संस्कृत सूची|संस्कृत साहित्य|पुराण|इन्द्राणीसप्तशती| द्वितीयमौष्णिहं शतकम् इन्द्राणीसप्तशती प्रथमं गायत्रं शतकम् द्वितीयमौष्णिहं शतकम् तृतीयमानुष्टुभं शतकम् चतुर्थं बार्हतं शतकम् पञ्चमं पाङ्क्तं शतकम् षष्ठं त्रैष्टुभं शतकम् सप्तमं जागतं शतकम् इन्द्राणीसप्तशती - द्वितीयमौष्णिहं शतकम् ‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते. Tags : godgoddessindranistotraइन्द्राणीदेवतादेवीसंस्कृतस्तोत्र अथ द्वितीयमौष्णिहं शतकम् Translation - भाषांतर ॥प्रथमः कुमारललितापादः ॥सुरेश्वरमहिष्याः स्मितं शशिसितं मे ।तनोतु मतिमच्छां करोतु बलमग्रय्म् ॥१०१॥विधाय रिपुधूतिं निधाय सुदशायाम् ।पुलोमतनुजाता धिनोतु भरतक्ष्माम् ॥१०२॥पदप्रणतरक्षा विधानधृतदीक्षा ।जगद्भरणदक्षा परा जयति शक्तिः ॥१०३॥स्वरत्यविरतं सा शनैर्नभसि रङ्गे ।ज्वलत्यधिकसूक्ष्मं जगत्प्रभवशक्तिः ॥१०४॥महस्तव सुसूक्ष्मं निदानमखिलानाम् ।भवत्यखिलमातर्जगत्यनुभवानाम् ॥१०५॥जनन्यनुभवानां मतित्वपरिणामे ।स्वरो भवति मूलं तवाभ्रहयरामे ॥१०६॥य ईश्वरि निदानं समस्तमतिभाने ।स्वरो गतिविशेषात्स एव खलु कालः ॥१०७॥ज्वलन्त्यभिहिता त्वं विहायसि विशाले ।प्रचण्डपदपूर्वा प्रपञ्चकरिचण्डी ॥१०८॥स्वरन्त्यखिलबुद्धिप्रदा भवसि गौरी ।त्रिकालतनुरम्ब स्मृता त्वमिह काली ॥१०९॥महस्स्वर इतीदं द्वयं तदतिसूक्ष्मम् ।महेश्वरि तवांशद्वयं परममुक्तम् ॥११०॥महोऽतिशयमाप्तं त्वयि त्रिदिवगायाम् ।स्वरोऽतिशयमाप्तः सिताद्रिनिलयायाम् ॥१११॥दिवं नयति पूर्वा भुवं युवतिरन्या ।द्वयोः प्रकृतिरभ्रं विशालमतिमान्या ॥११२॥न ते दिवि लसन्त्याः पिता तनुभृदन्यः ।स्वयं भुवमिमां त्वां सतामवनि विद्मः ॥११३॥सुरारिकुलजन्मा तवेश्वरि पुलोमा ।पितेति कविभाषा परोक्षगतिरेषा ॥११४॥वदन्त्यसुरशब्दैर्घनं सजलमेतम् ।पुलोमपदमेकं पुराणसतितेषु ॥११५॥प्रकृष्टतरदीप्तिर्गभीरतरनादा ।इतो हि भवसि त्वं तटित्तनुरमेये ॥११६॥अरातिरसुरोऽयं विभोर्निगदितस्ते ।हयश्च बतगीतः पिता तव पयोदः ॥११७॥प्रियैः किल परे वां परोक्षवचनौघैः ।प्रतारितमिवेला जगन्मुनिगणेन ॥११८॥निकृष्टमपि रम्यं यदि त्रिदिवलोके ।तवाम्ब किमु वाच्या रुचिस्त्रिदिवनाथे ॥११९॥त्वमम्ब रमणीया वधूस्त्वमिव नाके ।त्वया क इव तुल्यां मृदो वदतु लोके ॥१२०॥विनीलमिव खांशं विदुस्त्रिदिवमेके ।परस्तु वदसि स्वः कविः कमलबन्धुम् ॥१२१॥अमुत्रगतशोके महामहसि नाके ।नमाम्यधिकृतां तां पुराणकुलकान्ताम् ॥१२२॥यदा ममुतपक्वं मदीयमघमुग्रम् ।तदिन्द्रकुलकान्ते निवारय समग्रम् ॥१२३॥ददातु भरतक्ष्माविषादहरणाय ।अलं बलमुदारा जयन्तजननी मे ॥१२४॥अतीव ललिताभिः कुमारललिताभिः ।इमाभिरमरेशप्रिया भजतु मोदम् ॥१२५॥॥द्वितीयो मदलेखापादः ॥पौलोम्याः परिशुभ्रज्योत्स्नादृश्यरुचो मे ।श्रीमन्तो दरहासाः कल्पन्तां कुशलाय ॥१२६॥कारुण्यामृतसिक्ता शक्ता शक्रमहिष्याः ।प्रेक्षा भारतभूमेर्दौर्बल्यं विधुनोतु ॥१२७॥वन्दे निर्जरराज्ञीं सङ्क्ल्पे सति यस्याः ।साध्यासाध्यविचारो नैव स्यादणुकोऽपि ॥१२८॥सङ्क्ल्पस्तव कश्च्चिचत्ते चेद्दिव ईशे ।स्यादुल्लङ्घ्य निसर्गं सिद्धिर्निष्फलता च ॥१२९॥मूढोऽप्युत्तमरीत्या सिध्येदध्ययनेषु ।मेधावी च नितान्तं नैव स्यात्कृतकृत्यः ॥१३०॥उत्पद्येत महेश्वर्यप्राज्ञादपि शास्त्रम् ।यायान्मातरकस्माद्विभ्रान्तिं विबुधोऽपि ॥१३१॥अल्पानामबलानां सङ्ग्रामे विजयः स्यात् ।शक्तानां बहुलानां घोरा स्यात्परिभूतिः ॥१३२॥राजेरन्नृपपीठेष्वख्यातानि कुलानि ।स्याद्दुर्धर्षबलानां पातो राजकुलानाम् ॥१३३॥निर्यत्नोऽपि समाधेर्विन्देद्देवि समृद्धिम् ।योगस्याम्ब न पश्येदभ्यस्यन्नपि सिद्धिम् ॥१३४॥अत्यन्तं यदसाध्यं नेदिष्ठं भवतीदम् ।साध्यं सर्वविधाभिः स्यादिन्द्राणि दविष्ठम् ॥१३५॥गायामो मुनिसङ्घैर्गेयां कामपि मायाम् ।इन्द्रस्यापि विनेत्रीं त्रैलोक्यस्य च धात्रीम् ॥१३६॥विद्यानामधिनाथे कां विद्यां श्रयसे त्वम् ।इन्द्रं कर्तुमधीनं विश्वस्मादधिकं तम् ॥१३७॥नित्यालिर्मिनीषे स्त्रीमोहो न वितर्क्यः ।भ्रूचेष्टानुचरत्वादन्या स्यादनुकम्पा ॥१३८॥सौन्दर्यं परमन्यद्वजेरद्दर्यथवा ते ।हर्तुं यत्सुखमीष्टे तादृक्तस्य च चित्तम् ॥१३९॥चक्षुर्दर्शनमात्रन्निस्तेजो विदधानम् ।चित्तं चोज्झितधैर्यं मत्तानां दनुजानाम् ॥१४०॥गर्ते दुर्जनदेहे मग्नान् पङ्क्विलग्नान् ।प्राणानात्मसजातीनुद्धर्तुं धृतदीक्षम् ॥१४१॥वज्रं निर्जरराजो यद्धत्ते समरेषु ।त्वच्छक्तेः कलयैतन्मन्मातर्निरमायि ॥१४२॥राज्ञीत्वात्परमेते राजत्वं शतमन्योः ।निश्शक्तिस्स विना त्वां कामाज्ञां कुरुतां नः ॥१४३॥सर्वं शक्रनिशान्तस्येशाने तव हस्ते ।अस्माकं तु धियेदं स्तोत्रं सङ्ग्रहतस्ते ॥१४४॥गन्तव्यं स्वरधीशे निश्शेषार्पणशूरम् ।बिभ्राणा नयसि त्वं मार्जालीव किशोरम् ॥१४५॥गृह्ण्न्नम्बरनाथामम्बामश्लथमन्धः ।कीशस्येव किशोरो योगी गच्छति गम्यम् ॥१४६॥पूर्णात्मार्पणहीनोऽप्यज्ञाताऽपि समाधेः ।नित्यं यो जगदम्ब त्वां सेवेत जपाद्यैः ॥१४७॥तं चाचञ्चलभक्तिं कृत्वा पूरितकामम् ।निष्ठां दास्यसि तस्मै पौलोमि क्रमशस्त्वम् ॥१४८॥भिन्नां सङ्घसहस्त्रैः खिन्नां शत्रुभरेण ।पातुं भारतभूमिं मातर्देहि बलं मे ॥१४९॥त्र्यैलोक्यावनभारश्रान्तां वासवकान्ताम् ।हैरम्ब्यो मदलेखाः सम्यक् सम्मदयन्तु ॥१५०॥॥तृतीयो हंसमालापादः ॥सुरुचिर्वज्रपाणेस्सुदृशो मन्दहासः ।हरतान्मोहमूलं हृदयस्थं तमो मे ॥१५१॥अमृतं सङ्किरन्त्या प्रसरन्त्येह दृष्ट्या ।सुरराज्ञी बलाढ्यां भरतक्ष्मां करोतु ॥१५२॥अमृताम्भः किरन्ती करुणाम्भो वहन्ती ।नतरक्षात्तदीक्षा शचि मातस्तवेक्षा ॥१५३॥कृतपीयूषवृष्टिस्ततकल्याणसृष्टिः ।विहितैनोविनष्टिर्धृतविज्ञानपुष्टिः ॥१५४॥भृतदेवेन्द्रतुष्टिर्यमिनां देवगृष्टिः ।मम काम्यानि देयात्तव विश्वाम्ब दृष्टिः ॥१५५॥जगतां चक्रवर्तिन्यसितस्ते कटाक्षः ।जलदो भक्तिभाजां शिखिनां नर्तनाय ॥१५६॥सुकृती कोऽपि नाट्ये बहुले तत्र मातः ।जगते सारभूतानुपदेशान्करोति ॥१५७॥अपरो नव्यकाव्यान्यनवद्यानि धन्यः ।विदधात्यप्रयत्नाद्बुधभोगक्षमाणि ॥१५८॥इतरो भाग्यशाली रमणीयैः प्रसङ्गैः ।वितनोति स्वजातिं जगति श्रेष्ठनीतिम् ॥१५९॥जगतां मातरेको महसा पुण्यशाली ।विधुतारिः स्वदेशं कुरुते वीतपाशम् ॥१६०॥पर इन्द्राणि साधुर्बत विस्मृत्य विश्वम् ।रमते सिक्तगण्डः प्रमदाश्रुप्रदानैः ॥१६१॥तव रागार्द्रदृष्ट्या दिवि शक्रस्य नाट्यम् ।करुणासिक्तदृष्टया भुवि भक्त्स्य नाट्यम् ॥१६२॥तव सप्रेमदृष्टिर्बलमिन्द्रे दधाति ।तव कारुण्यदृष्टिर्बलमस्मासु धत्ताम् ॥१६३॥तव वामाः कटाक्षाः प्रभुमानन्दयन्तु ।उचितो दक्षिणानामयमस्त्वीक्षणानाम् ॥१६४॥सुकृतानां प्रपोषं दुरितानां विशोषम् ।करुणार्द्रा विभान्ती तव दृष्टिः क्रियान्नः ॥१६५॥कुरु पादाब्जबन्धोः सरणिं निस्तमस्काम् ।शचि विज्ञानतेजः किरतावीक्षितेन ॥१६६॥क्रिययाराधयन्तो भुवने ते विभूतीः ।इह केचिल्लभन्ते तव मातः कटाक्षान् ॥१६७॥स्फुटविज्ञानपूर्वं प्रभजेरन् यदि त्वाम् ।स्थिरया देवि भक्त्या किमु वक्तव्यमीशे ॥१६८॥कुविधेर्विस्मरन्ती भरतक्ष्मा शचि त्वाम् ।बहुकालादभाग्ये पतिता देव्ययोग्ये ॥१६९॥अभिषिक्त्स्य माता तव तेजोंशभूता ।सुदशां सेवमानामनयत्पश्चिमाशाम् ॥१७०॥अयि कालं कियन्तं दयसे पश्चिमस्याम् ।इत इन्द्राणि पूर्वामवलोकस्व दीनाम् ॥१७१ ॥न वयं पश्चिमस्याश्शचि याचामनाशम् ।कृपयैतां च पूर्वां निहताशामवाशाम् ॥१७२॥सकलं व्यर्थमासीदयि दीनेषु दृष्टा ।तव विश्वस्य मातः करुणैकावशिष्टा ॥१७३॥सुरराजस्य कान्ते नरसिंहस्य सूनुम् ।बलवन्तं कुरु त्वं भरतक्ष्मावनाय ॥१७४॥रुचिराभिर्निजाभिर्गतिभिर्हर्षयन्तु ।मरुतां भर्तुरेतास्तरुणीं हंसमालाः ॥१७५॥॥चतुर्थो मधुमतीपादः ॥दिशि दिशि प्रसरद्रुचितमोदमनम् ।हरतु मे दुरितं हरिवधूहसितम् ॥१७६॥हरतु दुःखभरप्रसृतमश्रुजलम् ।भरतभूसुदृशो बलजितो रमणी ॥१७७॥अतितरां महिता सुरपतेर्वनिता ।करुणया कलिता मम शची शरणम् ॥१७८॥त्रिभुवनक्षितिराड्भुवनभूषणभा ।अखिलभासकभा मम शची शरणम् ॥१७९॥सततयुक्तसुधीहृदयदीपकभा ।निखिलपाचकभा मम शची शरणम् ॥१८०॥रविविरोचकभा शशिविराजकभा ।भगणशोभकभा मम शची शरणम् ॥१८१॥गगनखेलकभा सकलचालकभा ।अभयदाऽतिशुभा मम शची शरणम् ॥१८२॥रुचिलवङ्गतया यदनघांशुनिधेः ।हृततमोभवनं भवति दीपिकया ॥१८३॥स्फुरति चारु यतः किरणमेकमिता ।जलदसौधतले मुहुरियं चपला ॥१८४॥भवति यद्द्युतितः कमपि भागमितः ।पविररातिहरः प्रहरणेशपदम् ॥१८५॥भवति यत्सुरुचेरणुतमांशमिता ।युवमनोमदनी सुवदनास्मितभा ॥१८६॥विततसूक्ष्मतनुर्महति सा गगने ।परमपूरुषभा मम शची शरणम् ॥१८७॥अमरनाथसखी रुचिनिधानमुखी ।अमृतवर्षकदृङ् मम शची शरणम् ॥१८८॥अविधवा सततं युवतिरेव सदा ।अनघवीरसुता मम शची शरणम् ॥१८९॥अमृतवत्यधरे सुरधरापतये ।चरणयोर्भजते मम शची शरणम् ॥१९०॥स्मितलवेषु सिता शिरसिजेष्वसिता ।चरणयोररुणा बहिरपि त्रिगुणा ॥१९१ ॥कपटचन्द्रमुखी प्रकृतिरिन्द्रसखी ।मृतिजरारहिता मम शची शरणम् ॥१९२ ॥कृशतमेप्युदरे त्रिभुवनं दधती ।जनिमतां जननी मम शची शरणम् ॥१९३ ॥स्थिरतरा मनसि स्थिरतमा वचसि ।नयनयोस्तरला मम शची शरणम् ॥१९४॥मृदुतरा करयोर्मृदुतमा वचसि ।भुजबले कठिना मम शची शरणम् ॥१९५॥मृदुलबाहुलताऽप्यमितभीमबला ।असुरदर्पहरी मम शची शरणम् ॥१९६॥अबलयाऽपि यया न सदृशोऽस्ति बले ।जगति कश्चिदसौ मम शची शरणम् ॥१९७॥अतितरां सदया पदरते मनुजे ।खलजने परुषा मम शची शरणम् ॥१९८॥गणपतिं कुरुताद्भरतभूम्यवने ।अमरभूमिपतेः प्रियतमा सबलम् ॥१९९॥मधुरशब्दततीर्मधुमतीरजरा ।गणपतेश्शृणुयात्सुरपतेस्तरुणी ॥२००॥॥द्वितीयमौष्णिहं शतकं समाप्तम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP