संस्कृत सूची|संस्कृत साहित्य|पुराण|इन्द्राणीसप्तशती| पञ्चमं पाङ्क्तं शतकम् इन्द्राणीसप्तशती प्रथमं गायत्रं शतकम् द्वितीयमौष्णिहं शतकम् तृतीयमानुष्टुभं शतकम् चतुर्थं बार्हतं शतकम् पञ्चमं पाङ्क्तं शतकम् षष्ठं त्रैष्टुभं शतकम् सप्तमं जागतं शतकम् इन्द्राणीसप्तशती - पञ्चमं पाङ्क्तं शतकम् ‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते. Tags : godgoddessindranistotraइन्द्राणीदेवतादेवीसंस्कृतस्तोत्र पञ्चमं पाङ्क्तं शतकम् Translation - भाषांतर ॥प्रथमो मयूरसारिणीपादः ॥प्रेमवासभूमिरच्छभावस्थानमानमज्जनाघहा मे ।इन्द्रसुन्दरी मुखाब्जभासी मन्दहास आपदं धुनोतु ॥४०१॥वीक्षितैः कृपान्वितैर्हरन्ती पातकानि मङ्गलं भणन्ती ।जम्भभेदिजीवितेश्वरी मे जन्मदेशमुज्ज्वलं करोतु ॥४०२॥अम्बरं च देवतानतभ्रूरम्ब ते तनुद्वयं यदुक्तम् ।आदिमा तयोर्वृषाकपिं तं देव्यजीजनत्परा जयन्तम् ॥४०३॥एतमेव देवि लोकबन्धुं सूरयो वृषाकपिं भणन्ति ।वर्षहेतुदीधितिर्वृषायं कं पिबन् करैः कपिर्निरुक्तः ॥४०४॥केचिदिन्द्रनारि चन्द्ररेखाशेखरं वृषाकपिं गदन्ति ।पण्डिताः परे तु शेषशय्याशायिनं वृषाकपिं तमाहुः ॥४०५॥ब्रह्मणस्पतिं तु वैद्युताग्नेरंशजं मरुद्गणेषु मुख्यम् ।विश्वराज्ञि विघ्नराजमेके विश्रुतं वृषाकपिं वदन्ति ॥४०६॥भास्करश्च शङ्क्रश्च मातर्माधवश्च मन्त्रनायकश्च ।आत्मजेषु ते न सन्ति नान्तर्व्यापकान्तरिक्षविग्रहायाः ॥४०७॥वासवोऽपि देवि देवतात्मा वल्लभस्तव च्छलाङ्गनायाः ।आत्मजात एव कीर्तनीयो देवतापथेन देहवत्याः ॥४०८॥साशवस्युदीरितासि धीरैर्देहिनी विहायसेन्द्रसूस्त्वम् ।लिङ्गभेदतोऽनुरूपतस्तत्कीर्तनं शवो हि शक्तिवाचि ॥४०९॥नादितिर्विभिद्यते शवस्यास्सर्वदेव मातरं विदुर्याम् ।सा मरुत्प्रसूरभाणि पृश्निः सापि भिद्यते ततो न देव्याः ॥४१०॥शक्तिरेव सा न्यगादि पृश्निश्शक्तिरेव साऽदितिर्न्यभाणि ।शक्तिरेव साऽभ्यधायि भद्रा शक्तिरेव सा शवस्यवादि ॥४११॥विज्जनः प्रकृष्टशक्तिभागं शब्दमेव पृश्निमाह धेनुम् ।या परैर्बुधैरभाणि गौरी मानवेष्टभाषयैव नारी ॥४१२॥व्यापकत्वकल्पितं विशालं देशमेव शक्तिभागमाहुः ।बुद्धिशालिनोऽदितिं सवित्रीं या परैर्विचक्षणैः स्मृता द्यौः ॥४१३॥नित्यमोदरूपशक्तिभागं पण्डिताः प्रकीर्तयन्ति भद्राम् ।उक्तिभेदचातुरीप्रलुब्धाः सूरयः परे शिवां जुगुर्याम् ॥४१४॥वीर्यरूपभाग एव गण्यः पण्डितैः शवस्यभाणि शक्तेः ।ओजसो न सोऽतिरिच्य तेंशो भिद्यते ततो न वज्रमुग्रम् ॥४१५॥वज्रमेव भाषया परेषामुच्यते प्रचण्डचण्डिकेति ।यद्विभूतिलेशचुम्बितात्मा जीयते न केनचित्पृथिव्याम् ॥४१६॥सर्वतो गतिश्शचीति शक्तिः कीर्त्यते बुधैरुदारकीर्तिः ।सर्वभागवाचकं पदं तत् पावनं पुरातनं प्रियं नः ॥४१७॥यश्शचीति नामकीर्तयेन्ना पुष्करेण ते शरीरवत्याः ।दिव्यसुन्दरी तनोरुताहो तं पराभवेन्न देवि पापम् ॥४१८॥अम्बरं वरं तवाम्ब कायं यस्सदा विलोकयन्नौपास्ते ।लोकजालचक्रवर्तिजाये तं पराभवेन्न देवि पापम् ॥४१९॥पूर्णिमासुधांशुबिम्बवक्त्रं फुर्विंआरिजातपत्रनेत्रम् ।शुभ्रतानिधानमन्दहासं कालमेघकल्पकेशपाशम् ॥४२०॥रत्न्दर्पणाभमञ्जुगण्डं चम्पकप्रसूनचारुनासम् ।कुन्दकुड्मलाभकान्तदन्तं कल्पपर्विंआभदन्तचेलम् ॥४२१॥सद्वराभयप्रदायिहस्तं सर्वदेववन्द्यपादकञ्जम् ।दिव्यरत्नभूषणैरनर्घैर्भूषितं कनत्सुवर्णवर्णम् ॥४२२॥दिव्यशुक्ल्वस्त्रयुग्मधारि स्वर्गसार्वभोमनेत्रहारि ।यः स्मरेद्वराङ्गनावपुस्ते तं पराभवेन्न देवि पापम् ॥४२३॥भारतक्षितेरिदं जनन्याश्शोकजन्यबाष्पवारि हर्तुम् ।देहि शक्तिमाश्रिताय मह्यं पाहि धर्ममिन्द्रचित्तनाथे ॥४२४॥सद्वसिष्ठसन्ततेरिमाभिस्सत्कवेर्मयूरसारिणीभिः ।सम्मदं प्रयातु शक्रचेतस्सम्प्रमोहिनीसरोजनेत्र ॥४२५॥॥द्वितीयो मनोरमापादः ॥हसितमाततायिपातकप्रमथनप्रसिद्धविक्रमम् ।अमरभूमिपालयोषितो मम करोतु भूरिमङ्गलम् ॥४२६॥करुणया प्रचोदिता क्रियाद्भरतभूमिमक्षयश्रियम् ।चरणकञ्जराजदिन्दिरा सुरनरेश्वरस्य सुन्दरी ॥४२७॥न भवनं न वा जगत्पृथङ्निवसनाय ते सुरार्चते ।यदखिलानि विष्टपानि ते वपुषि सर्वमन्दिराणि च ॥४२८॥मतिदविष्ठसीमभासुरं तव शरीरमेव पुष्करम् ।परमपूरुषस्य वल्लभे भुवनमेकमुच्यते बुधैः ॥४२९॥तरणयस्सुधांशवस्तथा सह भुवा ग्रहाः सहस्रशः ।अयि जगन्ति विस्तृतानि ते वपुषि पुष्करे जगत्यजे ॥४३०॥बहुभिरुष्णभानुभिक्र्ततात् बहुभिरिन्दुभिर्वशीकृतात् ।वियति लोकजालधात्रि ते शतगुणं बलं प्रशिश्यते ॥४३१॥न विभुरेककस्य भास्वतो विभवमेव ना प्रभाषितुम् ।किमुत ते दधासि योदरे द्युतिमतां शतानि तादृशाम् ॥४३२॥इह विहायसा शरीरिणीमतिसमीपवासिनीमपि ।न खलु कोऽपि लोकितुं प्रभुर्भगवतीं परामयुक्तधीः ॥४३३॥तदिदमुच्यते जनो जगद्वपुरमेयमादिदेवि ते ।जनयते यतोऽखिलं दृशोर्विषयभूतमेतदाततम् ॥४३४॥बहुलतारकागणैर्युतं किमपि खं तवेह वर्ष्मणि ।शचि विभज्य भाषयैकया सुकवयो महोजगद्विदुः ॥४३५॥इदमिनेन्दुभूविलक्षणैर्दिनकरैस्सुधाकरैर्ग्रहैः ।बहुजगद्भिरन्वितं महोजगदशेषधात्रि नैककम् ॥४३६॥अजरमव्ययं सनातनं मुनिजनैकवेद्यवैभवम् ।न भवतीं विना तपोजगत्पृथगशेषनाथनायिके ॥४३७॥सकलदृश्यमूलकारणं तव च संश्रयो निराश्रयः ।जननि सत्यलोक संज्ञया परमपूरुषोऽभिधीयते ॥४३८॥अयि पुरातनर्षिभाषया गगनमेतदाप ईरिताः ।अथ यदासुवीर्यमुज्झितं भगवतस्त्वमेव तत्परे ॥४३९॥शचि विराड्भवत्यभाषत श्रुतिरपीदमेव नाम ते ।विततविश्वविग्रहात्मनि प्रथितमेतदाह्मयं परम् ॥४४०॥उपनिषद्गिरा विराड्वधूः पुरुष एष भाषयान्यया ।उभयथापि साधु तत्पदं भवति ते न संशयास्पदम् ॥४४१॥न वनिता न वा पुमान् भवेज्जगति योऽन्तरश्शरीरिणाम् ।तनुषु लिङ्गभेददर्शनात् तनुमतश्च लिङ्गमुच्यते ॥४४२॥अखिलनाथवीर्यधारणान्न्गनभूमिरङ्गनामता ।सकललोकबीजभृत्त्वतो गगनदेश एष पूरुषः ॥४४३॥स्फुटविभक्तगात्रलक्ष्मणां नियतवादिनामदर्शनात् ।न पुरुषो वियद्यथा वयं न वनिता वियद्यथैव नः ॥४४४॥अभिविमानतोऽथ वा शची विबुधराजयोर्विलक्षणात् ।वरविलसिनी वियत्तनुस्सदविकारमुत्तमः पुमान् ॥४४५॥हृदयमल्पमप्यदो जनन्यनवमं विशालपुष्करात् ।विमलदेहदुर्गमध्यगं सकलराज्ञि सौधमस्तु ते ॥४४६॥विकसितं निजांशुवीचिभिक्र्तदयमालयं विशाम्ब मे ।विकचमुष्णभानुभानुभिर्दशशतच्छदं यथा रमा ॥४४७॥हृदयसाधुसौधशायिनीं नयनरम्यहर्म्यचारिणीम् ।भुवनराजचित्तमोहिनीं नमत तां परां विलासिनीम् ॥४४८॥तव परे मरीचिवीचयस्तनुगुहां प्रविश्य विश्रुते ।भरतभूमिरक्षणोद्यतं गणपतिं क्रियासुरुज्ज्वलम् ॥४४९॥गणपतेर्मनोरमा इमास्सुगुणवेदिनां मनोरमाः ।अवहिता शृणोतु सादरं सुरमहीपतेर्मनोरमाः ॥४५०॥॥तृतीयो मणिरागपादः ॥ज्योतिषां नृपतिः सकलानां शान्तिमेव सदाभिदधानः ।निर्मलो हरतात्सुरराज्ञीमन्दहासलवो मम पापम् ॥४५१॥दुष्टलोकदविष्ठपदाब्जा शिष्टशोकनिवारणदक्षा ।नाकलोकमहीपतिरामा भारतस्य धुनोत्वसुखानि ॥४५२॥देवमौलिमणीकिरणेभ्यो विक्रमं स्वयमेव ददाना ।देवराजवधूपदपद्मश्रीस्तनोतु सदा मम भद्रम् ॥४५३॥देवि ते वदनं बहुकान्तं साक्षि तत्र पुरन्दरचेतः ।अम्ब ते चरणावतिकान्तावत्र साक्षि मनः स्मरतां नः ॥४५४॥भासुरं सुरसंहतिवन्द्यं सुन्दरं हरिलोचनहारि ।पावनं नतपापविदारि स्वर्गराज्ञि पदं तव सेवे ॥४५५॥जङ्घिके जयतस्तव मातः स४ एव रुचां यदधीनः ।वासवस्य दृशां च सहस्रं यद्विलोकनलोभविनम्रम् ॥४५६॥सक्थिनी तव वासवकान्ते रामणीयकसारनिशान्ते ।वन्दते विनयेन ममेयं वन्दिनस्तव पावनि वाणी ॥४५७॥इन्द्रनारि कटिस्तव पृथ्वीमण्डलस्यतुला महनीये ।मध्यमो नभसः प्रतिमानं भोगिनां भुवनस्य च नाभिः ॥४५८॥धीरतां कुरुते विगतासुं सा सुपर्वपतेर्निशिताग्रा ।सा तवाम्ब मनोभवशस्त्री रोमराजिरघं मम हन्तु ॥४५९॥रोमराजिभुजङ्गशिशुस्ते देवि देवपतेर्हृदयस्य ।दंशनेन करोत्ययि मोहं जीविताय चिराय विचित्रम् ॥४६०॥पूर्णहेमघटविव शक्रावाहितां दधतावयि शक्तिम् ।विश्वपोषणकर्मणि दक्षावम्ब दुग्धधरौ जयतस्ते ॥४६१॥लोकमातरुरोरुहपूर्णस्वर्णकुम्भगता तव शक्तिः ।लोकपालनकर्मणि वीर्यं देवि वज्रधरस्य बिभर्ति ॥४६२॥अक्षयामृतपूर्णघटौ ते शक्रपत्नि कुचै तव पीत्वा ।लोकबाधकभीकररक्षो धूनने प्रबभूव जयन्तः ॥४६३॥हस्तयोस्तव मार्दवमिन्द्रो भाषतां सुषमामपि देवः ।दातृतामनयोर्मुनिवर्गो वर्णयत्यजरे पटुतां च ॥४६४॥पुष्पमाल्यमृदोरपि बाहोः शक्तिरुग्रतमाशरनाशे ।दृश्यते जगतामधिपे ते भाषतां तव कस्तनुतत्त्वम् ॥४६५॥कम्बुकण्ठि तवेश्वरि कण्ठस्तारहारवितानविराजी ।देवराड्भुजलोचनपथ्यो देवि मे भणताद्बहुभद्रम् ॥४६६॥आननस्य गभस्तिनिधेस्ते रामणीयकमद्भुतमीष्टे ।अप्यमर्त्यनुताखिलसिद्धेर्वासवस्य वशीकरणाय ॥४६७॥न प्रसन्नमलं रविबिम्बिं चन्द्रबिम्बमतीव न भाति ।सुप्रसन्नमहोज्ज्वलमास्यं केन पावनि ते तुलयामः ॥४६८॥लोचने तव लोकसवित्रि ज्योतिषः शवसश्च निधाने ।वक्तुमब्जसमे ननु लज्जे धोरणीमनुसृत्य कवीनाम् ॥४६९॥आयतोज्ज्वलपक्ष्मलनेत्रा चम्पकप्रसवोपमनासा ।रत्नदर्पणरम्यकपोला श्रीलिपिद्युतिसुन्दरकर्णा ॥४७०॥अष्टमीशशिभासुरभाला विष्टपत्रयचालकलीला ।स्मेरचारुमुखी सुरभर्तुः प्रेयसी विदधातु शिवं मे ॥४७१॥मन्दहासलवेषु वलक्षा मेचका चिकुरप्रकरेषु ।शोणतामधरे दधती सा रक्षतु प्रकृतिस्त्रिगुणा नः ॥४७२॥सर्वलोकवधूजनमध्ये यां श्रुतिस्सुभगामभिधत्ते ।या दिवो जगतो रुचिसारस्तां नमामि पुरन्दररामाम् ॥४७३॥स्वर्गभूपतिलोचनभाग्यश्रीश्शरीरवती जलजाक्षी ।भारतस्य करोतु समर्थं रक्षणे नरसिंहतनूजम् ॥४७४॥लोकमातुरिमे रमणीयाः पाकशासनचित्तरमण्याः ।अर्पिताः पदयोर्विजयन्तां सत्कवेः कृतयो मणिरागाः ॥४७५॥॥चतुर्थो मेघवितानपादः ॥अमरक्षितिपालकचेतो मदनं सदनं शुचितायाः ।स्मितमादिवधूवदनोत्त्थं हरतादखिलं कलुषं मे ॥४७६॥सुतरामधनामतिखिन्नामधुना बहुलं विलपन्तीम् ।परिपातु जगत्त्रयनेत्री भरतक्षितिमिन्द्रपुरन्ध्री ॥४७७॥स्थलमेतदमर्त्यनृपालप्रमदे तव मेघवितानम् ।अयि यत्र परिस्फुसीशे तटिदुज्ज्वलवेषधरा त्वम् ॥४७८॥तटिता तव भौतिकतन्वा जितमम्बुधरे विलसन्त्या ।उपमा भुवि या ललितानां युवचित्तहृतां वनितानाम् ॥४७९॥स्फुरितं तव लोचनहारि स्तनितं तव धीरगभीरम् ।रमणीयतया मिलिता ते शचि भीकरता चपलायाः ॥४८०॥चपले शचि विस्फुरसीन्द्रं घनजालपतिं मदयन्ती ।दितिजातमवग्रहसंज्ञं जनदुःखकरं दमयन्ती ॥४८१॥प्रभुमभ्रपतिं रमयन्ती दुरितं नमतां शमयन्ती ।हरितां तिमिराणि हरन्ती पवमानपथे विलसन्ती ॥४८२॥अलघुस्तनितं विदधाना बलमुग्रतमं च दधाना ।हृदयावरकं मम मायापटलं तटिदाशु धुनोतु ॥४८३॥सुरपार्थवजीवितनाथे निखिले गगने प्रवहन्त्याः ।तटितस्तव वीचिषु काचिच्चपला लसतीह पयोदे ॥४८४॥विबुधप्रणुते धनिकानां भवनेषु भवन्त्ययि दीपाः ।पटुयन्त्रबलादुदितानां तव देवि लवाः किरणानाम् ॥४८५॥व्यजनानि च चालयसि त्वं बत सर्वजगन्नऋपजाये ।विबुधोऽभिदधात्वथवा को महतां चरितस्य रहस्यम् ॥४८६॥इह चालित ईड्यमनीषैरयि यन्त्रविशेषविधिज्ञैः ।बहुलाद्भुतकार्यकलापस्तटितस्तव मातरधीनः ॥४८७॥अचरस्तरुगुल्मलतादिः सकलश्च चरो भुवि जन्तुः ।अनिति प्रमदे सुरभर्तुस्तटितस्तव देवि बलेन ॥४८८॥मनुते निखिलोऽपि भवत्या मनुजोऽनिति वक्तिशृणोति ।अवलोकयते च भणामः किमु ते जगदम्ब विभूतिम् ॥४८९॥अतिसूक्ष्मपवित्रसुषुम्णापथतस्तनुषु प्रयतानाम् ।कुलकुण्डकृशानुशिखा त्वं ज्वलसि त्रिदशालयनाथे ॥४९०॥इतरो न सुरक्षितिपालात्कुलकुण्डगतो ज्वलनोऽयम् ।इतरेन्द्रविलासिनि न त्वत्कुलकुण्डकृशानुशिखेयम् ॥४९१॥कुलकुण्डकृशानुशिखायाः किरणैः शिरसि स्थित एषः ।द्रवतीन्दुरनारतमेतद्वपुरात्ममयं विदधानः ॥४९२॥मदकृद्बहुलामृतधारापरिपूतमिदं मम कायम् ।विदधासि भजन्मनुजाप्ते कुलकुण्डधनंजयदीप्ते ॥४९३॥शिरसीह सतः सितभानोरमृतेन वपुर्मदमेति ।हृदि भात इनस्य च भासा मतिमेतु परां शचि चेतः ॥४९४॥मम योगमदेन न तृप्तिनिजदेशदशाव्यथितस्य ।अवगन्तुमुपायममोघं शचि भासय मे हृदि भानुम् ॥४९५॥विदितः प्रमदस्य विधातुः शशिनो जनयित्रि विलासः ।अहमुत्सुक ईश्वरि भानोर्विभवस्य च वेत्तुमियत्ताम् ॥४९६॥वरुणस्य दिशि प्रवहन्ती मदमम्ब करोषि महान्तम् ।दिशि वज्रभृतः प्रवहन्ती कुरु बुद्धिमकुण्ठितसिद्धिम् ॥४९७॥अमलामधिरुह्य सुषुम्णां प्रवहस्यधुनाम्ब मदाय ।अमृतामधिरुह्य च किञ्चित्प्रिवहेश्वरि बुद्धिबलाय ॥४९८॥भरतक्षितिक्षणकर्मण्यभिधाय मनोज्ञमुपायम् ।अथ देवि विधाय च शक्तं कुरु मां कृतिनं शचि भक्तम् ॥४९९॥नरसिंहसुतेन कवीनां विभुना रचितैः कमनीयैः ।परितृप्यतु मेघवितानैर्मरुतामधिपस्य पुरन्ध्री ॥५००॥॥पञ्चमं पाङ्क्तं शतकं समाप्तम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP