मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|उमाशतकम्| नवमं दशकम् उमाशतकम् प्रथमं दशकम् द्वितीयं दशकम् तृतीयं दशकम् चतुर्थं दशकम् पञ्चमं दशकम् षष्ठं दशकम् सप्तमं दशकम् अष्टमं दशकम् नवमं दशकम् दशमं दशकम् उमाशतकम् - नवमं दशकम् देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraumaउमादेवतादेवीसंस्कृतस्तोत्र नवमं दशकम् (आर्यावृय्त्तम्) Translation - भाषांतर स जयति पुण्यकुलेषु भ्राम्यन् गणनाथमातुरालोकः ।यमनुचरतो जनार्दनकुलतरुणी देवता च गिराम् ॥८१॥कस्य प्रबलप्रतिभटभुजकण्डूवारणं महद्वीर्यम् ।कस्य गिरामिह सर्गो युगस्य परिवर्तनेऽपि पटुः ॥८२॥कस्य पुनरन्तरात्मनि सङ्गसहस्रैरचालिता निष्ठा ।धूर्जटिदियते युष्मद्दृगन्तभृतमन्तरा धन्यम् ॥८३॥यस्य निदानमविद्या ममकारः पूर्वरूपमङ्कुरितः ॥रूपं तापत्रितयं सत्सङ्गः किञ्चिदुपशान्तयै ॥८४॥अन्तःकरणं स्थानं प्रकोपनो विषयपञ्चकाभ्यासः ।मुक्तिः सुषुप्तिसमये पुनरगमनाय घोराय ॥८५॥लोभाभिलाषरोषाः कफमारुतमायवस्त्रयो दोषाः ।अरुचिः पथ्ये भूयस्यनुबन्धोपद्रवो घोरः ॥८६॥तस्य प्रयच्छ शमनं संसाराख्यज्वरस्य भूरिकृपे ।मृत्युञ्जयस्य भामिनि भेषजमालोकितं नाम ॥८७॥भवदीयस्य भवानि प्रसिद्धचरिते कटाक्षमेघस्य ।प्रावृट्परितापहृतो भव्यामृतवर्षिणः करुणा ॥८८॥राजोग्रदृष्टिरुग्रो युवराजः सन्ततं मदोपेतः ।तव राज्ञि न करुणा चेद्भुवनस्य कथं शुभं भवतु ॥८९॥राज्ञि तव दृष्टिरवने विनतानामपि सदैव खेलन्त्याः ।तपतोऽपि नित्यमीशो लोलो लिलासु ते भवति ॥९०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP