संस्कृत सूची|संस्कृत साहित्य|पुराण|इन्द्राणीसप्तशती| तृतीयमानुष्टुभं शतकम् इन्द्राणीसप्तशती प्रथमं गायत्रं शतकम् द्वितीयमौष्णिहं शतकम् तृतीयमानुष्टुभं शतकम् चतुर्थं बार्हतं शतकम् पञ्चमं पाङ्क्तं शतकम् षष्ठं त्रैष्टुभं शतकम् सप्तमं जागतं शतकम् इन्द्राणीसप्तशती - तृतीयमानुष्टुभं शतकम् ‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते. Tags : godgoddessindranistotraइन्द्राणीदेवतादेवीसंस्कृतस्तोत्र तृतीयमानुष्टुभं शतकम् Translation - भाषांतर ॥प्रथमः पथ्यावक्त्रपादः ॥हसितं तन्महाशक्तेरस्माकं हरतु भ्रमम् ।यत एव महच्चित्रं विश्वमेतद्विजृम्भते ॥२०१॥राजन्ती सर्वभूतेषु सर्वावस्थासु सर्वदा ।माता सर्गस्य चित्पायात् पौलोमी भारतक्षितिम् ॥२०२॥धर्मिज्ञानं विभोस्तत्त्वं धर्मो ज्ञानं सवित्रि ते ।व्यवहृत्यै विभागोऽयं वस्त्वेकं तत्त्वतो युवाम् ॥२०३॥इन्द्रेशवासुदेवाद्यैः पदैः सङ्कीत्र्यते विभुः ।शची शिवा महालक्ष्मीप्रमुखैर्भवती पदैः ॥२०४॥अन्तरं वस्तुनो ज्ञातृ तच्छक्तं परिचक्षते ।शाखाः समन्ततो ज्ञानं शक्तिं सङ्कीर्तयन्ति ताम् ॥२०५॥अन्तरस्य च शाखानामैक्यं निर्विषयस्थितौ ।विषयग्रहणेष्वेव सविभागः प्रदृश्यते ॥२०६॥स्यादेवं विषयापेक्षी शाखानामन्तरस्य च ।अविभक्तैकरूपाणां विभागो हरितामिव ॥२०७॥लक्ष्यमन्तर्वयं चक्रे ध्यायामो यत्र निष्ठिताः ।अन्तरीभावतस्तस्य नान्तरं तु विलक्षणम् ॥२०८॥अहङ्कृतेर्वयं नान्ये यत्राहङ्कृतिसम्भवः ।सम्पद्येतान्तरं तत्र ज्ञानस्य ज्ञातृतावहम् ॥२०९॥अन्तरावर्तभूयस्त्वादेकस्मिन् बोधसागरे ।बोद्धारो बहवोऽभूवन् वस्तु नैव तु भिद्यते ॥२१०॥चिद्रूपे मातरेवं त्वं परस्माद्ब्रह्मणो यथा ।न देवि देवतात्मभ्यो जीवात्मभ्यश्च भिद्यसे ॥२११॥समस्तभूतबीजानां गूढानामन्तरात्मनि ।तवोद्गारोऽयमाकाशो मातस्सूक्ष्मरजोमयः ॥२१२॥न सर्वभूतबीजानि वस्तूनि स्युः पृथक् पृथक् ।त्वयि प्रागविभक्तानि बभूवुरिति विश्रुतिः ॥२१३॥यथाम्बस्मृतिबीजानां प्रज्ञायामविशेषतः ।तथा स्याद्भूतबीजानामविभक्त्स्थितिस्त्वयि ॥२१४॥नाणूनि भूतबीजानि प्राक्सर्गात्त्वयि संस्थितौ ।चितिशक्त्यात्मकान्येव निराकाराणि सर्वथा ॥२१५॥अनादि चेदिदं विश्वं स्मरण्णात्तव सर्जनम् ।सादि चेदादिमः सर्गो वक्त्व्यस्तव कल्पनात् ॥२१६॥विधातुं शक्नुयात्संविदभूतस्यापि कल्पनम् ।कल्पितस्यैकदा भूयः सर्जनावसरे स्मृतिः ॥२१७॥चितेरस्मादृशां वीर्यं स्वप्ने चेद्विश्वकारणम् ।चितेस्समष्टिभूतायाः प्रभावे संशयः कुतः ॥२१८॥मातस्समष्टिचिद्रूपे विभूतिर्भुवनं तव ।इह व्यष्टि शरीरेषु भान्ती तदनुपश्यसि ॥२१९॥त्वं बह्म त्वं पराशक्तिस्त्वं सर्वा अपि देवताः ।त्वं जीवास्त्वं जगत्सर्वं त्वदन्यन्नास्ति किञ्चन ॥२२०॥सती चिदम्ब नैव त्वं भावाभावविलक्षणा ।शक्तिशक्तिमतोर्भेददर्शनादेष विभ्रमः ॥२२१॥तवाम्ब जगतधास्य मृत्तिकाघटयोरेव ।सम्बन्धो वेदितव्यः स्यान्न रज्जौफणिनोरिव ॥२२२॥त्वं शक्तिरस्यविच्छिन्ना भावैरात्मविभूतिभिः ।अन्तरास्तु महेन्द्रस्य शक्त्स्य प्रतिबिम्बवत् ॥२२३॥शक्तिर्गणपतेः काये प्रवहन्ती सनातनी ।भारतस्य क्रियादस्य बाध्यमानस्य रक्षणम् ॥२२४॥इमानि तत्त्ववादीनि वासिष्ठस्य महामुनेः ।पथ्यावक्त्रणि सेवन्तामनन्तामभवां चितिम् ॥२२५॥॥द्वितीयो माणवकपादः ॥शक्त्तमा शक्रवधू हासविभा मे हरतु ।मानसमार्गावरकं जेतुमशक्यं तिमिरम् ॥२२६॥भारतभूपद्मदृशो दुर्दशया क्षीणतनोः ।बाष्पमजस्रं विगलद्वासवभामा हरतु ॥२२७॥दण्डितरक्षोजनता पण्डितगीतावनिता ।मण्डितमाहेन्द्रगृहा खण्डितपापा जयति ॥२२८॥सद्गुणसम्पत्कलितं सर्वशरीरे ललितम् ।देवपतेः पुण्यफलं पुष्यतु मे बुद्धिबलम् ॥२२९॥हासविशेषैरलसैर्दिक्षु किरन्त्यच्छसुधाम् ।इन्द्रदृगानन्दकरी चन्द्रमुखी मामवतु ॥२३०॥प्रेमतरङ्गप्रतिमैः शीतलदृष्टिप्रकरैः ।शक्रमनोमोहकरी वक्रकचा मामवतु ॥२३१॥गाढरसैश्चारुपदैर्गूढतरार्थैर्वचनैः ।कामकरी वृत्रजितो हेमतनुर्मामवतु ॥२३२॥मृत्युतनुः कालतनोर्विश्वपतेः पार्श्वचरी ।प्रेतजगद्रक्षति या सा तरुणी मामवतु ॥२३३॥प्रेतजगत्केचिदधो लोकमपुण्यं ब्रुवते ।शीतरुचेर्देवि परो नेतरदेतद् वदति ॥२३४॥भूरियमुर्वी वसुधा वारिजवैर्येषभुवः ।स्वर्महसां राशिरसौ येषु नरप्रेतसुराः ॥२३५॥राजतशैलं शशिनः केचिदभिन्नं ब्रुवते ।मृत्युयमावेव शिवावीश्वरि तेषां तु मते ॥२३६॥राजतशैलः पितृभूरोषधिराडेष यदि ।काञ्चनशैलः सुरभूर्बन्धुरसौ वारिरुहाम् ॥२३७॥पावय भूमिं दधतः पावककायस्य विभोः ।भामिनि भावानुगुणे सेवकमग्नायि तव ॥२३८॥यस्य यमो भूतपतिर्बुद्धिमतस्तस्य मते ।आग्निरुपेन्द्रो मघवा काञ्चनगर्भो भगवान् ॥२३९॥यस्य महाकालवधूर्मृत्युरपि द्वे न विदः ।त्वं शचि मेधाऽस्यमते पावकशक्तिः कमला ॥२४०॥नामसु भेदोऽस्तु धियामीश्वरि निष्कृष्टमिदम् ।सूर्यधरेन्दुष्वजरे त्वं त्रितनुर्भासि परे ॥२४१॥सात्त्विकशक्तिः सवितर्यादिमरामे भवसि ।राजसशक्तिर्भुवि नस्तामसशक्तिः शशिनि ॥२४२॥सर्वगुणा सर्वविभा सर्वबला सर्वरसा ।सर्वमिदं व्याप्य जगत्कापि विभान्ती परमा ॥२४३॥व्योमतनुर्निर्वपुषो देवि सतस्त्वं दयिता ।अस्यभियुक्तैर्विबुधैरम्ब महेश्वर्युदिता ॥२४४॥सा खलु माया परमा कारणमीशं वदताम् ।सा प्रकृतिः साङ्ख्यविदां सा यमिनां कुण्डलिनी ॥२४५॥सा ललिता पञ्चदशीमुत्तमविद्यां जपताम् ।सा खलु चण्डी जननी साधुनवार्णं भजताम् ॥२४६॥सा मम शच्याः परमं कारणरूपं भवति ।कार्यतनुर्दिवि शक्रं सम्मदयन्ती लसति ॥२४७॥व्योमतनोः सर्वजगच्चालनसूत्रं तु वशे ।निर्वहणे तस्य पुनर्दिव्यतनुस्त्रीत्रितयम् ॥२४८॥पातुमिमं स्वं विषयं हन्त चिरान्निर्विजयम् ।किङ्क्रमीशे विभयं मां कुरु पर्यार्शियम् ॥२४९॥चारुपदक्रीडनकैर्मातरिमैर्माणवकैः ।चेतसि ते देवनुते प्रीतिरमोघा भवतु ॥२५०॥॥तृतीयश्चित्रपदापादः ॥अप्यलसो हरिदन्तध्वान्तततेरपि हर्ता ।अस्तु ममेन्द्रपुरन्ध्री हासलवः शुभकर्ता ॥२५१॥पाहि परैर्हृतसारां नेत्रगलज्जलधाराम् ।भारतभूमिमनाथां देवि विधाय सनाथाम् ॥२५२॥चालयता सुरराजं पालयता भुवनानि ।शीलयता नतरक्षां कालयता वृजिनानि ॥२५३॥लालयता मुनिसङ्घं कीलयता दिवि भद्रम् ।पावय मां सकृदीशे भासुरदृक्प्रसरेण ॥२५४॥सर्वरुचामापि शालां त्वां शचि मङ्गललीलाम् ।कालकचामुत कालीं पद्ममुखीमुत पद्माम् ॥२५५॥यः स्मरति प्रतिकल्यं भक्तिभरेण परेण ।तस्य सुरेश्वरि साधोरस्मि पदाब्जभुजिष्यः ॥२५६॥यस्तव नामपवित्रं कीर्तयते सुकृती ना ।वासवसुन्दरि दासस्तच्चरणस्य सदाऽहम् ॥२५७॥पावकसागरकोणं यस्तव पावनयन्त्रम् ।पूजयति प्रतिघस्रं देवि भजामि तदङ्ध्रिम् ॥२५८॥यस्तव मन्त्रमुदारप्राभवमागमसारम् ।पावनि कूर्चमुपास्ते तस्य नमध्रणाय ॥२५९॥शान्तधियेतरचिन्तासन्ततिमम्ब विधूय ।चिन्तयतां तव पादावस्मि सतामनुयायी ॥२६०॥शोधयतां निजतत्त्वं साधयतां महिमानम् ।भावयतां चरणं ते देवि पदानुचरोऽहम् ॥२६१॥योऽनुभवेन्निजदेहे त्वामजरे प्रवहन्तीम् ।सन्ततचिन्तनयोगात्तस्य नमामि पदाब्जम् ॥२६२॥बोधयते भवतीं यः प्राणगतागतदर्शी ।कुण्डलिनीं कुलकुण्डात्तं त्रिदिवेश्वरि वन्दे ॥२६३॥लोचनमण्डलसौधां लोकनमूलविचारी ।विन्दति यः परमे त्वां वन्दनमस्य करोमि ॥२६४॥मानिनि जम्भजितस्त्वां मानसमूलवितर्की ।वेदहृदम्बुरुहे यः पादममुष्य नमामि ॥२६५॥अन्तरनादविमर्शी पश्यति यः सुकृती ते ।वैभवमम्ब विशुद्धे तेन वयं परवन्तः ॥२६६॥इन्द्रपदस्थितचित्तश्शीर्षसुधारसमत्तः ।यो भजते जननि त्वां तच्चरणं प्रणमामि ॥२६७॥रासनवारिणि लग्नः सम्मदवीचिषु मग्नः ।ध्यायति यः परमे त्वां तस्य पदं मम वन्द्यम् ॥२६८॥त्वां सदहञङ्कृतिरूपां योगिनुते हतपापाम् ।धारयते हृदये यस्तस्य सदाऽस्मि विधेयः ॥२६९॥धूतसमस्तविकल्पो यस्तव पावनलीलाम् ।शोधयति स्वगुहायां तस्य भवाम्यनुजीवी ॥२७०॥यो भजते निजदृटिं रूपपरिग्रहणेषु ।कामपि देवि कलां ते तस्य पदे निपतेयम् ॥२७१॥कर्मणि कर्मणि चेष्टामम्ब तवैव विभूतिम् ।यः शितबुद्धिरुपास्ते तत्पदमेष उपास्ते ॥२७२॥वस्तुनि वस्तुनि सत्तां यो भवतीं समुपास्ते ।मातरमुष्य वहेयं पादयुगं शिरसाऽहम् ॥२७३॥पातुमिमं निजदेशं सर्वदिशासु सपाशम् ।अम्ब विधाय समर्थं मां कुरु देवि कृतार्थम् ॥२७४॥चित्रपदाभिरिमाभिश्चित्रविचित्रचरित्रा ।सम्मदमेतु मघोनः प्राणसखी मृगनेत्र ॥२७५॥॥चतुर्थो नाराचिकापादः ॥अन्तर्विधुन्वता तमः प्राणस्य तन्वता बलम् ।मन्दस्मितेन देवताराज्ञी करोतु मे शिवम् ॥२७६॥उत्थाप्य पुण्यसञ्चयं सम्मद्र्य पापसंहतिम् ।सा भारतस्य सम्पदे भूयाद्बलारिभामिनी ॥२७७॥लीलासखी बिडौजसस्स्वर्वाटिकासु खेलने ।पीयुषभानुजिन्मुखी देवी शची विराजते ॥२७८॥पक्षः परो मरुत्वतो रक्षः प्रवीरमर्दने ।भामालि भासुरानना देवी शची विराजते ॥२७९॥भीतिं निशाटसंहतेः प्रीतिं सुपर्वणां ततेः ।ज्याटङ्कृतैर्वितन्वती देवी शची विराजते ॥२८०॥देवेन्द्रशक्तिधारिणी शत्रुप्रसक्तिवारिणी ।मौनीन्द्रमुक्तिकारिणी देवी शची गतिर्मम ॥२८१॥सन्नस्वदेशदर्शनाद्भिन्नस्वजातिवीक्षणात् ।खिन्नस्य संश्रितावनी देवी शची गतिर्मम ॥२८२॥सङ्घे सहस्रधाकृते देशे निकृष्टतां गते ।शोकाकुलस्य लोकभृद्देवी शची गतिर्मम ॥२८३॥सा संविदोऽधिदेवता तस्यास्स्वरः परो वशे ।सर्वं विधीयते तया तस्मात्परा मता शची ॥२८४॥सा याति सूक्ष्ममप्यलं सा भाति सर्ववस्तुषु ।सा माति खं च निस्तुलं तस्मात्परा मता शची ॥२८५॥सा सर्वलोकनायिका सा सर्वगोलपालिका ।सा सर्वदेहचालिका तस्मात्परा मता शची ॥२८६॥यस्याः कृतिर्जगत्त्रयं या तद्बिभर्ति लीलया ।यस्यां प्रयाति तल्लयं सा विश्वनायिका शची ॥२८७॥धर्मे परिक्षयं गते याऽविश्य निर्मलं जनम् ।तद्रक्षणाय जायते सा विश्वनायिका शची ॥२८८॥वेधा ऋतस्य योदिता मन्त्रेण सत्यवादिना ।बाधानिवारिणी सतां सा विश्वनायिका शची ॥२८९॥यज्ञो यया विनीयते युद्धं तथा पृथग्विधभ् ।तां देवराजमोहिनीं नारीं नुमः पुरातनीम् ॥२९०॥यस्यास्सुतो वृषाकपिर्देवोऽसतां प्रशासिता ।तां सर्वदा सुवासिनीं नारीं नुमः पुरातनीम् ॥२९१॥यस्यास्समा नितम्बिनी काचिन्न विष्टपत्रये ।तां नित्यचारु यौवनां नारीं नुमः पुरातनीम् ॥२९२॥यच्चारुता न दृश्यते मन्दारपल्लवेष्वपि ।तत्सुन्दराच्चसुन्दरं शच्याः पदाम्बुजं श्रये ॥२९३॥यस्य प्रभा न विद्यते माणिक्यतल्ल्जेष्वपि ।तद्भासुराच्च भासुरं शच्याः पदाम्बुजं श्रये ॥२९४॥न स्यादघैस्तिरस्कृतो यच्चिन्तको नरः कृती ।तत्पावनाच्च पावनं शच्याः पदाम्बुजं श्रये ॥२९५॥राजन्नखेन्दुभानुभिस्सर्वं तमो विधुन्वते ।बृन्दारकेन्द्रसुन्दरीपादाम्बुजाय मङ्गलम् ॥२९६॥गीर्वाणमौलिरीभा सङ्क्षालिताय दीप्यते ।स्वर्गाधिनाथभामिनिपादाम्बुजाय मङ्गलम् ॥२९७॥बालार्कबिम्बरोचिषे योगीन्द्र हृद्गुहाजुषे ।पाकारिजीवितेश्वरीपादाम्बुजाय मङ्गलम् ॥२९८॥आत्मीयदेशरक्षणे शक्तं करोतु सर्वथा ।पापद्विषां प्रियङ्करी वासिष्ठमिन्द्रसुन्दरी ॥२९९॥वासिष्ठवाक्प्रदीप्तिर्भिनाराचिकाभिरीश्वरी ।गीर्वाणचक्रवर्तिनस्सम्मोदमेतु सुन्दरी ॥३००॥॥तृतीयमानुष्टुभं शतकं समाप्तम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP