥९५॥
स्वभक्तोत्तमो दैत्यवंशेऽपि जातः प्रह्लादनामाऽजपन्नाम नित्यम् ।
पिता तस्य  तन्नैव सेहे दुरात्माजगत्यां स नैवाजपद् रामनाम ॥९६॥
न यद्वाचि रामः कथं तस्य मुक्तिः अहंतावशो यातनां याति व्यर्थम् ।
ततो देहनाशे महादुःखमेतीति यतो ब्रूत रे रामरामेति नित्यम् ॥९७॥
स्फुटं तारिताः प्रस्तरा रामनाम्ना जडा मानवास्तातिता नैकशोऽत्र ।
परं संशयात्मा सदा तत्प्रभावे जपेन्नैव यः सोऽस्ति ना पापरूपः ॥९८॥
जगत्यां हि वाराणसी पुण्यभूमिः जना यत्र याताः पितॄनुद्धरन्ति ।
सदा चन्द्रमौलिर्गुणन् रामनाम स्थितस्तत्र जीवान् समुद्बोधनार्थम् ॥९९॥
नृभिः कर्म कर्तुं न शक्यं यथावत् कृते धर्मकृत्येऽपि नो पुण्यलाभः ।
दया सर्वभूतेषु नैवास्ति चित्ते अमूल्यं हरेर्नाम नो हन्त वक्त्रे ॥१००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP