मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|उमाशतकम्| प्रथमं दशकम् उमाशतकम् प्रथमं दशकम् द्वितीयं दशकम् तृतीयं दशकम् चतुर्थं दशकम् पञ्चमं दशकम् षष्ठं दशकम् सप्तमं दशकम् अष्टमं दशकम् नवमं दशकम् दशमं दशकम् उमाशतकम् - प्रथमं दशकम् देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraumaउमादेवतादेवीसंस्कृतस्तोत्र प्रथमं दशकम् (आर्यावृत्तम्) Translation - भाषांतर फुल्लत्वं रविदीधितिनिरपेक्षमुमामुख्याब्जस्य ।पूर्णं करोतु मानसमभिलाषं पुण्यभूमिजुषाम् ॥१॥कैलासवासिनी वा धवलद्युतिबिम्बनिलया वा ।आकाशान्तरपीठस्थितोत मे देवता भवति ॥२॥आकाशान्तरपीठस्थितैव साक्षात्पराशक्तिः ।तस्या अंशव्यक्ती शशिनि सिताद्रौ च राजन्त्यौ ॥३॥सङ्कल्पवातसङ्गादानन्दरसो घनीभूतः ।अन्तर्व्यापकशक्तेः समपद्यत ते वपुर्मातः ॥४॥इच्छाविचित्रवीर्यात्तेजःपटलो घनीभूतः ।अन्तर्व्यापकशक्तेः समपद्यत ते विभोर्गात्रम् ॥५॥इच्छायोगात्तेजसि तव भागः कश्चिदस्तीशे ।विज्ञानयोगतो मुदि भाग्यस्त्वयि कश्चिदीशस्य ॥६॥सम्राजौ शशभृति यौ गृहवन्तौ यौ च सितगिरिणा ।तदिदं युवयोर्माया वेषान्तरमिथुनयुगलमुमे ॥७॥यद्यपि विभूतिरधिकं युवयोर्विश्वाम्बिके भवति ।मिथुने तथाप्यमू वां नेदिष्ठे देवि पश्यामः ॥८॥दम्पत्योर्भगवति वां प्रतिबिम्बौ भास्करे भवतः ।देहभुवौ भूचक्रस्वप्नप्रव्यक्त्ती सुधामहसि ॥९॥देहे भुवः प्रतिबिम्बः प्राणन्मूलस्य नेदीयान् ।प्रतिबिम्बव्यक्त्तेश्च स्वप्नव्यक्त्तिश्च नेदिष्ठा ॥१०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP