संस्कृत सूची|संस्कृत साहित्य|पुराण|इन्द्राणीसप्तशती| सप्तमं जागतं शतकम् इन्द्राणीसप्तशती प्रथमं गायत्रं शतकम् द्वितीयमौष्णिहं शतकम् तृतीयमानुष्टुभं शतकम् चतुर्थं बार्हतं शतकम् पञ्चमं पाङ्क्तं शतकम् षष्ठं त्रैष्टुभं शतकम् सप्तमं जागतं शतकम् इन्द्राणीसप्तशती - सप्तमं जागतं शतकम् ‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते. Tags : godgoddessindranistotraइन्द्राणीदेवतादेवीसंस्कृतस्तोत्र सप्तमं जागतं शतकम् Translation - भाषांतर ॥प्रथमो द्रुतविलम्बितपादः ॥सुरमहीरमणस्य विलासिनी जलचरध्वजजीवितदायिनी ।हरतु बोधदृगावरणं तमो हृदयगं हसितेन सितेन मे ॥६०१॥नमदमर्त्यकिरीटकृतैः किणैः कमठपृष्ठनिभे प्रपदेऽङ्किता ।परिधुनोतु शची भरतक्षितेर्वृजिनजालमजालमकम्पनम् ॥६०२॥अतितरां नतपालनलोलया विबुधनाथमनोहरलीलया ।किरिमुखीमुखशक्त्युपजीव्यया विदितयादितया गतिमानहम् ॥६०३॥घनहिरण्यमदापहरोचिषा वनरुहाननयाऽवनदक्षया ।गतिमदिन्द्रमनोरथनाथया भुवनमेव न मे कुलमात्रकम् ॥६०४॥तनुषु वामनमूर्तिधरे विभौ तमनुयाच विराजति वामनी ।शरणवाननयाम्बिकया लसत् करुणयाऽरुणया पदयोरहम् ॥६०५॥सकरुणा कुशलं मम रेणुकातनुरजा तनुतादुदितो यतः ।युधि मुनिर्विदधौ परशुं दधज्जनपतीनपतीव्रभुजामदान् ॥६०६॥सुजनशत्रुरमाथि घनध्वनिः शचि सरात्रिचरस्तव तेजसा ।जननि रामसहोदरसायकं प्रविशताऽविशतादधिकौजसा ॥६०७॥तव महःकलयाबलमाप्तया जननि शुम्भनिशुम्भमदच्छिदा ।जगदरक्ष्यत गोपकुलेशितुस्तनुजयाऽनुजयार्जुनसारथेः ॥६०८॥न विनिरूपयितुं प्रबभूव यां कविजनो विविधं कथयन्नपि ।मुनिहृदम्बुजसौधतलेन्दिरा जयति सा यतिसाधुजनावनी ॥६०९॥इममयि त्रिदिवेश्वरि कल्किनं रुषमपोह्य सवित्रि विलोकितैः ।सुरपतेर्द्विषतोऽघवतो लसन् मदनकैरवकैरवलोचने ॥६१०॥स्मरदमर्त्यनृपालविलासिनीं प्रबलपातकभीतिविनाशिनीम् ।प्रवणयान्तरनन्यधिया लसद्विनययानययामवतीर्मनः ॥६११॥भगवतीगगनस्थलचारिणी जयति सङ्गररङ्गविहारिणी ।सुकृतशत्रुमतिभ्रमकारिणी हरिहयारिहयादिविदारिणी ॥६१२॥शरणवानहमर्जुनहासया भुवनभूपतिहारिविलासया ।दिवि पुलोमजया धवलाचले गिरिजयाऽरिजयावितदेवया ॥६१३॥चरणयोर्धृतया विजयामहे वयमशेषजगन्नृपजायया ।दिवि पुलोमजया धवलाचले नगजया गजयानविलासया ॥६१४॥अरिवधाय विधाय बुधाधिपं पटुभुजाबलभीषणमाजिषु ।न भवती शचि गच्छति दुर्गतः क्वचन काचन कातरधीरिव ॥६१५॥सपदि मानसधैर्यहृतो जगज्जननि वज्रतनोर्ज्वलितार्चिषः ।अरिजने प्रथमं तव वीक्षया सुरपतेरपतेजसि वि क्रमः ॥६१६॥न मननोचितमस्ति परं नृणां विबुधराजवधूपदपद्मतः ।जगति दर्शनयोग्यमिहापरं न रमणी रमणीयमुखाब्जतः ॥६१७॥शरणवानहमस्मि पुरातनप्रमदया मुनिगेयचरित्रया ।स्वबलचालितनाकजगन्नभो वसुधया सुधया सुरराड्दृशाम् ॥६१८॥अयमहं गतिमानतिशान्तया त्रिदिवभूमिपतिप्रियकान्तया ।मनसि मौनिजनैरतिभक्तितो निहितया हितया सुकृतात्मनाम् ॥६१९॥विनयतः स्तुतया गमयाम्यहं जनिमतां जनयित्रि निशास्त्वया ।प्रसृतया कुलकुण्डधनञ्जयाद्धृततनूततनूतनवेगया ॥६२०॥सकृदमोघसरस्वतिसाधुधी हृदयवेद्यपदाम्बुजसौष्ठवे ।मम शिवं सुमनः पृथिवीपतेः सुवदने वद नेत्रलसद्दये ॥६२१॥दुरवगाहपथे पतितं चिराज्जननि गम्यविलोकनलालसम् ।स्वयममर्त्यनृपालमनोरमे सुनयने नयनेयमिमं जनम् ॥६२२॥अवतु नः स्वयमेव पटून् विपद्विमथनाय विधाय बुधेश्वरी ।सकलमर्मसुवीतदयैः परैर्विनिहतानिह तापवतः शची ॥६२३॥सुरधरापतिजीवितनाथया स्वजननक्षितिरक्षणकर्मणि ।पटुतमो जन एष विधीयतामिह तया हतया तु समूहया ॥६२४॥गणपतेः शृणुयादिममुज्वलं द्रुतविलम्बितवृत्तगणं शची ।सलिलराशिसुताभवनीभवद्भुवनपावनपादसरोरुहा ॥६२५॥॥द्वितीयो जलोद्धतगतिपादः ॥हरित्सु परितः प्रसादमधिकं दधानममलत्विषां प्रसरणैः ।महेन्द्रमहिलाविलासहसितं मदन्तरतमो धुनोतु विततम् ॥६२६॥प्रसूस्त्रिजगतः प्रिया मघवतः कृपाकलितया कटाक्षकलया ।नितान्तमगतेर्विकुण्ठितमतेर्धुनोतु भरतक्षितेरकुशलम् ॥६२७॥पुरा शचि मतिस्त्वमीशितुरथो नभस्तनुमिता पृथङ्मतिमती ।अनन्तरमभूः सरोजनयना तनुः सुरपतेर्विलोचनसुधा ॥६२८॥परत्र विगुणा सतोऽसि धिषणा नभस्तनुरिह प्रपञ्चमवसि ।असि स्वरबला प्रिया सुरपतेरियत्तव शचि स्वरूपकथनम् ॥६२९॥प्रजापतिपदे पुराणपुरुषे स्मृता त्वमदितिः सुरासुरनुते ।जनार्दनपदे रमासि परमे सदाशिवपदे शिवा त्वमजरे ॥६३०॥उषा इनपदे स्वधाऽनलपदे पुरन्दरपदे त्वमीश्वरि शची ।यथा रुचिविदुः पदानि कवयश्चितैश्च चितिमान्युवामृजुगिरा ॥६३१॥अमेयममलं पुराणपुरुषं तदीयविभवाभिधायिभिरिमे ।वदन्ति कवयः पदैर्बहुविधैस्तथैव भवतीं ततो मतभिदाः ॥६३२॥नभश्च पवनः स्वरश्च परमस्तटिच्च वितता पतिश्च महसाम् ।सुधांशुरनलो जलं च पृथिवी सवित्रि युवयोर्विभूतिपटली ॥६३३॥अपारबहुलप्रमोदलहरी सतः किलचितिः परत्र वितता ।पुनर्वियदिदं परीत्य निखिलं जगन्ति दधती परा विजयते ॥६३४॥न यद्यपि परात्परे नभसि ते सरोजनयना वपुः पृथगजे ।तथापि नमतां मतीरनुसरन्त्यमेयविभवे दधासि च तनूः ॥६३५॥सह त्रिभुवनप्रपालनकृता समस्तमरुतां गणस्य विभुना ।सदा शशिमुखी शरीरभृदजा जगत्यदुरिते शची विजयते ॥६३६॥कुलं बहुभिदं बलं न भुजयोः कथं नु विपदस्तरेम भरताः ।समर्थमधुना विपद्विधुतये तवाम्ब चरणं व्रजामि शरणम् ॥६३७॥समस्तमपि च स्वदेशविदुषां विधानपटलं बभूव विफलम् ।अभाग्यदमनक्षमं तदधुना तवाम्ब चरणं व्रजामि शरणम् ॥६३८॥निजो मम जनो नितान्तमगतिर्न कुक्षिभरणेऽप्ययं प्रभवति ।महेश्वरि कृपामरन्दमधुना तवाम्ब चरणं व्रजामि शरणम् ॥६३९॥अदृष्टकनकं कुलं मम चिरान्निरायुधमिदं निराशमभितः ।स्वभावत इव प्रबद्धमभवत्तवाम्ब चरणं व्रजामि शरणम् ॥६४०॥अवीरचरितं विपालककथं निरार्षविभवं चिरान्मम कुलम् ।इदं मम मनो निकृन्तति मुहुस्तवाम्ब चरणं व्रजामि शरणम् ॥६४१॥चिरात्स्मृतिपथादपि च्युतमजे तपोबलभवं तमार्षविभवम् ।स्वदेशमधुना पुनर्गमयितुं तवाम्ब चरणं व्रजामि शरणम् ॥६४२॥हतं च विहतं धुतं च विधुतं रुदन्तमभितो विशिष्टकरुणे ।इमं स्वविषयं शिवं गमयितुं तवाम्ब चरणं व्रजामि शरणम् ॥६४३॥क्षयाय सुकृतद्विषां विहरतां शिवाय च सतां प्रपञ्चसुहृदाम् ।निजस्य मनसो बलाय च परे तवाम्ब चरणं व्रजामि शरणम् ॥६४४॥जयत्सु सुकृतं द्विषत्सु परितः सतामपि कुले बलेन रहिते ।खलप्रिययुगे कलौ परिणते तवाम्ब चरणं व्रजामि शरणम् ॥६४५॥अभाति सुकृते निगूढविभवे विभाति दुरिते फलानि दिशति ।विधानविकले मनस्यभयदे तवाम्ब चरणं व्रजामि शरणम् ॥६४६॥पटौ प्रतिभटे गदे प्रतिभये नतावनविधावतीव निपुणम् ।सुपर्वभुवनक्षितीशदयिते तवाम्ब चरणं व्रजामि शरणम् ॥६४७॥अमर्त्यपटलीकिरीटमणिभाभुजङ्गकिरणं नितान्तमरुणम् ।विपत्तिदमनं तमः प्रशमनं तवाम्ब चरणं व्रजामि शरणम् ॥६४८॥विनष्टविभवामिमां पुनरपि श्रियाविलसितां विधातुमजरे ।स्वजन्मपृथिवीं स्वरीशदयिते दिशेर्गणपतेः कराय पटुताम् ॥६४९॥सुपर्ववसुधाधिनाथसुदृशो जलोद्धतगतिस्तवोऽयमनघः ।कृतिर्गणपतेः करोतु विधुतिं भयस्य भरतक्षमातलजुषाम् ॥६५०॥॥तृतीयः प्रमिताक्षरपादः ॥उदितं महेन्द्रमहिलावदने प्रसृतं करैर्दिशि दिशि प्रगुणैः ।अहितं तमः प्रशमयद्यमिनां हसितं करोतु मम भूरि शिवम् ॥६५१॥भरतक्षितेस्तिमिरमाशु हरत्वरिचातुरीकृतविमोहमतेः ।रविलक्षतोऽप्यधिकमंशुमती पविपाणिचित्तदयिता वनिता ॥६५२॥शशिलक्षशीतलकटाक्षसुधा तरुणार्ककोटिरुचिपादयुगा ।हृदि मे विभातु मुनिगेयगुणा विबुधेन्द्रचित्तरमणी तरुणी ॥६५३॥कमनीयदीप्तसुकुमारतनुर्मननीयपावनपदाम्बुरुहा ।विदधातु मे शिवमसद्विमुखी विबुधेन्द्रजीवितसखी सुमुखी ॥६५४॥अनुमानमूढपितृवाक्यवशात्तनयेन देवि विनिकृत्तशिराः ।तव रेणुका विलसिता कलया गणनीयशक्तिरभवद्दशसु ॥६५५॥सकलामयप्रशमनं दुरितक्षयकारिकाङ्क्षितकरं च भवेत् ।सुरसुन्दरी जनसमर्चतयोर्हृदि रेणुकाचरणयोः करणम् ॥६५६॥विनिहन्ति पापपटलं स्मरणाद्विधुनोति रोगनिवहं भजनात् ।विदघाति वाञ्छिततफलं स्तवनान्मनुजस्य रामजननी चरणम् ॥६५७॥शरणं व्रजामि नवरव्यरुणं चरणं तवाम्ब नृपजातिरिपोः ।भरतक्षितेरवनतः प्रथमं मरणं ममेह न भवत्वधमम् ॥६५८॥स्मरणं चिरादविरतं विदधच्चरणस्य ते तरुणभानुरुचः ।अयमस्तु रामजनयित्रिपटुः सुरकार्यमार्यविनुते चरितुम् ॥६५९॥अव भारतक्षितिममोघदये करणं भवत्विह तवैष जनः ।निजयोः सवित्रि चरणाम्बुजयोर्न विहातुमर्हसि चिराद्भजकम् ॥६६०॥अविशस्त्वमिन्द्रदयिते किलतामपि यज्ञसेनतनयां कलया ।अनघव्रतासु कवयः प्रथमां प्रवदन्ति यां बहुलवन्द्यगुणाम् ॥६६१॥भुवि भारतं पठति यः सुकृती कलुषं धुनोति सकलं किल सः ।इयमम्ब शक्तिकुलराज्ञि तव द्रुपदस्य नन्दिनि कथामहिमा ॥६६२॥अभिमन्युमातरमनल्पगुणामतिलङ्घ्य चैक्षत हरिर्भवतीम् ।अतिसौहृदेन यदिहार्यनुते तव हेतुरीड्यतमशक्तिकला ॥६६३॥गृहकार्यतन्त्रचतुरा गृहीणी सकलेएन्द्रियामृतझरी रमणी ।वरनीतिमार्गकथने सचिवोऽप्यभवस्त्वमम्ब कुरु वंशभृताम् ॥६६४॥न युधिष्ठिरस्य वरघोरतपो न धनञ्जयस्य पटु बाहुबलम् ।अरिसङ्क्षयं कृतवती बहुलं तव वेणिकाऽपचरिता फणिनी ॥६६५॥असितापि कान्तिवसतिर्महती वनिताजनस्य च विमोहकरी ।कुशलं ममाभ्रपतिशक्तिकला द्रुपदक्षितीन्द्रदुहिता दिशतु ॥६६६॥शिरसा समस्तजनपापभरं वहतो भवाय भुवि यामवृणोत् ।अमराधिपः पतितपावनि तां भुवि कन्यकां तव विवेश कला ॥६६७॥कलया तवातिबलया कलिता पुरुषस्य योगमखिलाम्ब विना ।अखिलेश्वरप्रहिततेज इयं सुतजन्मने किल दधावनघा ॥६६८॥सुररक्षकस्य मदयित्रि दृशां नररक्षकस्य जनयित्रि परे ।कुलरक्षणाय कृतबुद्धिमिमं कुरु दक्षमद्भुतपवित्रकथे ॥६६९॥मुमुचुः कुले मम सुपर्वपतेस्तव चाभिधेयमिह मन्दधियः ।अपराधमेतमतिघोरतरं जननि क्षमस्व मम वीक्ष्य मुखम् ॥६७०॥इह शारदेति यतिभिर्विनुता प्रथिता सुरेश्वरमनोदयिता ।भुवि भाति कीर्तिवपुषा शचि या सुकथापि सा तव सवित्रि कला ॥६७१॥अरुणाचलेश्वरदरीवसतेस्तपतो मुनेर्गणपतेः कुशलम् ।विविधावतारविलसच्चरिता वितनोतु सा विबुधराड्वनिता ॥६७२॥अरुणाचलस्य वरकन्दरया प्रतिघोषितं कलुषहारि यशः ।विबुधाधिनाथरमणी शृणुयाद्गणनाथगीतमतिचारुनिजम् ॥६७३॥भरतक्षितेः शुभविधायिषु सा विबुधक्षितीशदयिता दयया ।धनशक्तिबन्धुबलहीनमपि प्रथमं करोतु गणनाथमुनिम् ॥६७४॥मुदितामिमा विदधतु प्रमदां त्रिदिवाधिपस्य निपुणश्रवणाम् ।अमितप्रकाशगुणशक्तिमजां प्रमिताक्षराः सुकविभूमिपतेः ॥६७५॥॥चतुर्थस्तामरसपादः ॥दिशतु शिवं मम चन्द्रवलक्षस्तिमिरसमूहनिवारणदक्षः ।कृतगतिरोधकपातकनाशः सुरधरणीशवधूस्मितलेशः ॥६७६॥अविदितमार्गतयातिविषण्णां गतिमपहाय चिराय निषण्णाम् ।भरतधरामनिमेषधरत्री पतिगृहिणी परिपातु सवित्री ॥६७७॥भुवनमिदं भवतः किल पूर्वं यदमलरूपमनाकृतिसर्वम् ।प्रकृतिरियं कुरुताददरिद्रामतिमतिशाततरां मम भद्रा ॥६७८॥सृजति जगन्ति विभौ परमे या सुबहुलशक्तिरराजत माया ।प्रदिशतु सा मम कञ्चन योगं झटिति निराकृतमानसरोगम् ॥६७९॥प्रतिविषयं विकृतीतर सत्ता विलसति या मतिमद्भिरुपात्ता ।इयमनघा परिपालितजातिं वितरतु मे विविधां च विभूतिम् ॥६८०॥प्रतिविषयग्रहणं परिपूतामतिरखिलस्य जनस्य च माता ।मम विदधातु शुभं शुभनामा त्रिदिवनिवासिनरेश्वररामा ॥६८१॥गगनतनुर्जगतो विपुलस्य प्रभुपदमग्रय्मिता सकलस्य ।प्रतिजनदेहमजा प्रवहन्ती मम हृदि नन्दतु सा विहरन्ती ॥६८२॥पटुकुलकुण्डधनञ्जयकीला समुदितहार्दविभाकरलीला ।द्रुतशिर इन्दुकलामृतधारा जनमवतान्निजभक्तमुदारा ॥६८३॥विषयसमाकृतिरत्र पुरस्ताद्विमलतमा किल तत्र परस्तात् ।भुवनमयी भुवनाच्च विभक्तामतिरनघाऽवतु मामतिशक्ता ॥६८४॥विषयपरिग्रहणेष्वतिसक्ता विषयविभूतिषु कापि विविक्ता ।अखिलपतेर्मयि दीव्यतु शक्तिर्विमलतमा विधुतेतरशक्तिः ॥६८५॥दृशि दृशि भाति यदीयमपापं दिशि दिशि गन्तृ च वेत्तृ च रूपम् ।भवतु शिवाय ममेयमनिन्द्या भुवनपतेर्गृहिणी मुनिवन्द्या ॥६८६॥जडकुलकुण्डदरीषु शयाना बुधकुलवह्निषु भूरिविभाना ।हरिहयशक्तिरमेयचरित्र मम कुशलं विदधातु पवित्र ॥६८७॥दहरगताखिलमाकलयन्ती द्विदलगता सकलं विनयन्ती ।दशशतपत्रगता मदयन्ती भवतु मयीन्द्रवधूर्विलसन्ती ॥६८८॥गृहयुगलीश्रिय आश्रितगम्या पदकमलद्वितयी बहुरम्या ।मम हृदि भात्वविकुण्ठितयाना हरिसुदृशस्तरुणारुणभाना ॥६८९॥उपरि तता कुलकुण्डनिशान्ताज्ज्वलितधनञ्जयदीधितिकान्तात् ।हरिहयशक्तिरियं मम पुष्टा द्रवयतु मस्तकचन्द्रमदुष्टा ॥६९०॥नभसि विराजति या परशक्तिर्मम हृदि राजति या वरशक्तिः ।उभयमिदं मिलितं बहुवीर्यं भवतु सुखं मम साधितकार्यम् ॥६९१॥त्रिभुवनभूमिपतेः प्रिययोषा त्रिमलहरी सुरविष्टपभूषा ।मम वितनोतु मनोरथपोषं दुरितविपत्तिततेरपि शोषम् ॥६९२॥पवनजगत्प्रभुपावनमूर्तिर्जलधरचालनविश्रुतकीर्तिः ।मम कुशलाय भवत्वरिभीमा जननवतां जननी बहुधामा ॥६९३॥मम सुरराजवधूकलयोग्रा खलजनधूननशक्तनखाग्रा ।दमयतु कृत्तशिराः कलुषाणि प्रकटबला हृदयस्य विषाणि ॥६९४॥कुलिशिवधूकलया परिपुष्टा बुधनुतसन्नुणजालविशिष्टा ।मम परितो विलसद्विभवानि द्रुपदसुता विदधातु शिवानि ॥६९५॥सुरजनराड्दयितांशविदीप्ते पदकमलाश्रितसाधुजनाप्ते ।दुरितवशादभितो गतभासं मनुजकुमारजनन्यवदासम् ॥६९६॥अमरनरेश्वरमन्दिरनेत्री सुमशरजीवनसुन्दरगात्री ।भवतु शची विततस्वयशस्सु प्रतिफलिता गणनाथवचस्सु ॥६९७॥विकसतु मे हृदयं जलजातं विलसतु तत्र शचीस्तुतिगीतम् ।स्फुरतु समस्तमिहेप्सितवस्तु प्रथिततमं मम पाटवमस्तु ॥६९८॥कुरु करुणारससिक्तनिरीक्षे वचनपथातिगसन्नुणलक्षे ।शचि नरसिंहजमाहितगीतं भरतधरामवितुं पटुमेतम् ॥६९९॥सुललिततामरसैः प्रसमाप्तं वरनुतिबन्धमिमं श्रवणाप्तम् ।जननि निशम्य सुसिद्धमशेषं हरिललने मम कुर्वभिलाषम् ॥७००॥॥इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतौ इन्द्राणीसप्तशती समाप्ता ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP